देवलो॒कं चै॒व म॑नुष्य लो॒कं चा॒भि ज॑यति दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञ्ं नान्व॑पश्य॒न्थ्स प्र॒जाप॑तिस्तू॒ष्णी-मा॑घा॒रमा ऽघा॑रय॒त् ततो॒ वै दे॒वा य॒ज्ञ्मन्व॑पश्य॒न्॒. यत् तू॒ष्णीमा॑घा॒र-मा॑घा॒रय॑ति य॒ज्ञ्स्यानु॑ख्यात्या॒ अथो॑ सामिधे॒नीरे॒वाभ्य॑-न॒क्त्यलू᳚क्षो भवति॒ य ए॒वं ॅवेदाथो॑ त॒र्पय॑त्ये॒वैना॒-स्तृप्य॑ति प्र॒जया॑ प॒शुभि॒ - [ ]
पदपाठः (Word-by-word)
दे॒व॒लो॒कमिति॑ देव - लो॒कम् । च॒ । ए॒व । म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् । च॒ । अ॒भीति॑ । ज॒य॒ति॒ । दे॒वाः । वै । सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । अ॒नूच्येत्य॑नु - उच्य॑ । य॒ज्ञ्म् । न । अन्विति॑ । अ॒प॒श्य॒न्न् । सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । तू॒ष्णीम् । आ॒घा॒रमित्या᳚-घा॒रम् । एति॑ । अ॒घा॒रय॒त् । ततः॑ । वै । दे॒वाः । य॒ज्ञ्म् । अन्विति॑ । अ॒प॒श्य॒न्न् । यत् । तू॒ष्णीम् । आ॒घा॒रमित्या᳚ - घा॒रम् । आ॒घा॒रय॒तीत्या᳚ - घा॒रय॑ति । य॒ज्ञ्स्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । अथो॒ इति॑ । सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । ए॒व । अ॒भीति॑ । अ॒न॒क्ति॒ । अलू᳚क्षः । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । अथो॒ इति॑ । त॒र्पय॑ति । ए॒व । ए॒नाः॒ । तृप्य॑ति । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ ।