प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.11.1 TS 2.5.11.1
निवी॑तं मनु॒ष्या॑णां प्राचीनावी॒तं पि॑तृ॒णामुप॑वीतं दे॒वाना॒मुप॑ व्ययते देवल॒क्ष्ममे॒व तत् कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह॒ तिष्ठ॒न॒. ह्याश्रु॑ततरं॒ ॅवद॑ति॒ तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति॒ यत् क्रौ॒ञ्चम॒न्वाहा॑ऽऽसु॒रं तद्-यन्म॒न्द्रं मा॑नु॒षं तद्यद॑न्त॒रा तथ् सदे॑वमन्त॒राऽनूच्यꣳ॑ सदेव॒त्वाय॑ वि॒द्वाꣳसो॒ वै - [ ]
पदपाठः (Word-by-word)
निवी॑त॒मिति॒ नि - वी॒त॒म् । म॒नु॒ष्या॑णाम् । प्रा॒ची॒ना॒वी॒तमिति॑ प्राचीन - आ॒वी॒तम् । पि॒तृ॒णाम् । उप॑वीत॒मित्युप॑ - वी॒त॒म् । दे॒वाना᳚म् । उपेति॑ । व्य॒य॒ते॒ । दे॒व॒ल॒क्ष्ममिति॑ देव - ल॒क्ष्मम् । ए॒व । तत् । कु॒रु॒ते॒ । तिष्ठन्न्॑ । अन्विति॑ । आ॒ह॒ । तिष्ठन्न्॑ । हि । आश्रु॑ततर॒मित्याश्रु॑त - त॒र॒म् । वद॑ति । तिष्ठन्न्॑ । अन्विति॑ । आ॒ह॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । आसी॑नः । य॒ज॒ति॒ । अ॒स्मिन्न् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ । यत् । क्रौ॒ञ्चम् । अ॒न्वाहेत्य॑नु-आह॑ । आ॒सु॒रम् । तत् । यत् । म॒न्द्रम् । मा॒नु॒षम् । तत् । यत् । अ॒न्त॒रा । तत् । सदे॑व॒मिति॒ स - दे॒व॒म् । अ॒न्त॒रा । अ॒नूच्य॒मित्य॑नु - उच्य᳚म् । स॒दे॒व॒त्वायेति॑ सदेव - त्वाय॑ । वि॒द्वाꣳसः॑ । वै ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे पञ्चमप्रपाठके एकादशोनुवाकः।)

(सामिधेनीषू होतृ नियमविशेषाध्वर्य्वाधारविशेषयोरभिधानम्) नैमित्तिक्यः सामिधेन्यः काम्याश्च दशमे श्रुताः। अथैकादशे सामिधेनीषु होतुर्नियमविशेषोध्वर्योराधारविशेषश्चाभिधीयते। तत्रादौ तावद्यागकर्तृणामुपवीतं विधातुं प्रस्तौति

निवीतमिति। यत्रोभावपि बाहू न्यग्भूतौ सन्तौ ब्रह्मसूत्रेण वस्त्रेण वाधीयेते संवृतामाच्छादितौ क्रियेते तन्निवीतम् तच्च मनुष्याणां कार्येषु प्रशस्तम्। तस्मादृषितर्पणं निवीतयुक्तैः पुरुषैरनुष्ठीवते। प्राचीनो दक्षिणो हुराधीयतेधस्तात्कियते यत्र तत्प्राचीनावीतम्। तच्च पितृणां कर्मणि प्रशस्तम्। अत एव शिष्टाः प्राचीनावीतयुक्ताः पिण्डदानं कुर्वन्तीति। उपवीतस्य लक्षणं स्वाध्यायब्राह्मणे समाम्नातम्—‘दक्षिणं बाहुमुद्धरतेवधत्ते सब्यमिति यज्ञोपवीतम्’ इति। तच्च देवानां कर्मणि प्रशस्तम्। अत एव शिष्टाः स्वाध्यायादिकं तथैवाचरन्ति इदानीं विधत्ते उप व्ययत इति। तत्तेनोपवीतेन देवलक्ष्ममेव देवचिन्हमेव कृतं भवति यागकर्तृणामुपवीतं विधाय होतुः सामिधेन्याद्यनुवचनकाले स्थितिं विधत्ते तिष्ठन्नन्वाहेति। आसीनो नानुबूयात्किंतु तिष्ठन्नेप ब्रुयात्। तस्मात्तिष्ठन्मनुष्य आ समन्तादतिशयेत श्रुतं यथा भवति तथा वदितुं प्रभवति। तस्मात्तिष्ठन्ननुब्रूयात्। तदेवानूद्य प्रशंसति तिष्ठन्नन्वाहेति। आसनादुत्थितस्य प्रत्यासन्नः श्वर्गः। तस्मात्तस्याभिजित्यै संपद्यते। याज्याकाल उपवेशनं विधत्ते आसीनो यजतीति। यजति याज्यां पठेदित्यर्थः। आसीनस्य चलनाभाबादत्र प्रतिष्ठा। अत्युच्चध्वनिमतिनीचध्वनिं चापवदन्मध्यमध्वनिं विधत्ते यत्क्रौञ्चमन्वाहेति। यथा कौञ्चाख्यः पक्षिविशेष उच्चध्वनिं करोति तत्सदृशे सत्यासुरं भवेत्। मनुध्यास्तूपविश्य मन्द्रस्वरेण संभापन्ते। अतः सोपि वर्ज्यः। मध्यमध्वनेर्देवप्रियत्वात्तथैवानुवचनं कार्यम्। अपरं कंचिद्विशेषं विधत्ते -

"विद्वा सो वा इति। मूढः कश्चिद्धोता वेदेर्वहिरेव पादद्वयमवस्थाप्यानुब्रूते, तस्य पादद्वयस्थापनान्मार्गः संकीर्णो भवति। अपरस्तु मूढः पादद्वयं वेदिमध्य एव प्रक्षिप्यानब्रूते। स तु मार्गं न जानाति, तदिदं दोषद्वयं विद्वांसः केचित्कुशलाः पुरा यज्ञेषु होतारोभूवन् ते च दक्षिणं पादं वहिर्नप्रक्षिपन्ति। तेन तेषामध्वानो विस्तीर्णत्वेन धृता भवन्ति। वामपादमन्तर्न प्रक्षिपन्ति, किंतु बहिरेव स्थापयन्ति। तेन बहिःस्थापनेन पन्थानस्तान्विदुषः पुरुषान्नैव समरुक्षन्संरोहं न कृतवन्तः। अन्यो मार्गोन्यत्र च गच्छन्तीत्येतादृशो मार्गभ्रंशो मार्गकृतः संहोहः सोप्येषां नासीत्। तस्मात्पुरातनविद्वांस इवायमपि दक्षिणं पादं वेदेरन्तः प्रक्षिपेत्। वामपादं बहिः प्रक्षिपेत्। ततोनुब्रूयात्। एवं च सत्यध्वनां विस्तीर्णत्वेन धारणं भवति। पथिविषये संमोहश्च न भवति। परस्परविलशणं पादविन्यासं बहुधा प्रशंसति "

"अथो भूतमिति। चतुर्ष्वप्येतेषु प्रथमेनान्त पादप्रशंसा द्वितीयेन बहिष्पादप्रशंसेति द्रष्टव्यम्। तदेवं सामिधेनीषु विशेषनियमा हौत्राः समापिताः। अथार्ध्वयवस्त्रौवाधारं विधत्ते देवा वा इति। पूर्वं देवाः सामिधेनीरनूच्य तत्रत्येषु नियमविशेषेषु व्यापृतमनस्काः सन्त उपरितनयज्ञगतं कतर्व्यविशेषं कंचिदपि नैव स्मृतवन्तः। ततः प्रजापतिर्मन्त्रं कमप्यनुच्चार्य तूष्णीमेव ऋजुमाघारमनुष्ठितवान्। तावता कालेन देवाः सामिधेनीषु विक्षिप्तं चित्तं समाधायैकाग्रेण मनसा यज्ञगतकर्तव्यविशेष मनुस्मृतवन्तः। अतोत्रापि तूष्णीमनुष्टितः प्रथमाघारोनन्तरभाविनो यज्ञकर्तव्यस्यानुस्मरणाय भवति। यद्यपि पौरोडाशिककाण्ड वेदेनोपयत्य स्रुवेण प्राजापत्यमाघारमाघारयतीति अपमाघारो विहितः, तथापि तूष्णींभावादयो गुणविशेषा न विहिता इति नास्ति पुनरुक्तिः। तमेवाघारं प्रशंसति अथो सामिधेनीरिति। न केवलमनन्तरभावियज्ञकर्तव्यप्रतिमानमाधारस्य प्रयोजनं, किंतु वन्हौ प्रक्षिप्तानां सामिधेनीकाष्ठानामभ्यञ्जनमप्येकं प्रयोजनम्। एतद्वेदनं प्रशंसति अलूक्षो भवतीति। उक्ताभ्यञ्जनाभिज्ञः स्वयमरूक्षः पारुष्यरहितः स्नेहोपेतो भवति। आवारमेव पुनः प्रशसंति अथो तर्पयतीति। किंचानेनाधारणैनाः सामिधेन्यभिमानिदेवतास्तर्पयति। एतदीयतृप्तिवेदनं प्रशंसति तृप्यतीति। बदुक्तं सूत्रकारेण “स्रुवेण ध्रुवाया आज्यमादाय वेदेनोषयम्यासीन उत्तरं परिधिमन्ववहृत्य प्रजापतिं मनसा ध्यायन्दक्षिणाप्राञ्चमृजु संततं ज्योतिष्मत्याधारयन्सर्वाणीध्मकाष्ठानि स स्पर्शयति” इति। वेदेनोपयभ्य स्रुवस्याधस्ताद्वेदं धारयित्वोत्तरं परिधिसंधिमन्ववहृत्य वायवीये संधौ स्रुवद्युक्तहस्तमन्तः प्रसार्य ज्योतिष्मति वन्हौ घृतं क्षारयंस्तद्घृतं सर्वसामिधेनीकाष्ठस्पृष्टं कुर्यादित्यर्थः। तत्र मनसा प्रजापतर्यद्ध्यागं तदेतत्द्विधत्ते यदेकयेति। यद्येकामृचं पठित्वाधास्येत्तदानीमेकैव सामिधेनी तृप्ता भवेत्। द्वाभ्यामृग्भ्यां द्वे एव तृप्ते भवेताम्। त्रिप्रभृतिभिर्ऋग्भिराधारं यदि कुर्यात्तेनायमाघारः सर्वाणि कर्माण्यतिरिक्तवान्भवति। एकस्य हि कर्मण एकैव ऋक्प्राप्ता। तथा सति बहुभिरनुष्ठानमतिरेकः। तस्य सर्वस्य दोषस्य परिहाराय मनसैवाघारयेन्मनसोप्रतिहतगतित्वात्। यद्वागादिभिर्न प्राप्तं तत्सर्वं मनसा प्राप्तुं शक्यते। दक्षिणाप्राञ्चमित्युदाहृते सूत्रे वायवीं दिशमारभ्याग्नेय्यां समापनमुक्तम्। स एव सूत्रकार आधारयोः पुनरपि द्वे पक्षान्तर दर्शितवान्—“ऋजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा” इति। तत्र तिर्यक्पक्षं विधत्ते "

तिर्यञ्चमेति। दक्षिणां दिशमारभ्योत्तरस्यां समापनं तिर्यक्त्वम्। प्रतीची मारभ्य प्राच्यां समापने सत्येकस्या एव समिध उपरि घृतं पतेत्। तथा सति समिदन्तराणामस्पर्शाच्छम्बट्कारो वैयर्थ्यं भवेत्। तस्मादच्छम्यट्कारं यथा

"भवति तथा होतव्यम्। तिर्यक्त्वे सति सर्वसमित्संस्पर्शाद्वैयर्थ्यं न भवति । मनसाघारयतीति यद्विहितं तदेव पुनः प्रशंसति वाक्च मनश्चेति। आर्तिरतिशयस्तामिच्छेताम्। सैवार्तिः स्पष्टी क्रियते “अहं देवेभ्यो हव्यं वहामि” इति वाक्येन। ततो वाक्च मनश्चेत्येतौ हविर्वहननिर्णयाय प्रश्नं कर्तुं प्रजापतिं प्राप्नुताम्। स प्रजापतिर्वाचगब्रवीत् हे वाक्त्वं मनसो दूतीरेवासि दासीभूतैवासि न तु स्वतन्त्रा। तत्कथमित्युच्यते यस्माल्लोके पुरुषो यत्पूर्वं मनसा ध्यायति तत्पश्चाद्वाचा वदति तस्माद्वाचो दूतीत्वमेवेति। अनन्तरं क्रुद्धा वागब्रवीत्—हे प्रजापते यद्यहं दूती तर्हि तुभ्यं कोपि वाचा मा जुहोत्विति। तस्मादाघारं प्रजापतये मनसा जुह्वति। यथा मनः संकल्पेन कार्यं साधयति तथा प्रजापतिरपि। अतः सादृश्यान्मनसा होम प्रजापतेराप्त्यै भवति। यदुक्तं सूत्रकारेण “इध्मसंनहनैः सह स्फ्यैऋते स्फ्यैर्वाग्निघ्रोनुपरिकामन्परिधीन्यथापरिधि तमन्वग्रं त्रिस्त्रिः संमृज्य” इति। तदेत्संमार्जनं स्फ्येन सहितैरिध्मसंनहनदर्भैः कर्तव्यमिति विधत्ते परिधीन्त्समिति। क्रमेणैकैकस्य परिघेः संमार्जनावृत्तिं विधत्ते त्रिर्मध्यममिति। प्राणापानव्याना इति त्रित्वं, लोकत्रित्वं प्रसिद्धं, स्वर्गलोकयमलोकब्रह्मलोकविषयास्त्रयः पन्थानः। तत्र यमलोकाविषयस्म परिहारो जय इतरयोः प्राप्तिर्जयः। त्रित्वसाम्यात्तज्जय इति स्तूतये। यदुक्तं सूत्रकारेण—“वेदेनाग्निं त्रिरुपवाज्य” इति। तदेतद्विधत्ते त्रिरुप वाजयतीति। देवलोकानां त्रित्वं तदभिजयश्च मार्गत्रित्वज्जयवद्व्याख्येयम्। त्रिषु परिधिषु वह्नौ च येयं प्रत्येकं त्रिः क्रियावृत्तिस्तामेकीकृत्य प्रशंसति"

द्वादश समिति। न केवलं संवत्सरदेवतायाः प्रीतिः किंतु तत्संवत्सरं यजमानार्थं कर्मानुष्ठानकालत्वेन संपादयति। तच्च स्वर्गलोकाप्राप्त्यै भवति। पूर्वत्र विहितं तिर्यञ्चमाघारमनूद्य प्रशंसति आघारमिति। प्राङ्मुखेन यजमानेन दृश्यमानः स्वर्गो लोको दक्षिणोत्तरायामेन प्रतीयमानत्वात्तिर इव भवति। अतिस्तिर्यगाधारेण यजमानाय स्वर्गमुत्पादितवान्भवति। अथवा स्रुच्याघारस्य द्वितीयस्यायं विधिर्द्रष्टव्यः। आघारे गुणान्तरद्वयं विधत्ते ऋजुमिति। दक्षिणां दिशामारम्योत्तरदिगवसानपर्यन्तमाघारधाराया वक्रत्वं यथा न भवति यथा च विच्छेदो न भवति तथा कुर्यात्। प्राणवायुश्च हृदयमारभ्य मुखे निःसरन्मामदक्षिणापार्श्वयोरप्रवेशेन ऋजुरेव भवति संततश्च भवति। अतः प्राणस्यान्नस्य च संतत्यै संपद्यते। किंच सांतत्येन रक्षसामवकाशाभावदपहतिर्भवति। ऋजुत्वस्य नित्यप्रयोगाङ्गत्वात्काम्यत्वेन वक्रत्वं विधत्ते यं कामयेतेति। यं यजमानमुद्दिश्य मरणं कामयेत तस्य जिह्मं वक्रं यथा भवति तथाधारयेत्। तेन वक्रत्वेनास्माद्यजमानात्प्राणं वामादिपार्श्वनाडीषु प्रविश्य वक्रत्वं प्रापयति। तेन श्वासोपरोधेन तदानीमेवासौ म्रियते। आघारशेषेण ध्रुवायामञ्जनं विधत्ते शिरो वा इति। स्वात्मस्थानीयायां ध्रुवायां यज्ञशिरःस्थानीयस्याधारस्य प्रक्षेपे सति स्वस्मिन्नेव यज्ञशिरः स्थापितवान्भवति। ननु परिधिसंमार्जनादयः पौरोडाशिककाण्डेपि विहिताः। बाढम्। तत्र ह्यनुक्रमेण मन्त्राणां ख्यायमानत्वाद्भुवनमित्यादिमन्त्रव्याख्यानावसरे युक्ता एतिद्विधयः। इह तु तदनुवादेन प्रत्यभिज्ञाप्य तेष्वृजुत्वादयो गुणा विधीयन्ते। ततो नास्ति पुनरुक्तदोषः। अत एवोक्तानुवादकत्वादनुब्राह्मणमेतदिति संप्रदायविदः। यदुक्तं सूत्रकारेण “ऊर्ध्वस्तिष्ठन्होतारं वृणीतेग्निर्देवो होता देवान्यक्षद्विद्वा श्चिकित्विन्मनुष्यद्भरतवदमुवदमुवदिति यथार्षेयो यजमानः।” इति “इत ऊर्ध्वानध्वर्युर्वृणीतेमुतोर्वाचो होता” इति च। अस्यायमर्थः- यजमानस्य यादृशान्यार्षेयणि तादृशानि होतारं प्रत्यमुवदमुवदिति तत्तन्नामपुरःसरं प्रयोक्तव्यानि। तदिदमध्वर्युकर्तृकं होतृविषयं वरणम्। समिधेनीप्रस्तावे त्वार्षेयं वृणीत इति होतृकर्तृकमग्निविषयं वरणमुक्तम्। तयोरय विशेषः। अर्वाञ्चमारभ्येत ऊर्ध्वानुत्तरोतरानध्वर्युर्वृणीते। होता तूत्तममारभ्याधस्तनान्वृणीते। तद्यथा भार्गवच्यावनाप्नवानौर्वजामदग्नेत्येवं होतृकर्तृकं पूर्वमुदाहृतम्। अध्वर्युकर्तृके तु मनुष्वद्भरतवदित्यन्तं मन्त्रं पठित्वा जमदग्निवदूर्ववदप्नवानवच्च्यवनवद्भृगुवदिति प्रयोक्तव्यमिति। तदिदमध्वर्युकर्तृकं होतृविषयं वरणं विधत्ते अग्निर्देवानामिति। द्विविधो ह्यग्निर्मानुषो दैव्यश्चेति। भूलोके वर्तमानो होमसाधनभूतो मानुषोग्निः स च देवानां हविर्वहनेन तदीयो दूत आसीत्। दिवि वर्तमानो दैव्यः। स चान्यत्रापि श्रूयते—“दिवि नाको नामाग्निः। तस्य विप्रुषो भागधेयम्” इति। स चासुराणां हितमाचरंस्तदीयो दूत आसीत्। तावुभावावयोः कस्य दौत्यमुचितामिति प्रश्नमभिलक्ष्य प्रजापतिं प्राप्नुताम्। तत्र योयं मानुषोग्निः स ब्राह्मणः। ब्रह्मणि वेदे विहितं कर्म साधयितुं प्रवृत्तत्वात्। दैव्यस्त्वसुराणां कर्म साधयितुं प्रवृत्तत्वादासुर इत्युच्यते न ब्राह्मण इति। तयोर्मध्ये ब्राह्मणमग्निं प्रति प्रजापतिरब्रवीत् हे मानुवाग्ने त्वमेव दूत्यमर्हसि। तस्मात्त्वमेव यागे वक्तव्यमेतत्सर्वं ब्रूहीति। किं तत्सर्वमिति तदुच्यते—होतारं प्रत्यध्वर्युराश्रावयेति प्रयुङ्क्ते तस्य प्रयोगस्याभिप्रायः कथ्यते—हे देवा इदं यजमानसंबन्धि हविर्दानं शृणुतेत्येतमर्थमेव होतर्ब्रहीत्यभिप्रेत्य तदाश्रवणवाक्यं हे होतस्त्वां प्रत्यध्वर्प्रुरब्रवीत्। तस्मात्तमेव याज्यापाठमुरवेन देवानां श्रवणं यथा भवति तथा हौत्रमेतत्सर्वं त्ममेव ब्रूहीति। आसुरं प्रत्यध्वर्युणाश्रावयेत्यनुक्तत्वादसौ याज्यादिकं मा ब्रवीत्यभिप्रायः। यस्मात्प्रजापतिर्ब्राह्मणाग्निवरणं कृतवांस्तस्माद्देवा उत्कृष्टा अभवन्। पराभूता असुराः। प्रशंसति—

यद्ब्राह्मणश्चेति। यदि लोके ब्राह्मणाब्राह्मणौ विवदमानावहमेवाधिक इति अधिविषयं प्रश्नं कर्तुं कंचिदभिज्ञं प्रत्यागच्छेतां सोभिज्ञो ब्राह्मणस्यैवाधिक्यं ब्रूयात्तेन वक्तुः स्वस्यैवाधिक्यं संपादितं भवति। ब्राह्मणस्य पराभववचने स्वस्यैव पराभव उक्तो भवति। तस्मात्कदाचिदपि ब्राह्मणः पराभवविषयो न कर्तव्यः। सोयं प्रासङ्गिकः पुरुषार्थो विधिर्द्रष्टव्यः।

अत्र मीमांसा।

"तृतीयाध्यायस्य चतुर्थपादे चिन्तितम “निवीतं तु मनुष्याणां विधिर्वैषोर्थवादकः। अपूर्वत्वात्प्रकरणान्नुः ऋतोर्वा विधीयते। प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात्। उपवीतविधावेकवाक्यत्वादर्थवादता”।। दर्शपूर्णमासयोः श्रूयते—“निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुते” इति। तत्र निवीतस्य पूर्वं मानान्तरेणाप्राप्तत्वाद्विधेयत्वमभ्युपेतव्यम्। तच्च निवीतं मनुष्याणामिति षष्ठ्या पुरुषार्थत्वेन विधीयत इत्येकः पूर्वपक्षः। अस्मिन्पक्षे मनुष्यसंबन्धो द्विविधः-सुवर्णसाधारणवत्सर्वपुरुषार्थ इत्येक प्रकारः। उपवीतप्राचीनावीतयोः क्रतुप्रवेशरहितयोः स्वतन्त्रदैविकमैतृककर्मणोरपि दर्शनात्तत्साहवर्येण स्वतन्त्र आचार्यातिथ्यादिमनुष्यविषये कर्मणि निवीतमित्यपरः प्रकारः प्रकरणबलाद्यागधर्म इति द्वितीयः पूर्व पक्षः। अस्मिन्पक्षे मनुष्यग्रहणं कर्तृसंबन्धानुवादः। षष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसंबन्धिमनुष्यधर्म इति पक्षान्तरमुदेति। तच्च द्विविधं, लोहितोष्णीषादिवदृत्विग्धर्म इत्येकः प्रकारः। क्रतावेव यन्मनुष्यप्रधानं कर्मान्धाहार्यदानादि तद्धर्मत्वे सति उपवीतप्राचीनावतिसाहचर्यमप्यनुगृह्यत इत्यपरः प्रकारः। सर्वथा निवीतं नार्थवाद इत्येवं प्राप्ते ब्रूमः- अत्र प्रतीयमानं निवीतादिकं वासोविषयं न तु त्रिवृत्सूत्रविषयम्। अजिनं वासो वा दक्षिणत उपवीयेत्यनेन सदृशत्वात्। वस्त्रस्य च निवीतं सौकर्याय प्राप्तम्। अत्र प्राचीनावीतोपवीतयोरवश्यमेकास्मिन्पार्श्वे वस्त्रमधः पतेत्। अतः प्राप्तेर्थे मनुष्याणामिति षष्ठीश्नुतिर्न विधायिका। न च प्रकरणात्क्रत्वङ्गत्वेन विधिः। वाक्यभेद प्रराङ्गात्। उपवीतं तावद्विधीयते। अन्यथा देवलक्ष्ममेव तत्कुरुत इति प्रशंसावैयर्थ्यापत्तेः। तस्मिंश्चोपवीतविधावर्थवादत्वेन निवीतप्राचीनावीतयोरे कवाक्यत्वसंभवे पृथग्विधानमयुक्तम्। निवीतप्राचीनावीते मनुष्यपितृविषयत्वाद्दैविके कर्मण्ययोग्ये उपवीतं तु योग्यमिति ब्यतिरेकमुखेन (ण) स्तावकं निवीतम्। तस्मादर्थवादः। उपव्ययत इत्यस्य तु विधित्वं प्रथमकाण्डस्याद्यानुवाके चिन्तीतम्। "

"“तृतीयाध्यायस्यैव प्रथमपादे चिन्तितम् उपव्ययत इत्यस्य सामिधेन्यङ्गताऽथवा । दर्शाङ्गता प्रक्रियैषाऽवान्तराऽतोऽस्त्विहाग्रिमः”।। लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः। विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः।। दर्शपूर्णमासप्रकरणे विश्वरूपो वै त्वाष्ट्र इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः सामिधेनीब्राह्मणमाम्नातम्। नवमे निवित्संज्ञकानामग्ने महाँ असि ब्राह्मण भारतेत्यादीनां मन्त्राणां ब्राह्मणम्। दशमे काम्याः सामिधेनीपक्षाः। एकादशे तूपवीतमेवं विहितम्—“निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुते” इति। तत्र पूर्वन्यायेन सामिधेनीप्रकरणास्यावान्तरस्यं स्वीकारात्सामिधेन्यङ्गत्वमुवीतस्येति चेन्न। निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छिन्नत्वात्। न च निविदामपि साभिधेनीन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वामिति वाच्यम्। लिङ्गेन निविदामग्न्यङ्गत्वावगतत्वात्। आहुत्यधिकरणभूतमग्निं संबोध्य महा असीत्याद्वार्मिनिविदाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते। अत एव निर्वचनमेवं श्रूयते-निविद्भिर्न्यवेदयन्। तन्निविदां निवित्त्षम् इति। ननु सम्यगिध्यतेग्निर्याभिर्ऋग्भिस्ताः साविधेन्य इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एवेति चेत्। भवतु नाम। नैतावता परस्परमङ्गाङ्गिभावः। ननु विच्छिद्यतां सामिधेनीप्रकरणं, निवित्प्रकरणेनोपवीत्तस्य निविदङ्गत्वं स्यादिति चेन्न। पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात्। संनिधिना तदङ्गत्वमिति चेन्न। काम्यसामिधेनीभिर्व्यवहितत्वात्। न च काम्यसामिधेन्यङ्गता शङ्गनीया। संनिधितः प्रकरणस्य प्रबलत्वात्। तस्मादिह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम्। तत्रैव चतुर्थपादे चिन्तितम् "

सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः। सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः।।

दर्शाद्यर्थं प्रकरणाल्लिङ्गे स्यात्सिद्धिरन्यथा। दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम्।।

" “यज्ञोपवीती हि देवेभ्यो दोहयति” इत्येवमग्निहोत्रे यज्ञोपवितस्य सिद्धवदनुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतमिति चेन्न। लिङ्गस्यान्यथोपपत्तेः। मृताग्निहोत्रं तस्मिन्दिनेन्येन हूयते। तत्र प्राचीनावीती दोहयेदिति विधाय तस्य स्तुतये यज्ञोपवीतीत्याद्यनूदितम्। अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमासाङ्गमुपवीतम्। द्वादशध्यायस्य तृतीयपादे चिन्तितम् “ऋजुत्वादय आघारे विकल्पन्ते न वाग्रिमः। एकार्थत्वाददृष्टार्थभेदात्संभवतोन्तिमः”।। दर्शपूर्णमासयोराम्नायते—ऋजुमाभारयति, संततमाघारयति, आघारमाचारयति इति। तेषामृजुत्वादीनामाघारोपकारद्वारा कार्यस्यैकत्वाद्विकल्प इतिचेन्न। दृष्टद्वारभेदाभावेप्यदृष्टाद्वारभेदात्सहानुष्ठानसंभवाच्च न विकल्पः। तत्रेवान्यच्चिन्तितम् “आघारे मन्त्रसाहित्यं धारा वा संतताग्रिमः। कर्मैकत्वान्नाज्यधारातैरन्तर्यस्य संभवात्।।” संततमाघारयतीत्यत्र पूर्ववदाहुतिनैरन्तर्यं न संभवति। आहुतेरेकत्वात् अतो मन्त्रकर्मसाहित्यस्यैत्र संततशब्दार्थत्वान्मन्त्रादौ कर्मोपक्रम इति चेन्मेवम्। धा (घा) र्यमाणाज्ययिन्दुनैरन्तर्यस्य संततशब्दार्थ वसंभवात्। न ज प्रयाजाद्याहुतिष्वपि नैरन्तर्यमस्तीति शङ्कनीयम्। तत्र विच्छिद्य विच्छिद्य बिन्दुपातेपि कर्गवैकल्याभावात्। अत्र तु न तथेति वैषम्यम्। तथा सत्याघाराय यदाज्यं जुह्वा गृहीतं तत्सर्वं शनैरविच्छेदेनाहवनीये पातयेदिति संततशब्दार्थः। यदि मन्त्रकर्मणोः सहोपक्रमः स्थात्तदानीमनेन मन्त्रेणेति तृतीयाश्रुत्युक्तं पूर्वकालवर्तित्वलक्षणं मन्त्रस्य करणत्वं हीयेत। तस्मात्पूर्ववन्मन्त्रान्ते कर्मसंनिपातः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके एकादशोनुवाकः ।। ११।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 निवीतमित्यादि ॥ स्वाध्यायविधावुपवीतादीनां लक्षणं भविष्यति । अत्र तु तत एव प्राप्तत्वादर्थवादः । उक्तञ्च 'निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात्' इत्यत्र । उभावपि बाहू न्यग्भूतौ वीयेते तन्निवीतं मनुष्याणां स्वं मनुष्यकार्येषु प्रशस्तम् । प्राचीनो दक्षिणो बाहुरावीयते अधस्तात् क्रियते यत्र तत् प्राचीनावीतं पितृकर्मणि प्रशस्तम् । यज्ञसाधनभूतो दक्षिणो बाहुरुपवीतं समन्ताच्छाद्यते यत्र तद्यज्ञोपवीतम् । यथोक्तं - 'दक्षिणं बाहुमुद्धरतेऽव धत्ते सव्यमिति' इति । तत्र 'सत्यभामा' 'भामा' इतिवत् पदैकदेशो लुप्यते । गतार्थत्वादप्रयोगो लोपः । एतद्देवकर्मणि प्रशस्तम् । तस्माद्धोता सामिधेनीरनुब्रुवन् उपव्ययते उपवीतं करोति । देवानामेव तेन लक्षणं कृतं भवति । 'अनसन्तान्नपुंसकात्' इत्यच्समासान्तः ॥
2 तिष्ठन्नित्यादि ॥ लोके हि योऽतिशयेत आश्रोतुं भवती प्रतिश्रुतमिच्छति स तिष्ठन् वदन् दृश्यते । तस्मात्तिष्ठन्नब्रूयात् किञ्च - सुवर्गस्य लोकस्याभिजयाय भवति, प्रत्यासत्त्या, आभिमुख्याद्वा । आसित्वा यागे अस्मिन् लोके प्रतिष्ठित्यै भवति, एतल्लोकप्रत्यासत्या अविचलत्वाच्च ॥
3 क्रौञ्चम् ॥ क्रौञ्चमिव स्वरः शुष्कः मन्द्रः गभीरः तद्द्वयोरन्तरा मध्यमस्वरोऽभिधीयते । सदेवं देवसहितं तस्मान्मन्द्रक्रौञ्चयोरन्तरा मध्ये अनूच्यं मध्यस्थेन स्वरेणानुब्रुयात् । छान्दसः क्यच् ॥
4 विद्वांस इत्यादि ॥ पूर्वं विद्वांसः अध्वरज्ञा होतारोऽभूवन् । समरुक्षन् अन्योन्यं समारूढा नाभूवन् । 'शल इगुपधादनिटः क्सः' । तत्कथमिदानीं तैर्होत्रादिभिः कर्तव्यमित्याह – अन्तर्वेदीत्यादि । अन्तर्वेदि दक्षिणतः पादोऽवस्थाप्यः, इतरो बहिर्वेदि नातिदूरेऽवस्थाप्यः । अथानन्तरमेवमवस्थापितपादद्वयोऽनुब्रूयात्; अध्वनामसङ्कीर्णत्वाय असंरोहाय च भवति । अन्यः पन्थाः अन्यस्मिन् समारूढो न भवति । मार्गमोहश्च न भवतीत्यर्थः ॥
5 अथो इत्यादि ॥ अन्तर्वेदि भूतं इष्टसाधनत्वेन परिनिष्पन्न त्वात्, बहिर्वेदि भविष्यत् अतथाभावात् । अन्तर्वेदि परिमितं इतरदपरिमितम् । अन्तर्वेदि ग्राम्याः पशवो यज्ञसाधनत्वात् । बहिरारण्याः विपर्ययत्वात् । अत्र गोश्वाजाविपुरुषगर्दभोष्ट्रा ग्राम्याः पशवः । द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेया आरण्याः । अन्तर्वेदि देवलोकः । बहिर्वेदि अन्यः ॥
6 देवा वै सामिधेनीरनूच्येत्यादि ॥ समाप्तं हौत्रम् । अतःपरं दार्शपौर्णमासिकमाध्वर्यवं प्राजापत्यमेव काण्डम् । सामिधेन्यनुवचनानन्तरं यज्ञप्रयोगं देवा नान्वपश्यन् अनन्तरं कर्तव्यं नाजानन् । स इत्यादि । प्रजापतिरुत्तरं परिधिसन्धिं अन्ववहृत्य दक्षिणाप्राञ्चमाघारं तूष्णीमाघारयत् आज्यमक्षारयत् । यज्ञस्यानुक्रमेण ख्यात्यै भवति ॥
7 अथो इत्यादि ॥ सामिधेनीभिर्हुतानां समिधामियमभ्यक्तिः क्रियते अञ्जनस्थानीयत्वात् । यथोक्तम् - 'अभ्यञ्जनं वाव स्त्रिया अन्नम्' इति । एवं विद्वानलूक्षो भवति । लूक्षो दुर्गतः । लुब्ध इत्येके ।

अभ्यञ्जनादिसमृद्धो भवति । तर्पयत्येवेति । अग्नौ प्रक्षेपं विस्मृत्य यथातृप्ता एव भवन्ति तथा करोत्यनेन ॥

8 यदेकयेत्यादि ॥ यद्येकया वाचा मन्त्रात्मिकया आघारयेत् एकामेव सामिधेनीं प्रीणीयात् । द्वाभ्यां द्वे । यदिति । तिसृभिस्तदतिरेचयेत् । आघारमात्रं तिसृभिः क्रियते इत्यतिरेकोयम् । तस्माद्गत्यभावात् मनसा तूष्णीं आघारयति । एवं ह्यनाप्तं आप्तुमयोग्यं ह्याप्तं भवति ॥
9 तिर्यञ्चमिति ॥ सर्वगतिको दण्डवत् धारकत्वात् तिरश्चीन

आघारोग्नेरनार्तत्वाय भवति ॥

10 वाक्चेत्यादि ॥ ऋतिस्सौत्रो धातुः घृणायां वर्तते । तस्माल्लुङ्, 'ऋतेरीयङ्' 'आडजदीनाम्' । वाक्च मनश्च देवेषु आर्तीयेतां आदरातिशयमकुरुताम् । अहमेव देवभेयो हव्यं वहानीति वागब्रवीत् । मनश्चाहमेव वहानीत्यब्रवीत् । अथ तौ तथा श्रद्धातिशयेन विप्रतिपद्यमानौ वाङ्मनसाख्यौ पदार्थौ पुत्रौ वा प्रजापतेः । लिङ्गव्यत्ययेन वा 'नपुंसकमनपुंसकेन' इति बाध्यते । प्रजापतिं प्रश्नमैतां प्रष्टव्यत्वेनागच्छताम् ॥
11 सोब्रवीदित्यादि ॥ 'सुपां सुलुक्' इति हल्ङ्यादिलोपापवादः स्वादेशः । वाचमब्रवीत् प्रजापतिः - मनस्याध्यातस्य बहिःख्यापयित्रीति दूतस्थानीयैव त्वमसि । तस्मान्मन एव हविर्वोढुमर्हतीति । अथ वाक् प्रजापतिमब्रवीत् - तर्हि केचिदपि तुभ्यं न वाचा मन्त्रेण जुहुवन्न जुहुयुः । तस्माद्वाचश्शापात्प्रजापतये मनसैव जुह्वतीति । लेटि तस्यार्धधातुकत्वेन ङित्वाभावाद्गुणः, अन्त्यादेशश्च, द्विविकरणत्वेन शबपि मध्येऽवतिष्ठते । मन इव हीति । व्यापकत्वेन प्रजापतितुल्यत्वेन मनसा होमः प्रजापतेराप्त्यै भवति ॥
12 परिधीनित्यादि ॥ गतम् । मध्यमादीनां प्राणादिजयहेतुत्वं यथाकथञ्चिदुत्प्रेक्ष्यम् । केचिदाहुः - देहमध्यस्थप्राणादिस्थानीया मध्यमा । दक्षिणभूगोळस्य प्रकाशत्वेन लोकत्वात् दक्षिणा लोकस्थानीया । उत्तरगोळस्याप्रकाशत्वात् देवपथतुल्या उत्तरा इति । 'दिक्पूर्वपदाट्ठञ्च' इति अर्धान्ताद्यत्प्रत्ययः ॥
13 त्रिरुप वाजयतीति ॥ अग्निं त्रिर्विधूनयति । देवलोकस्थानीयस्याग्नेः उपवाजनेन लोकत्रयावाप्तिः । सत्यलोकान्तास्त्रयो देवलोकाः । वातेर्णिजन्तस्य 'वोविधूनने जुक्' इति जुगागमः । द्वादशत्वान्वयात् द्वादशमासात्मकः संवत्सरोऽत्र संपादितो भवति । स च स्वर्गावाप्तिहेतुरिति ॥
14 आघारमित्यादि ॥ धारां; तिरश्चीनत्वेन तिरोभूतात्मानं स्वर्गमस्मै प्ररोचयति दीपयति वा । ऋजुरिति । अकुटिलधारामाघारयति । प्राणानामन्नाद्यस्य अविछेदाय भवति । रक्षसामपहत्यै भवति ॥
15 यमित्यादि ॥ गतम् । जिह्मं कुटिलम् ॥
16 शिरो वा इत्यादि ॥ आघारशेषेण ध्रुवादिसमञ्जनादात्मनि यज्ञस्य शिरः प्रतिहितं भवति ॥
17 अग्निर्देवानामित्यादि ॥ अध्वर्युप्रवरविधिः । दैव्य इति वक्ष्यमाणत्वान्मानुषोग्निर्गृह्यते । स च ब्राह्मण एषः देवानां यागे हविषो वोढाऽऽसीत्; दैव्योऽग्निरसुराणामासीत् । 'देवाद्यञञौ' इति यञ् । तौ प्रजापतिं पश्नमैतां प्रष्टव्यत्वेनागच्छतां कतरो नो हविषा यष्टुमर्हतीति । अथ स प्रजापतिः ब्राह्मणं मानुषमग्निं दूत्ये स्थापयितुकामोऽ ब्रवीत् - आश्रावयेति । यदिदमध्वर्युणा त्वां प्रत्युच्यते एतद्विब्रूहि आचक्ष्वेति । सोऽपीदं देवाः शृणुतेति । देवेभ्य आवेदनार्थं वावेति तदब्रवीत् । ततः 'अग्निर्देवो होता' इत्यादिना वाक्येन य एव दूतो

ब्राह्मणात्माऽग्निः तमेवावृणीत - अयमग्निर्देवो होता ब्राह्मणात्मा देवान् यष्टुमर्हति विद्वान् आश्रावणादितत्त्वज्ञः । चिकित्वा महाज्ञानः - मनुरिव भारत इव जमदग्निरिवोर्व इवाप्नुवान इव च्यवन इव भृगुरिवेति । एवमिति । ऊर्ध्वानृषीन्प्रवृणानो होतारं वृणीते ॥

18 ततो देवा इत्यादि ॥ गतम् ॥
19 यद्ब्राह्मणश्चेत्यादि ॥ ब्राह्मणाब्राह्मणयोः प्रश्नार्थमागतयोः ब्राह्मणायाधिकं पक्षपातेन ब्रूयात् । गतमन्यत् । अनादरेण वचनं परोच्य इति । छान्दसः क्यच् ॥
इति द्वितीये पञ्चमे एकादशोऽनुवाकः ॥