इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्द्ध्यं॑ त्रयो॒ वै दे॑व॒यानाः॒ पन्था॑न॒स्ताने॒वाभि ज॑यति॒ त्रिरुप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रःसं॑ॅवथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संॅवथ्स॒रमे॒वास्मा॒उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या आघा॒रमा घा॑रयति ति॒र इ॑व॒ - [ ]
पदपाठः (Word-by-word)
इ॒मे । लो॒काः । इ॒मान् । ए॒व । लो॒कान् । अ॒भीति॑ । ज॒य॒ति॒ । त्रिः । उ॒त्त॒रा॒द्र्ध्य॑मित्यु॑त्तर - अ॒द्र्ध्य᳚म् । त्रयः॑ । वै । दे॒व॒याना॒ इति॑ देव - यानाः᳚ । पन्था॑नः । तान् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । त्रिः । उपेति॑ । वा॒ज॒य॒ति॒ । त्रयः॑ । वै । दे॒व॒लो॒का इति॑ देव - लो॒काः । दे॒व॒लो॒कानिति॑ देव - लो॒कान् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । द्वाद॑श । समिति॑ । प॒द्य॒न्ते॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ए॒व । प्री॒णा॒ति॒ । अथो॒ इति॑ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ए॒व । अ॒स्मै॒ । उपेति॑ । द॒धा॒ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । आ॒घा॒रमित्या᳚ - घा॒रम् । एति॑ । घा॒र॒य॒ति॒ । ति॒रः । इ॒व॒ ।