सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो᳚(1॒) ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यं तू॑प॒रमा ल॑भेत॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मये᳚त् प्राजाप॒त्यो वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ तस्मा॒थ् स्रामा᳚न्-मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ ( ) -ष दे॒वत॑या॒ समृ॑द्ध्यै ॥
पदपाठः (Word-by-word)
स॒जा॒तानिति॑ स-जा॒तान् । प्रेति॑ । य॒च्छ॒न्ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । ब॒हु॒रू॒प इति॑ बहु - रू॒पः । भ॒व॒ति॒ । ब॒हु॒दे॒व॒त्य॑ इति॑ बहु-दे॒व॒त्यः॑ । हि । ए॒षः । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । प्र॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । तू॒प॒रम् । एति॑ । ल॒भे॒त॒ । यस्य॑ । अना᳚ज्ञात॒मित्यना᳚ - ज्ञा॒त॒म् । इ॒व॒ । ज्योक् । आ॒मये᳚त् । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । वै । पुरु॑षः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । खलु॑ । वै । तस्य॑ । वे॒द॒ । यस्य॑ । अना᳚ज्ञात॒मित्यना᳚ - ज्ञा॒त॒म् । इ॒व॒ । ज्योक् । आ॒मय॑ति । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । तस्मा᳚त् । स्रामा᳚त् । मु॒ञ्च॒ति॒ । तू॒प॒रः । भ॒व॒ति॒ । प्रा॒जा॒प॒त्य इति॑ प्राजा-प॒त्यः । हि ( ) । ए॒षः । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ॥