-नव॑ रुन्धे॒ चतु॑श्चत्वारिꣳशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिꣳशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप् त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्धे॒ ऽष्टाच॑त्वारिꣳ शत॒मनु॑ ब्रूयात् प॒शुका॑मस्या॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ सर्वा॑णि॒ छन्दाꣳ॒॒ स्यनु॑ ब्रूयाद्-बहुया॒जिनः॒ सर्वा॑णि॒ वा ए॒तस्य॒ छन्दाꣳ॒॒स्य व॑रुद्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्या व॑रुध्यै ॥
पदपाठः (Word-by-word)
अवेति॑ । रु॒न्धे॒ । चतु॑श्चत्वारिꣳशत॒मिति॒ चतुः॑ - च॒त्वा॒रिꣳ॒॒श॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ । चतु॑श्चत्वारिꣳशदक्ष॒रेति॒ चतु॑श्चत्वारिꣳशत् - अ॒क्ष॒रा॒ । त्रि॒ष्टुक् । इ॒न्द्रि॒यम् । त्रि॒ष्टुप् । त्रि॒ष्टुभा᳚ । ए॒व । अ॒स्मै॒ । इ॒न्द्रि॒यम् । अवेति॑ । रु॒न्धे॒ । अ॒ष्टाच॑त्वारिꣳशत॒मित्य॒ष्टा - च॒त्वा॒रिꣳ॒॒श॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ । अ॒ष्टाच॑त्वारिꣳशदक्ष॒रेत्य॒ष्टाच॑त्वारिꣳशत् - अ॒क्ष॒रा॒ । जग॑ती । जाग॑ताः । प॒शवः॑ । जग॑त्या । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । सर्वा॑णि । छन्दाꣳ॑सि । अन्विति॑ । ब्रू॒या॒त् । ब॒हु॒या॒जिन॒ इति॑ बहु - या॒जिनः॑ । सर्वा॑णि । वै । ए॒तस्य॑ । छन्दाꣳ॑सि । अव॑रुद्धा॒नीत्यव॑ - रु॒द्धा॒नि॒ । यः । ब॒हु॒या॒जीति॑ बहु - या॒जी । अप॑रिमित॒मित्यप॑रि - मि॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । अप॑रिमित॒स्येत्यप॑रि - मि॒त॒स्य॒ । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ॥