तां मि॑थु॒ने॑ ऽपश्य॒न् तस्यां॒ न सम॑राधय॒न्ता-व॒श्विना॑-वब्रूता-मा॒वयो॒र्वा ए॒षा मैतस्यां᳚ ॅवदद्ध्व॒मिति॒ साश्विनो॑रे॒वाभ॑व॒द्यः पुष्टि॑कामः॒ स्याथ् स ए॒तामा᳚श्वि॒नीं ॅय॒मीं ॅव॒शामा ल॑भेता॒ऽश्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न् पुष्टिं॑ धत्तः॒ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥
पदपाठः (Word-by-word)
ताम् । मि॒थु॒ने । अ॒प॒श्य॒न्न् । तस्या᳚म् । न । समिति॑ । अ॒रा॒ध॒य॒न्न् । तौ । अ॒श्विनौ᳚ । अ॒ब्रू॒ता॒म् । आ॒वयोः᳚ । वै । ए॒षा । मा । ए॒तस्या᳚म् । व॒द॒द्ध्व॒म् । इति॑ । सा । अ॒श्विनोः᳚ । ए॒व । अ॒भ॒व॒त् । यः । पुष्टि॑काम॒ इति॒ पुष्टि॑ - का॒मः॒ । स्यात् । सः । ए॒ताम् । आ॒श्वि॒नीम् । य॒मीम् । व॒शाम् । एति॑ । ल॒भे॒त॒ । अ॒श्विनौ᳚ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मि॒न्न् । पुष्टि᳚म् । ध॒त्तः॒ । पुष्य॑ति । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ ॥