प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.10.3 TS 2.5.10.3
चतु॑र्विꣳशति॒मनु॑ ब्रूयाद्-ब्रह्मवर्च॒स-का॑मस्य॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैवास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्धे त्रिꣳ॒॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रिꣳ॒॒शद॑क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्धे॒ द्वात्रिꣳ॑शत॒मनु॑ ब्रूयात् प्रति॒ष्ठाका॑मस्य॒ द्वात्रिꣳ॑शदक्षरा ऽनु॒ष्टुग॑नु॒ष्टुप् छन्द॑सां प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ षट्त्रिꣳ॑शत॒मनु॑ ब्रूयात् प॒शुका॑मस्य॒ षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्.ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शू - [ ]
पदपाठः (Word-by-word)
चतु॑र्विꣳशति॒मिति॒ चतुः॑ - विꣳ॒॒श॒ति॒म् । अन्विति॑ । ब्रू॒या॒त् । ब्र॒ह्म॒व॒र्च॒सका॑म॒स्येति॑ ब्रह्मवर्च॒स - का॒म॒स्य॒ । चतु॑र्विꣳशत्यक्ष॒रेति॒ चतु॑र्विꣳशति - अ॒क्ष॒रा॒ । गा॒य॒त्री । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । गा॒य॒त्रि॒या । ए॒व । अ॒स्मै॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । त्रिꣳ॒॒शत᳚म् । अन्विति॑ । ब्रू॒या॒त् । अन्न॑काम॒स्येत्यन्न॑ - का॒म॒स्य॒ । त्रिꣳ॒॒शद॑क्ष॒रेति॑ त्रिꣳ॒॒शत् - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒स्मै॒ । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्धे॒ । द्वात्रिꣳ॑शतम् । अन्विति॑ । ब्रू॒या॒त् । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ । द्वात्रिꣳ॑शदक्ष॒रेति॒ द्वात्रिꣳ॑शत् - अ॒क्ष॒रा॒ । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । छन्द॑साम् । प्र॒ति॒ष्ठेति॑ प्रति - स्था । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । षट्त्रिꣳ॑शत॒मिति॒ षट्-त्रिꣳ॒॒श॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ । षट्त्रिꣳ॑शदक्ष॒रेति॒ षट्त्रिꣳ॑शत् - अ॒क्ष॒रा॒ । बृ॒ह॒ती । बार्.ह॑ताः । प॒शवः॑ । बृ॒ह॒त्या । ए॒व । अ॒स्मै॒ । प॒शून् ।
पदसंख्या: 50