प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.3.4 TS 2.5.3.4
शृ॒तं कु॑रु॒तेत्य॑ब्रवी॒त् तद॑स्मै शृ॒त-म॑कुर्वन्निन्द्रि॒यं ॅवावास्मि॑न् वी॒र्यं॑ तद॑श्रय॒न् तच्छृ॒तस्य॑ शृत॒त्वꣳ सम॑नैषुः॒ प्रत्य॑धुक्षञ्छृ॒तम॑क्र॒न् न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवी॒त् तद॑स्मै॒ दद्ध्य॑कुर्व॒न् तदे॑नमधिनो॒त् तद्द॒द्ध्नो द॑धि॒त्वं ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒द्ध्नः पूर्व॑स्याव॒देयं॒ - [ ]
पदपाठः (Word-by-word)
शृ॒तम् । कु॒रु॒त॒ । इति॑ । अ॒ब्र॒वी॒त् । तत् । अ॒स्मै॒ । शृ॒तम् । अ॒कु॒र्व॒न्न् । इ॒न्द्रि॒यम् । वाव । अ॒स्मि॒न्न् । वी॒र्य᳚म् । तत् । अ॒श्र॒य॒न्न् । तत् । शृ॒तस्य॑ । शृ॒त॒त्वमिति॑ शृत - त्वम् । समिति॑ । अ॒नै॒षुः॒ । प्रतीति॑ । अ॒धु॒क्ष॒न्न् । शृ॒तम् । अ॒क्र॒न्न् । न । तु । मा॒ । धि॒नो॒ति॒ । इति॑ । अ॒ब्र॒वी॒त् । ए॒तत् । अ॒स्मै॒ । दधि॑ । कु॒रु॒त॒ । इति॑ । अ॒ब्र॒वी॒त् । तत् । अ॒स्मै॒ । दधि॑ । अ॒कु॒र्व॒न्न् । तत् । ए॒न॒म् । अ॒धि॒नो॒त् । तत् । द॒द्ध्नः । द॒धि॒त्वमिति॑ दधि - त्वम् । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । द॒द्ध्नः । पूर्व॑स्य । अ॒व॒देय॒मित्य॑व - देय᳚म् ।
पदसंख्या: 50