ऽऽघा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञ्स्य॒ शिरः॒ प्रति॑ दधात्य॒ग्निर्दे॒वानां᳚ दू॒त आसी॒द् दैव्योऽसु॑राणां॒ तौ प्र॒जाप॑तिं प्र॒श्नमै॑ताꣳ॒॒ स प्र॒जाप॑ति र्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒दं दे॑वाः शृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्नि र्दे॒वो होतेति॒ य ए॒व दे॒वानां॒ तम॑वृणीत॒ ततो॑ दे॒वा - [ ]
पदपाठः (Word-by-word)
आ॒घा॒रमित्या᳚ - घा॒रम् । आ॒घार्येत्या᳚ - घार्य॑ । ध्रु॒वाम् । समिति॑ । अ॒न॒क्ति॒ । आ॒त्मन्न् । ए॒व । य॒ज्ञ्स्य॑ । शिरः॑ । प्रतीति॑ । द॒धा॒ति॒ । अ॒ग्निः । दे॒वाना᳚म् । दू॒तः । आसी᳚त् । दैव्यः॑ । असु॑राणाम् । तौ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । प्र॒श्नम् । ऐ॒ता॒म् । सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । ब्रा॒ह्म॒णम् । अ॒ब्र॒वी॒त् । ए॒तत् । वीति॑ । ब्रू॒हि॒ । इति॑ । एति॑ । श्रा॒व॒य॒ । इति॑ । इ॒दम् । दे॒वाः॒ । शृ॒णु॒त॒ । इति॑ । वाव । तत् । अ॒ब्र॒वी॒त् । अ॒ग्निः । दे॒वः । होता᳚ । इति॑ । यः । ए॒व । दे॒वाना᳚म् । तम् । अ॒वृ॒णी॒त॒ । ततः॑ । दे॒वाः ।