प्रजनयि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् मि॑थु॒नान् प्र ज॑नयति प्र॒जा हि वा ए॒तस्मि॑न् प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्थ्सन् व॑ड॒बः सा॒क्षादे॒व प्र॒जां प॒शूनव॑ रुन्धे मै॒त्रꣳ श्वे॒तमा ल॑भेत संग्रा॒मे संॅय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ मि॒त्रेण॒ सं न॑यति - [ ]
पदपाठः (Word-by-word)
प्र॒ज॒न॒यि॒तेति॑ प्र - ज॒न॒यि॒ता । त्वष्टा॑रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प॒शून् । मि॒थु॒नान् । प्रेति॑ । ज॒न॒य॒ति॒ । प्र॒जेति॑ प्र - जा । हि । वै । ए॒तस्मिन्न्॑ । प॒शवः॑ । प्रवि॑ष्टा॒ इति॒ प्र - वि॒ष्टाः॒ । अथ॑ । ए॒षः । पुमान्॑ । सन्न् । व॒ड॒बः । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । प्र॒जामिति॑ प्र -जाम् । प॒शून् । अवेति॑ । रु॒न्धे॒ । मै॒त्रम् । श्वे॒तम् । एति॑ । ल॒भे॒त॒ । स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे । संॅय॑त्त॒ इति॒ सं - य॒त्ते॒ । स॒म॒यका॑म॒ इति॑ सम॒य - का॒मः॒ । मि॒त्रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । मि॒त्रेण॑ । समिति॑ । न॒य॒ति॒ ।