प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.11.5 TS 2.5.11.5
प्र॒जाप॑तिर्दू॒तीरे॒व त्वं मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॒ तत् खलु॒ तुभ्यं॒ न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त् तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति॒मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ परि॒धीन्थ्सं मा᳚र्ष्टि पु॒नात्ये॒वैना॒न्‌त्रिर्म॑द्ध्य॒मं त्रयो॒ वै प्रा॒णाः प्रा॒णाने॒वाभि ज॑यति॒ त्रिर्द॑क्षिणा॒र्द्ध्यं॑ त्रय॑ - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । दू॒तीः । ए॒व । त्वम् । मन॑सः । अ॒सि॒ । यत् । हि । मन॑सा । ध्याय॑ति । तत् । वा॒चा । वद॑ति । इति॑ । तत् । खलु॑ । तुभ्य᳚म् । न । वा॒चा । जु॒ह॒व॒न्न् । इति॑ । अ॒ब्र॒वी॒त् । तस्मा᳚त् । मन॑सा । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । जु॒ह्व॒ति॒ । मनः॑ । इ॒व॒ । हि । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । प॒रि॒धीनिति॑ परि - धीन् । समिति॑ । मा॒र्ष्टि॒ । पु॒नाति॑ । ए॒व । ए॒ना॒न् । त्रिः । म॒द्ध्य॒मम् । त्रयः॑ । वै । प्रा॒णा इति॑ प्र - अ॒नाः । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । अ॒भिति॑ । ज॒य॒ति॒ । त्रिः । द॒क्षि॒णा॒द्‌र्ध्य॑मिति॑ दक्षिण - अ॒द्‌र्ध्य᳚म् । त्रयः॑ ।
पदसंख्या: 50