प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.1.9.3 TS 2.1.9.3
-त्य॒पां चौष॑धीनां च स॒धांवा ल॑भत उ॒भय॒स्या-व॑रुद्ध्यै॒विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्रꣳ श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णं ज्योगा॑मयावी॒यन् मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑णꣳ शमयति॒ यद्-वा॑रु॒णः सा॒क्षादे॒वैनं॑ ॅवरुणपा॒शान् मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टिं॒ नावि॑न्द॒न् - [ ]
पदपाठः (Word-by-word)
अ॒पाम् । च॒ । ओष॑धीनाम् । च॒ । स॒धांविति॑ सं-धौ । एति॑ । ल॒भ॒ते॒ । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒ध्यै॒ । विशा॑ख॒ इति॒ वि-शा॒खः॒ । यूपः॑ । भ॒व॒ति॒ । द्वे इति॑ । हि । ए॒ते इति॑ । दे॒वते॒ इति॑ । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । मै॒त्रम् । श्वे॒तम् । एति॑ । ल॒भे॒त॒ । वा॒रु॒णम् । कृ॒ष्णम् । ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ । यत् । मै॒त्रः । भव॑ति । मि॒त्रेण॑ । ए॒व । अ॒स्मै॒ । वरु॑णम् । श॒म॒य॒ति॒ । यत् । वा॒रु॒णः । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । ए॒न॒म् । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । मु॒ञ्च॒ति॒ । उ॒त । यदि॑ । इ॒तासु॒रिती॒त-अ॒सुः॒ । भव॑ति । जीव॑ति । ए॒व । दे॒वाः । वै । पुष्टि᳚म् । न । अ॒वि॒न्द॒न्न् ।
पदसंख्या: 50