प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.11.4 TS 2.5.11.4
-र्य ए॒वं ॅवेद॒ यदेक॑या ऽऽघा॒रये॒देकां᳚ प्रीणीया॒द्यद् द्वाभ्यां॒ द्वे प्री॑णीया॒द्यद् ति॒सृभि॒रति॒ तद्रे॑चये॒त्मन॒सा ऽऽघा॑रयति॒ मन॑सा॒ ह्यना᳚प्तमा॒प्यते॑ ति॒र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कारं॒ ॅवाक् च॒ मन॑श्चा ऽऽर्तीयेताम॒हं दे॒वेभ्यो॑ ह॒व्यं ॅव॑हा॒मीति॒ वाग॑ब्रवीद॒हं दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑तिं प्र॒श्नमै॑ताꣳ॒॒ सो᳚ऽब्रवीत् - [ ]
पदपाठः (Word-by-word)
यः । ए॒वम् । वेद॑ । यत् । एक॑या । आ॒घा॒रये॒दित्या᳚ - घा॒रये᳚त् । एका᳚म् । प्री॒णी॒या॒त् । यत् । द्वाभ्या᳚म् । द्वे इति॑ । प्री॒णी॒या॒त् । यत् । ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । अतीति॑ । तत् । रे॒च॒ये॒त् । मन॑सा । एति॑ । घा॒र॒य॒ति॒ । मन॑सा । हि । अना᳚प्तम् । आ॒प्यते᳚ । ति॒र्यञ्च᳚म् । एति॑ । घा॒र॒य॒ति॒ । अछ॑बंट्कार॒मित्यछ॑बंट् - का॒र॒म् । वाक् । च॒ । मनः॑ । च॒ । आ॒र्ती॒ये॒ता॒म् । अ॒हम् । दे॒वेभ्यः॑ । ह॒व्यम् । व॒हा॒मि॒ । इति॑ । वाक् । अ॒ब्र॒वी॒त् । अ॒हम् । दे॒वेभ्यः॑ । इति॑ । मनः॑ । तौ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । प्र॒श्नम् । ऐ॒ता॒म् । सः । अ॒ब्र॒वी॒त् ।
पदसंख्या: 50