अभ॑व॒न् पराऽसु॑रा॒ यस्यै॒वं ॅवि॒दुषः॑ प्रव॒रं प्र॑वृ॒णते॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ यद्ब्रा᳚ह्म॒णश्चा ब्रा᳚ह्मणश्च प्र॒श्नमे॒यातां᳚ ब्राह्म॒णायाधि॑ ब्रूया॒द् यद् ब्रा᳚ह्म॒णाया॒द्ध्याहा॒ ऽऽत्मनेऽद्ध्या॑ह॒ यद्ब्रा᳚ह्म॒णं प॒राहा॒ऽऽत्मानं॒ परा॑ऽऽह॒ तस्मा᳚द् ब्राह्म॒णो न प॒रोच्यः॑ ॥
पदपाठः (Word-by-word)
अभ॑वन्न् । परेति॑ । असु॑राः । यस्य॑ । ए॒वम् । वि॒दुषः॑ । प्र॒व॒रमिति॑ प्र - व॒रम् । प्र॒वृ॒णत॒ इति॑ प्र - वृ॒णते᳚ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । यत् । ब्रा॒ह्म॒णः । च॒ । अब्रा᳚ह्मणः । च॒ । प्र॒श्नम् । ए॒याता॒मित्या᳚ - इ॒याता᳚म् । ब्रा॒ह्म॒णाय॑ । अधीति॑ । ब्रू॒या॒त् । यत् । ब्रा॒ह्म॒णाय॑ । अ॒द्ध्याहेत्य॑धि-आह॑ । आ॒त्मने᳚ । अधीति॑ । आ॒ह॒ । यत् । ब्रा॒ह्म॒णम् । प॒राहेति॑ परा - आह॑ । आ॒त्मान᳚म् । परेति॑ । आ॒ह॒ । तस्मा᳚त् । ब्रा॒ह्म॒णः । न । प॒रोच्य॒ इति॑ परा-उच्यः॑ ॥