रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भे॒तान्न॑कामो वैश्वदे॒वं ॅवा अन्नं॒ ॅविश्वा॑ने॒व दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्नं॒ छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑ रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै - [ ]
पदपाठः (Word-by-word)
रु॒न्धे॒ । वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् । ब॒हु॒रू॒पामिति॑ बहु - रू॒पाम् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । वै । अन्न᳚म् । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒न्ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ । वै । अन्न᳚म् । छन्द॑साम् । ए॒व । रसे॑न । रस᳚म् । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् । ब॒हु॒रू॒पामिति॑ बहु-रू॒पाम् । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । वै ।