विशा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैनं॑ प्राजाप॒त्यं कृ॒ष्णमा ल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒र्वै वृष्ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ ॅवर्.षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्.षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति ( ) ॥
पदपाठः (Word-by-word)
वि॒शा॒ल इति॑ वि - शा॒लः । भ॒व॒ति॒ । व्यव॑सायय॒तीति॑ वि - अव॑साययति । ए॒व । ए॒न॒म् । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । कृ॒ष्णम् । एति॑ । ल॒भे॒त॒ । वृष्टि॑काम॒ इति॒ वृष्टि॑ - का॒मः॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । वृष्ट्याः᳚ । ई॒शे॒ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प॒र्जन्य᳚म् । व॒र्॒.ष॒य॒ति॒ । कृ॒ष्णः । भ॒व॒ति॒ । ए॒तत् । वै । वृष्ट्यै᳚ । रू॒पम् । रू॒पेण॑ । ए॒व । वृष्टि᳚म् । अवेति॑ । रु॒न्धे॒ । श॒बलः॑ । भ॒व॒ति॒ । वि॒द्युत॒मिति॑ वि - द्युत᳚म् । ए॒व । अ॒स्मै॒ । ज॒न॒यि॒त्वा । व॒र्.॒ष॒य॒त॒ । अ॒वा॒शृ॒ङ्गः । भ॒व॒ति॒ । वृष्टि᳚म् । ए॒व । अ॒स्मै॒ । नीति॑ । य॒च्छ॒ति॒ ( ) ॥