सेन्द्र॒त्वाया᳚-ग्निहोत्रोच्छेष॒णम॒भ्या-त॑नक्ति य॒ज्ञ्स्य॒ संत॑त्या॒ इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा परां᳚ परा॒वत॑-मगच्छ॒-दपा॑राध॒मिति॒ मन्य॑मान॒स्तं दे॒वताः॒ प्रैष॑मैच्छ॒न्थ् सो᳚ऽब्रवीत् प्र॒जाप॑ति॒र्यः प्र॑थ॒मो॑ऽनुवि॒न्दति॒ तस्य॑ प्रथ॒मं भा॑ग॒धेय॒मिति॒ तं पि॒तरोऽन्व॑विन्द॒न् तस्मा᳚त् पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते॒ सो॑ऽमावा॒स्यां᳚ प्रत्याऽग॑च्छ॒त् तं दे॒वा अ॒भि सम॑गच्छन्ता॒मा वै नो॒- [ ]
पदपाठः (Word-by-word)
से॒न्द्र॒त्वायेति॑ सेन्द्र - त्वाय॑ । अ॒ग्नि॒हो॒त्रो॒च्छे॒ष॒णमित्य॑ग्निहोत्र - उ॒च्छे॒ष॒णम् । अ॒भ्यात॑न॒क्तीत्य॑भि - आत॑नक्ति । य॒ज्ञ्स्य॑ । संत॑त्या॒ इति॒ सं-त॒त्यै॒ । इन्द्रः॑ । वृ॒त्रम् । ह॒त्वा । परा᳚म् । प॒रा॒वत॒मिति॑ परा - वत᳚म् । अ॒ग॒च्छ॒त् । अपेति॑ । अ॒रा॒ध॒म् । इति॑ । मन्य॑मानः । तम् । दे॒वताः᳚ । प्रैष॒मिति॑ प्र - एष᳚म् । ऐ॒च्छ॒न्न् । सः । अ॒ब्र॒वी॒त् । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । यः । प्र॒थ॒मः । अ॒नु॒वि॒न्दतीत्य॑नु - वि॒न्दति॑ । तस्य॑ । प्र॒थ॒मम् । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । इति॑ । तम् । पि॒तरः॑ । अन्विति॑ । अ॒वि॒न्द॒न्न् । तस्मा᳚त् । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । पू॒र्वे॒द्युः । क्रि॒य॒ते॒ । सः । अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् । प्रति॑ । एति॑ । अ॒ग॒च्छ॒त् । तम् । दे॒वाः । अ॒भि । समिति॑ । अ॒ग॒च्छ॒न्त॒ । अ॒मा । वै । नः॒ ।