पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयाष्टके पञ्चमप्रपाठके षष्ठोनुवाकः)। (दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः)
"(अथ द्वितीयकाण्डे पञ्चमप्रपाठके षष्ठोनुवाकः)। (दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः) पञ्चमेभ्युदयेष्ट्याद्यास्तिस्त्र इष्टय ईरिताः। अथ षष्ठे दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यं विधत्ते एष ना इति। दर्शपूर्णमासाविति यदस्त्येष एव देवान रथो रथस दृशः। तथा सति प्रथमतो दर्शपूर्णमासाविष्ट्वा पश्चात्सोमेन यो यजते तस्यानुष्ठाने महत्सौकर्यं भवति। यथा लोके भूयो रथसंचरणेन महामार्गस्थकण्टकपाषाणादिषु क्षुण्णेषु मार्गो विस्पष्टो भवति, अयमस्य ग्रामस्य मार्ग इति सुखेनाध्यवसातुं शक्यत। कण्टकाद्यभावात्। वरः श्रेष्ठश्चासौ भवति तादृशे मार्गे मनुष्या अनायासेन गन्तुं शक्नुवन्ति, तथा देवानां संबन्धिना दर्शपूर्णमासरथेन स्पष्टे सुखेनाध्यवसातुं शक्ये श्रेष्ठे मार्गे यजमानः सोमेन यष्टुमध्यवस्यति। दर्शपूर्णमासयोरिष्टिप्रकृतित्वात्तयोः प्रयोगे स्वाधीने सति तद्विकृतिभूताः सोमाङ्गभूता प्रायणीयाद्याः साङ्गाः सुखेनानुष्ठातुं शक्यन्ते। अननुष्ठितयोस्तु दर्शपूर्णमासयोः सोमप्रकरणे दीक्षणीयादिकर्मस्वरूपमात्रस्यो पदिष्टत्वात्तदङ्गानि प्रयाजादीन्यनुष्ठातुं न शक्यन्ते। तस्मादिष्टिपूर्वत्वं दर्शपूर्णमासयोर्बहुधा प्रशस्यते। तत्र प्रथमं संवत्सरावयवत्वेन प्रशंसति एतानि वा इति। यथा मनुष्यस्य हस्तपादादीन्यङ्गानि मणिबन्धकूर्परकक्षादिसंधिरूपाणि परूंषि पर्वाणि तथा संवत्सरस्य द्वादश दर्शा अङ्गानि द्वादश पौर्णमास्यः परूंषि तद्विदित्वानुष्ठाने तदुभयं प्रविदधाति सम्यगनुष्ठापयति। "
"अथ चक्षुष्ट्वेन प्रशंसति एते वा इति। अथेन्द्रपराक्रमरूपेण प्रशंसति एषा वै इति। सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति शाखान्तरे श्रुतत्वाद्युद्धजयहेतुत्वमप्यस्तीति पराक्रमरूपत्वम्। अथ स्वर्गमार्गत्वेन प्रशंसति एष या इति। देवा यान्ति गच्छन्ति अस्मिन्मार्गे सोयं देवयानः। अथाश्वरूपेण प्रशंसति एतौ वा इति। एभ्योग्यादिदेवेभ्यस्ताभ्यामेव दर्शपूर्णमासाभ्यां यजमानः पुरोडाशं वहति। अथ देवमुखत्वेन प्रशंसति एतद्वै देवानामिति। साक्षाद्वयवधानमन्तरेणैव यथा ब्राह्मणाय दत्तमन्नं पात्रहस्तव्यवधानेन मुखं प्रविशति तद्वन्नेत्यर्थः। अथ सोमयाजित्वसंपादनेन स्तौति एष वा इति। हवींषि सोमग्रहरूपाणि धीयन्त असाद्यन्ते यस्मिन्मण्डपे तदिहं हविर्धानं तदस्यास्तीति हविर्धानी सोमयाजी। दर्शपूर्णमासयाजिनः सोमयाजित्वं कथमित्युच्यते- आधानान्तरमेव प्रवृत्तं यदग्निहोत्रं तत्प्रतिहोत्रं सायंप्रातरनुतिष्ठति, पर्वणि च दर्शपूर्णमासौ यजते। तदुभयानुष्ठानेन हविर्धानिनां सोमदेवानां प्रतिदिनं सोमोभिषुतो भवति। सोमाभिषवणे या प्रीतिः सादेवानामत्र संपद्यते। अग्निहोत्रदर्शपूर्णमासप्रवृत्त्या तदनन्तरभाविनि सोमया गेपि प्रवर्तिष्यत इत्येव तैर्निश्चेतुं शक्यत्वात्। तत्प्रवृत्तिक्रमश्च सूत्रकारेण दर्शितः- “अथकेषामग्नीनाधाय हस्ताववनिज्य संवत्सरमाग्निहोत्रं’ हुत्वा दर्शपूर्णमासावारभते ताभ्यां संवत्सरमिष्ट्वा सोमेन पशुना वा यजेत तत ऊर्ध्वमन्यानि कर्माणि कुरुते” इति यजमान एवं देवानां भविष्यत्सोमयागविषयां प्रीतिं विद्वानहं हविर्धानी सोमयाजी भवामीति बुद्ध्वा दर्शपूर्णमासौ यजते। तत ऊर्ध्वमस्य यजमानस्य वर्हिषि सोमयागे दातव्यं यद्यद्विद्यते तत्सर्वं वर्हिष्यं दत्तं भवति। स्वल्पेपि कर्मण्यधिककर्मसंपादनवेदनेन फलाधिक्यप्राप्तिः पूर्वकाण्डे प्रजापतिर्यज्ञानसृजतेत्यनुवाके प्रपञ्चिता। अथ दर्शपूर्णमासकर्मणोस्तिथिविषयविधिमर्थवादेनोन्नयति देवा वा इति। एतौ दर्शपूर्णमासौ यज्ञावर्हतीति यज्ञियं, तादृशमेकमप्यहर्देवा न लेभिरे। ततो विचार्य दर्शपूर्णमासावमावास्यां पौर्णमासीं च दिनद्वयमपुनञ्शोधितवन्तः। यज्ञियत्वं निश्चितवन्तं इत्यर्थः। यस्मिन्दिने सूर्य एव दृश्यते चन्द्रमास्तु न दृश्यते सोयं दर्शः। अमावस्या च तादृशी। तस्यां तिथौ सूर्येण सहैववसतश्चन्द्रमसो द्रष्टुमक्यत्वात्। अतः सा तिथिः सूर्यमात्रदर्शनाद्दर्शनामाङ्कितस्य कर्मणो योग्या। यस्यां तिथौ चन्द्रमण्डलं संपूर्णं दृश्यते सा पौर्णमासी। सा चन्द्रमसः पूर्तेः पूर्णनामाङ्कितस्य कर्मणो योग्य। प्रतिपदादिषु चतुर्दश्यन्तासु तिथिषु चन्द्रमा लेशतो दृश्यते। न पूर्णो नाप्यत्बन्तमदृष्टः अतस्तयोः कर्मणोर्योग्या न भवन्ति। तस्मात्तावेवैतावुक्तौ तिथिविशेषौ देवैरुक्तरीत्या शोधितौ सन्तौ यज्ञयोग्यौ संपन्नौ। अत्र दर्शपूर्णमासशब्दस्तिथिपरो न कर्मपरः। यस्त्येवं तिथ्योः शुद्धिं विद्वान्कर्मद्वयं कुरुते सोयं शोधितौ यज्ञयोग्यौ तिथिविशेषावेव प्राप्य कृतवान्भवति। तश्मात्तयोस्तिथ्थोः कुर्यादिति तात्पर्यार्थः। प्रसङ्गात्पुरुषार्थं कंचिन्नियमं विधत्ते नामावास्यायामिति। पूर्वोक्तयोस्तिथ्योर्यज्ञियत्वमाख्यायिकया प्रपञ्चयति सोमस्य वा इति। अर्धमासस्य शुक्लपक्षस्य रात्रय एको वर्ग, कृष्णपक्षस्य रात्रयः परो वर्गस्ते अमावास्यापौर्णमास्यावेनं सोममभिसमगह्येतामाभिमुख्येन संभोगाय गृहीतवत्वौ। बलात्कारेण भुज्यमानं तंसोममतिव्यवायेन क्षयव्याधिः प्राप्तवान्। एतच्च प्रजापतेस्त्रयस्त्रि शद्दुहितर इत्यत्र व्याख्यातं तथैव व्याख्येयम्। आवामुभे एव देवानां हविर्भागधारिण्यौ भवाव आवयोरधिश्रित्गाग्न्यादयो देवा इज्यन्तामित्यनयोर्वरः। एतबोभगिधारित्वं जानते मनुष्याः सर्वेपि भागं धारयित्वा प्रयच्छन्ति। अथ मनुष्यादिसाम्योपन्यासेनोक्तार्थमेव पुनः प्रशंसति भूतानि क्षुधमिति। भूतानि मनुष्याद्याः प्राणिन। वनस्पतयः पनसाम्राद्याः। तेषां फलग्रहणमेव क्षुन्निवारणरूपां तृप्तिं सूचयति। एवं क्षुधो हननं यो वेद सोप्यन्नसमृद्धः क्षुद्रूपं शत्रुं सर्वदा हन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके षष्टोनुवाकः।। ६ ।।"