वै सु॑व॒र्गो लो॒कः सु॑व॒र्गमे॒वास्मै॑ लो॒कं प्ररो॑चयत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णः संत॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ संत॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑ जि॒ह्मं तस्या ऽऽघा॑रयेत् प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मं न॑यति ता॒जक् प्रमी॑यते॒शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा - [ ]
पदपाठः (Word-by-word)
वै । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । अ॒स्मै॒ । लो॒कम् । प्रेति॑ । रो॒च॒य॒ति॒ । ऋ॒जुम् । एति॑ । घा॒र॒य॒ति॒ । ऋ॒जुः । इ॒व॒ । हि । प्रा॒ण इति॑ प्र - अ॒नः । संत॑त॒मिति॒ सं - त॒त॒म् । एति॑ । घा॒र॒य॒ति॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । संत॑त्या॒ इति॒ सं - त॒त्यै॒ । अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । यम् । का॒मये॑त । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । इति॑ । जि॒ह्मम् । तस्य॑ । एति॑ । घा॒र॒ये॒त् । प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । अ॒स्मा॒त् । जि॒ह्मम् । न॒य॒ति॒ । ता॒जक् । प्रेति॑ । मी॒य॒ते॒ । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । आ॒घा॒र इत्या᳚ - घा॒रः । आ॒त्मा । ध्रु॒वा ।