प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.3.1 TS 2.5.3.1
इन्द्रं॑ ॅवृ॒त्रं ज॑घ्नि॒वाꣳसं॒ मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तं ॅवै॑मृ॒धं पू॒ऎणमा॑सेऽनुनिर्वा॒प्य॑मपश्य॒त् तं निर॑वप॒त् तेन॒ वै स मृधोऽपा॑हत॒ यद्वै॑मृ॒धः पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व तेन॒ यज॑मा॒नो ऽप॑ हत॒ इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या᳚र्द्ध्यत॒ स ए॒तमा᳚ग्ने॒य-म॒ष्टाक॑पाल-ममावा॒स्या॑यामपश्यदै॒न्द्रं दधि॒ - [ ]
पदपाठः (Word-by-word)
इन्द्र᳚म् । वृ॒त्रम् । ज॒घ्नि॒वाꣳस᳚म् । मृधः॑ । अ॒भि । प्रेति॑ । अ॒वे॒प॒न्त॒ । सः । ए॒तम् । वै॒मृ॒धम् । पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । अ॒नु॒नि॒र्वा॒प्य॑मित्य॑नु - नि॒र्वा॒प्य᳚म् । अ॒प॒श्य॒त् । तम् । निरिति॑ । अ॒व॒प॒त् । तेन॑ । वै । सः । मृधः॑ । अपेति॑ । अ॒ह॒त॒ । यत् । वै॒मृ॒धः । पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । अ॒नु॒नि॒र्वा॒प्य॑ इत्य॑नु - नि॒र्वा॒प्यः॑ । भव॑ति । मृधः॑ । ए॒व । तेन॑ । यज॑मानः । अपेति॑ । ह॒ते॒ । इन्द्रः॑ । वृ॒त्रम् । ह॒त्वा । दे॒वता॑भिः । च॒ । इ॒न्द्रि॒येण॑ । च॒ । वीति॑ । आ॒र्द्ध्य॒त॒ । सः । ए॒तम् । आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । अ॒प॒श्य॒त् । ऐ॒न्द्रम् । दधि॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे पञ्चमप्रपाठके तृतीयोनुवाकः)। (अमावस्यायां सांनाय्ययोगविधिः) द्वितीयेग्नीषोमयागोभिहितः पूर्णिमादिने।। अथ तृतीयेमावास्यायां सांनाय्ययागो वक्तव्यः। तत्र प्रथमं तावत्पौर्णमास्याममुनिर्वाप्यं वैमृधं विधित्सुः प्रस्तौति इन्द्रं वृत्रमिति। अथ य इन्द्रो वृत्र हतवांस्तमिन्द्रं मृधो वत्रपक्षपातिनो वैरिणोभितः समागत्य प्रकर्षेण भयमुत्पाद्याकम्पयन्त। विनाशिता मृधो वैरिणो येन देवेनासौ विमृत्। स देवा यस्यैकादशकपालस्य पुरोडाशस्य सोयं वैमृधः। तं पुरोडाशं पूर्णमासयागेनुनिर्वाप्यं प्रधानकर्मणः पश्चान्निर्वापयोग्यमपश्यत्। अथ विधत्ते अद्वैमृध इति। अथ सांनाय्यनामकमैन्द्रं दधि विधातुं प्रस्तौति इन्द्रो वृत्रमिति। इन्द्रो वृत्रवधेन भीतो दूरे पलायमानः स्वकीयाभिर्देवताभिश्च स्वकीयेन सामर्थ्येन च व्यृद्धो वियुक्तोभूत्। अथ विधत्ते यदाग्नेय इति। अत्राग्नेयो न विधियते। षष्ठे प्रपाठके यदाग्नेयोष्टाकपालोमावास्यायां च पौर्णमास्यां चाच्युतो भवतीति कालद्वये विधानात्। अत ऐन्द्राग्नविध्युन्नयनायायमर्थवादः---यदा केवलेनाप्याग्नेयेन देवतानामिन्द्रियस्य चावरोधो भवति तदानीमैन्द्राग्नेन तदवरोध इति किमु वक्तव्यमिति। अनयोः स्तुत्या तद्विधिरुन्नीयते। शाखान्तरे समानप्रकरणे स्पष्टं तद्विधानात्। ऐन्द्रादधिविधिस्त्वसंदिग्ध एव। तमेवं विधिं स्तोतुं सांनाय्यनिर्वचनं दर्शयति इन्द्रस्य वृत्रमिति। जघ्नुषो हतवतः। व्यार्छद्विविधत्वेन प्राप्नोत्। ओषयिबीरुधोर्भेदः पूर्वाचार्बैर्दर्शितः “ओषध्यः फलपाकन्ता लता गुल्माश्च वीरुधः” इति। तदेतदिन्द्रियसामर्थ्यस्यौषध्यादिरूपत्वं प्रजापतेरग्रे कथितवान्। स च प्रजा पतिरेतदिन्द्रियसामर्थ्यमिन्द्रार्थं सम्यक्प्रापयतेति पशूनब्रवीत्। तत्सामर्थ्यं पशव ओषधीभ्यः सकाशादानीय स्वात्मन्नधि स्वशरीरे सम्यक्स्थापितवन्तः। पुनः स्वनिष्ठं तद्वीर्यं क्षीरादिरूपमिन्द्रं प्रति दुग्धवन्तः। यस्मात्पशवः समनयंस्तस्मात्सांनाय्यस्य गोरसस्य सम्यगानयनेन संपन्नमितिव्युत्पत्त्या सांनाय्वनाम भवति। य स्मादिन्द्रं प्रति दुग्धवन्तस्तस्मात्प्रतिधुषः प्रतिदिनं दुह्यमानस्य क्षीरस्य प्रतिधुगिति नाम संपन्नम्। अथ शृतनामनिर्वचनं दर्शयति समनैषुरिति। भोः प्रजापते त्वदाज्ञया पशवः समनैषुः प्रत्यधुक्षंश्च क्षीररूपं तद्वीर्यं मयि न श्रयते पाकाभावान्मदुदरे तन्न जीर्यत्यर्थमुक्तवान्। ततः प्रजापतिः पशून्प्रति शृतं पक्वं कुरुतेत्यब्रवीत। तथा कृते सति तदिन्द्रियसामर्थ्यं पक्वं पयोस्मिन्निन्द्रोदरे सम्यगाश्रितमभूत्। य (त) स्माच्छ्रा पाक इत्यस्माच्छ्रिञो वा शृतमिति नाम निष्पन्नम्। अथ दधिनामनिर्वचनं दर्शयति समनैषुः प्रतीति। संनयनप्रतिदोहनशृतत्वानि संपन्नन्येव, किं तु तच्छृतं मां तु न धिनोति न प्रीणयतीत्युक्ते प्रजापतिरातञ्चनकर्तृन्प्रति दधि कुरुतेत्यब्रवीत्। तच्च दधिकृत सदेनमिन्द्रमधिनोदप्रीणयत्। तस्माद्दधिनाम संपन्नम्। अत्रैन्द्रं दधीति विधिर्विस्पष्ट एव। शृतनामनिर्वचनार्थवादनैन्द्रं पय इति विधिमुन्नयेत्। अन्यथाः वक्ष्यमाणशृतावदानविचारानुदयप्रसङ्गात्। तमेव विचारमभित्रेत्य पूर्वपक्षमुपन्यस्यति ब्रह्मवादिन इति। यस्पात्पूर्वदिने रात्रौ दधि क्रियते तस्माज्जुह्वामवदानेवदीयमाने दध्नः स्वरूपमेव पूर्वमवदेयम्। तमेवं पूर्वपक्षं दर्शयित्वा सिद्धान्तं विधत्ते अतादृत्येति। तत्पूर्वं दध्यावदानमनादृत्य क्षीरस्यैव स्वरूपं पूर्वभवदेयम्। तथा सत्यस्मिन्यजमान इन्द्रियरूपमेव क्षीरमवस्याप्योपरिष्टाद्दध्ना प्रीणयति। क्षीरं पूर्वभावि दधि पश्चाद्भावीत्येवषुत्पत्तिक्रममपि प्राप्तवान्भवति। अथातञ्चनं विधत्ते—यत्पूतीकैरिति। सोमवल्लीसमानाया लतायाः खण्डाः पूतीकाः। पलाशवृक्षस्यांशाः पर्णवल्काः। प्रौढब दरफलानि क्वलाः। ईषदम्लतक्रमातञ्चतम्। पूतीकादिभिरातञ्चनं सोमादीनां प्रियम्। तथा सत्यत्रेन्द्रप्रीत्यै दध्ना तञ्च्यात्। दध्ना तञ्चवनस्योपर्यग्निहोत्रार्थयवागूशेषे (ष) णातञ्चनं विधत्ते अग्निहोत्रेति। दर्शयागस्याग्निहोत्रेण सहाविच्छेदः संतति। अथ पिण्डपितृयज्ञं विधत्ते इन्द्रो वृत्रमिति। वृत्रवधेन सुरागामपराधं कृतवानस्मीति मन्यमान इन्द्रो भीतोत्यन्तं दूरममच्छत्। तमिन्द्रं प्रति देवता अह्वानमैच्छन्। देवतानां मध्ये योन्विष्य प्रथममिन्द्रं लभते तस्य प्रथमं भागो दीयत इति प्रजापतिनोक्ताः पितरः प्रथममिन्द्रं यस्मादलभन्त तस्मात्पितृभ्य पूर्वेद्युः पिण्डपितृयज्ञं कुर्यात् । दर्शयागदेवतानाममावास्यायामारम्भः प्रतिपादि तद्यागः। पितृणां त्वमावास्यायामेव पिण्डदानम्। ननु ब्राह्मणग्रन्थे प्रथमकाण्डस्य तृतीयप्रपाठके न्त्यानुवाके महता प्रपञ्चेन पिण्डपितृयज्ञो विहितः। बाढम्। एवं तर्हि सांनाय्यप्रशंसार्थमत्र तदनुवादो स्तु। तामेव स्तुतिं द्योतयितुममावास्यानिर्वचनं दर्शयति सोमावास्यामिति। पितृभिरन्विष्य लब्धः स इन्द्रोमावास्यायां पलायनदेशात्प्रतिनिवृत्य समागतः। ते देवास्तमिन्द्रमभिमुखीकर्तुं संप्राप्ताः परस्परमिदमब्रुवन्—अद्य नोस्माकं वसु श्रेष्ठं धनममा वसति सह तिष्ठति, सर्वेषां साधारणत्वेन वर्तत इत्यर्थः। किं तद्वस्विति तदुच्यते-इन्द्रः खलु सर्वेषां देवानां वसु श्रेष्ठं धनं, तस्मिन्वर्तमाने सति स्वामिलाभात्। यस्माद्देवा एवमुक्तवन्तस्तस्मादमा वसत्यद्येति व्युत्पत्त्या मावास्यानाम संपन्नम्। ऐन्द्रं दधीति विधिवाक्ये सांनाय्यस्य यदैन्द्रत्वमुक्तं तदेव पूर्वोत्तरपक्षाभ्यां द्रढयति ब्रह्मवादिन इति। पितृभिरानीयमानमिन्द्रमभिमुखीकर्तुं सर्वेऽपि देवा यदा समागच्छंस्तदा तत्सांनाय्यलक्षणं भागमभिलक्ष्यैव समागच्छन्निति सांनाय्यं वैश्वदेवमिति केषांचित्पक्षः। अथोशब्दः पक्षान्तरार्थः। भीत्या दूरदेशं गतमिन्द्रं भिषज्यन्त एव भयनिवारणेन समाधित्सन्त एव ते देवास्त्विन्द्रं समागताः न तु सांनाय्यलिप्सया तस्मात्सांनाय्यमैन्द्रमित्येव बुद्धिमान्ब्रूयात्। "

अत्र मीमांसा।

चतुर्थाध्यायस्य तृतीयपादे चिन्तितम्— “संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः ।द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात्।।उत्पत्तिवाक्यतः पूर्णमाससंयोगभासनात्।तस्येवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता” ।।

दर्शपूर्णमासप्रकरणे श्रूयते “संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपति” इति। तत्रेयं वैमृधेष्टिः प्रकरणबलात्प्रयाजादिवदुभयोरपि दर्शपूर्णमासयोरङ्गमितिचेन्न। वाक्यस्य प्रबलत्वात्। न च संस्थाप्येति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तमिति वाच्यम्। दर्शसाधारणाङ्गसमाप्त्यभिप्रायेप्त्यणोपपत्तेः। तस्मादुत्पत्तिवाक्यादेककर्तृत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम्।

द्वितीयाध्याये तृतीयपादे चिन्तितम् “दर्शपूर्णिमयोः प्रोक्त आग्नेयः केवलो ऽप्यसौ ।

दर्शे यदिति वाक्याभ्यां कर्मान्यद्वा नुवादगीः ।। अभ्यासादन्यकर्मत्वं द्विर्दर्शे सौ प्रयुज्यताम्।

"एकत्वं प्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः ” ।। “यदाग्नेयोष्टाकपालोमावास्यायां च पौर्णमास्यां चाच्युतो भवति” इति कालद्वये विहितम्, “यदाग्नेयोष्टाकपालोमावास्यायां भवति” इति एकस्मिन्काले पुनर्विहितम्, तत्राविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः। तथा सत्याग्नेययागस्य दर्शकाले द्विः प्रयोग इति चेन्न। प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादत्वात्। न चानुवादो व्यर्थः। विधेयैन्द्राग्नस्तुत्यर्थत्वात्। यद्यप्याग्नेयोष्टाकपालोमावास्यायां भवति, तथापि न केवलेनाग्निना साधुर्भवति। इन्द्रसहितोऽग्निः समीचीनतरः । तस्मादैन्द्राग्नः कर्तव्य इति विधेयस्तुतिः । प्रयाजवैषम्यं तुक्तमेवानुसंधेयम्। तस्मादनुवादः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके"

तृतीयोनुवाकः ।। ३ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इन्द्रं वृत्रमित्यादि ॥ वैमृधस्यैकादशकपालस्य विधिः । वृत्रं हतवन्तमिन्द्रं मृधस्सङ्ग्रामाभिमुख्येन आगत्य प्रकर्षेणावेपयन् । स एतमित्यादि । विमृदिन्द्रः तस्येदं कर्म वैमृधं प्रधानानन्तरं अनुनिर्वाप्यम् । गतमन्यत् ॥
2 इन्द्रो वृत्रं हत्येत्यादि ॥ ऐन्द्राग्नस्य विधिः, ऐन्द्रस्य च दध्नः ॥
3 इन्द्रस्य वृत्रं जघ्नुष इत्यादिना सान्नाय्यादीनामुत्पत्तिक्रमं दर्शयति - वृत्रं हतवत इन्द्रस्य इन्द्रियं वीर्यं च पृथिवीमनुप्रविश्य व्यार्छत् विविधं व्याप्तमभवत् । अर्तेः 'पाघ्रा ' इत्यादिना ऋच्छादेशः । तच्च पृथिवीमनुप्रविष्टं इन्द्रियं वीर्यं च ओषधयो वीरुधश्चाभवन् तदात्मना परिणतमभूत् -

'ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः' इति ।

अथेन्द्रः प्रजाप्तिमुपाधावत् 'वृत्रं जघ्नुषः' इत्यादि वदन् । अथ तच्छ्रुत्वा प्रजापतिः पशूनब्रवीत् एतदिन्द्रियादिकमस्मै इन्द्राय संनयत सम्यगिमं प्रापयतेति । पशवश्च ओषधीभ्यः ओषधीनां सकाशात् तृणादिभक्षणद्वारेण तदिन्द्रियादिकं आत्मन्यधिसमनयन् आत्मनि सम्यगानीतवन्तः । तच्चानुनीतं सञ्जातं प्रत्यदुहन् ओषधीभ्य आत्मनि दुग्धं प्रत्यदुहन् इन्द्राय पुतरदुहन् । एवं सन्नयनात् सान्नाय्यत्वं, प्रतिदोहनात् प्रतिधुक्त्वं पयसः । प्रतिदुह्यत इति प्रतिधुक्, छान्दसो वर्णविकारः । नयतेर्ण्यति 'पाय्यसान्नाय्य' इति निपात्यते, निपातनादेवाभिमतस्वरसिद्धिः ॥

4 अथेन्द्रः प्रजापतिमब्रवीत् मदीयमिन्द्रियादिकं पशवः ओषधीभ्य आत्मनि समनैषुः । मह्यं च प्रत्यधुक्षन् । 'शल इगुपधादनिटः क्सः' । कर्तुमपि न श्रयते न पच्यते न मयि प्रीतिं करोति । श्रिञ् पाके, व्यत्ययेन शप् । अथ प्रजापतिः पशूनब्रवीत् एतदस्मै इन्द्राय शृतं पक्वं कुरुत । यद्वा - न तु मयि श्रयते स्थितिं न करोति । श्रीञ् सेवायाम् । एवमिन्द्रेणोक्ते प्रजापतिरब्रवीत् एतदस्मै शृतं पक्वं कुरुत यथाऽस्मिन् श्रयत इति । शृतेति 'शृतं पाके' इति निपात्यते । यद्वा - शृणोतेः शृतमिति छान्दसं संप्रसारणम् ॥
5 अक्रन् ॥ लुङि 'मन्त्रे घस' इति च्लेर्लुक्' । धिवि प्रीणने, इदित्वान्नुम्, 'धिन्विकृण्व्योरच' इत्युप्रत्ययः । अथ प्रजापतिरब्रवीत् पशूनेतदस्मै दधि प्रीणनं कुरुतेति । ते चास्मै प्रीणनमकुर्वन् । तदेनमित्यादि । गतम् । धिनोतीति दधि । धिनोतेः किः द्विर्वचनादि । दधातिर्वा प्रीणने, (इदित्वान्नुम्,) 'आदृगमहन' इति किन्प्रत्ययः । दध्न इत्यनङादेशस्योदात्तत्वादुदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥
6 ब्रह्मवादिन इत्यादि ॥ अन्तिमायामेव रजन्यां दध्युत्पाद्यते उत्तरेद्युः प्रातर्दोह इति दध्नः पूर्वत्वमिति । एतद्दूषयति - अनादृत्येत्यादि । यदिन्द्रस्येन्द्रियादिकमोषधीभ्य आनीय इन्द्राय प्रतिदुग्धं तदिन्द्रे प्रथमं श्रित्वा सेवितं पक्वं वा कृत्वा उपरिष्टादुत्तरकालं दधिभागेन इन्द्रं धिनोति तस्माच्छ्रितस्यैव पूर्वत्वम् । गतमन्यत् ॥
7 यदित्यादि ॥ पूतीकः सोमसदृशो लताविशेषः । पर्णवल्कः पलाशवृन्तम् । आतञ्चनं द्रव्यान्तरसंप्रयोगेन पयसो घनीभावः । तञ्चू सङ्कोचने । क्वलः ह्रस्वह्रदः । तण्डुलाः - गताः । आतञ्चनद्रव्यं दधि प्रसिद्धम् । सेन्द्रमिन्द्रेण देवतया सहितम् । अग्निहोत्रोच्छेषणं अग्निहोत्रशेषः यवागूशेषः । तदभ्यातनक्ति दध्ना आतच्य उपर्यातनक्ति यज्ञस्याविच्छेदाय ॥
8 इन्द्रो वृत्रं हत्वेति ॥ पितृयज्ञविधिः परां परावतमिति । देशमगच्छत् । 'उपसर्गाच्छन्दसि धात्वर्थे' इति वनिप् । अपाराधं अपारात्सम् । छान्दसस्सिज्लुक् । वृत्रं हतवानिति सापराधमात्मानं मन्यमानो दूरात् गन्तुं श्रेय इति निश्चित्यागच्छत् । अथ देवास्तं प्रैषं प्राप्तुमैच्छन् । इष गतौ । सोऽब्रवीदित्यादि । गतम् । अनुविन्दति अनुक्रमेण लभते । पूर्वेद्युः पूर्वस्मिन्नह्नि । 'सद्यः परुत्' इत्यादिना निपात्यते ॥
9 अमावास्यां प्रति, लक्षणे कर्मप्रवचनीयत्वं, अमावास्यया गमनं लक्ष्यते इति । अथामावास्यायां देवास्तमिन्द्रमभि समगच्छन्त आभिमुख्येन सङ्गता अभवन् । कथं वदन्तः? अद्य अस्मिन्नह्नि नः अस्माकं वसु अस्मदीयं धनं इन्द्रोयं अमा सहास्माभिर्वसतीति । एवं देवा वदन्त एनमिन्द्रमभिगताः समागताः । इन्द्रो हीति । वसु वरिष्ठं द्रव्यं(वा) । अमावास्यत्वमिति अमा सह वसन्त्यस्यामिन्द्रो देवताश्चेत्यमावास्या । अधिकरणे ण्यत् । इदञ्च व्युत्पत्त्यन्तरं, अमा वसतः सुर्याचन्द्रमसावस्यामिति व्युत्पत्तिदर्शनात् ॥
10 वैश्वदेवमिति ॥ वृत्रवधादनन्तरमिन्द्रियं वीर्यं च दूरतरं गतम् । पितृभिः प्रत्यानीतमिन्द्रममावास्यायां सान्नाय्येन प्रवृद्धेन्द्रियवीर्यं कर्तुं विश्वेदेवास्तत्सान्नाय्य एवैन्द्रं भागधेयं अभिसमगच्छन्त । तस्माद्वैश्वदेवं भवितुं युक्तमिति ॥
11 दूषयति - अथो इति ॥ तदानीं देवा इन्द्रं भिषज्यन्त एवाभिसमगच्छन्त न त्वात्मभागलब्धये । तल्लाभहेतौ शतृप्रत्ययः । इन्द्रभैषज्यार्थमेव अभिसमगच्छन्त । तस्माद्वीश्वे देवाः प्रसक्ता एवेति ऐन्द्रमित्येवोत्तरं समीचीनमिति । भिषज्यतिः कण्ड्वादिर्यगन्तः ॥
इति द्वितीये पञ्चमे तृतीयोनुवाकः ॥