ऽद्य वसु॑ वस॒तीतीन्द्रो॒ हि दे॒वानां॒ ॅवसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्वं ब्र॑ह्मवा॒दिनो॑ वदन्ति किंदेव॒त्यꣳ॑ सांना॒य्यमिति॑ वैश्वदे॒वमिति॑ ब्रूया॒द्-विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेत्यथो॒ खल्वै॒न्द्रमित्ये॒व ब्रू॑या॒दिन्द्रं॒ ॅवाव ते तद्-भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑ ॥
पदपाठः (Word-by-word)
अ॒द्य । वसु॑ । व॒स॒ति॒ । इति॑ । इन्द्रः॑ । हि । दे॒वाना᳚म् । वसु॑ । तत् । अ॒मा॒वा॒स्या॑या॒ इत्य॑मा - वा॒स्या॑याः । अ॒मा॒वा॒स्य॒त्वमित्य॑मावास्य - त्वम् । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । किं॒दे॒व॒त्य॑मिति॑ किं - दे॒व॒त्य᳚म् । सा॒नां॒य्यमिति॑ सां - ना॒य्यम् । इति॑ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । इति॑ । ब्रू॒या॒त् । विश्वे᳚ । हि । तत् । दे॒वाः । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । अ॒भीति॑ । स॒मग॑च्छ॒न्तेति॑ सं - अग॑च्छन्त । इति॑ । अथो॒ इति॑ । खलु॑ । ऐ॒न्द्रम् । इति॑ । ए॒व । ब्रू॒या॒त् । इन्द्र᳚म् । वाव । ते । तत् । भि॒ष॒ज्यन्तः॑ । अ॒भि । समिति॑ । अ॒ग॒च्छ॒न्त॒ । इति॑ ॥