स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ताः छन्द॑सामे॒व रसे॑न॒ रसꣳ॑ सजा॒तानव॑ रुन्धे बार्.हस्प॒त्य- मु॑क्षव॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं - [ ]
पदपाठः (Word-by-word)
स॒जा॒ता इति॑ स - जा॒ताः । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । स॒जा॒तानिति॑ स-जा॒तान् । प्रेति॑ । य॒च्छ॒न्ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ । वै । स॒जा॒ता इति॑ स - जा॒ताः । छन्द॑साम् । ए॒व । रसे॑न । रस᳚म् । स॒जा॒तानिति॑ स - जा॒तान् । अवेति॑ । रु॒न्धे॒ । बा॒र्.॒ह॒स्प॒त्यम् । उ॒क्ष॒व॒शमित्यु॑क्ष - व॒शम् । एति॑ । ल॒भे॒त॒ । ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ । बृह॒स्पति᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।