प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.7.1 TS 2.5.7.1
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वाश्र॑यन्त॒ हिं क॑रोति॒ सामै॒वाक॒॒र्॒.हिम् क॑रोति॒यत्रै॒वदे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒न् प्रयु॑ङ्क्ते॒ हिं क॑रोति वा॒च ए॒वैष योगो॒ हिं क॑रोति प्र॒जा ए॒व तद्-यज॑मानः सृजते॒ त्रिः प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒मां ॅय॒ज्ञ्स्यै॒व तद् ब॒र्॒.सम् - [ ]
पदपाठः (Word-by-word)
दे॒वाः । वै । न । ऋ॒चि । न । यजु॑षि । अ॒श्र॒य॒न्त॒ । ते । सामन्न्॑ । ए॒व । अ॒श्र॒य॒न्त॒ । हिम् । क॒रो॒ति॒ । साम॑ । ए॒व । अ॒कः॒ । हिम् । क॒रो॒ति॒ । यत्र॑ । ए॒व । दे॒वाः । अश्र॑यन्त । ततः॑ । ए॒व । ए॒ना॒न् । प्रेति॑ । यु॒ङ्क्ते॒ । हिम् । क॒रो॒ति॒ । वा॒चः । ए॒व । ए॒षः । योगः॑ । हिम् । क॒रो॒ति॒ । प्र॒जा इति॑ प्र - जाः । ए॒व । तत् । यज॑मानः । सृ॒ज॒ते॒ । त्रिः । प्र॒थ॒माम् । अन्विति॑ । आ॒ह॒ । त्रिः । उ॒त्त॒मामित्यु॑त् - त॒माम् । य॒ज्ञ्स्य॑ । ए॒व । तत् । ब॒र्॒.सम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डेपञ्चमप्रपाठके सप्तमोनुवाकः)। (हौत्रविवक्षया सामिधेनीव्याख्यानम्)

"अनुवाकैः षड्भिरेतैरार्घ्ववमुदीरितम्। अथोत्तेरैरनुवाककैर्हौवं विवक्षुरस्मिन्सप्तमेनुवाके तदनन्तरभाव्यष्टमे च सामिधेनीमन्त्रा व्याख्यायन्ते। ते च ब्राह्मणग्रन्थे तृतीयकाण्डे पच्चमप्रपाठके समान्नाताः। कल्पः (ल्पे) पुरस्तात्सामिधेनीना होतेत्युपक्रम्यान्तराहवनीयमुत्करं च प्रतीचीनं गच्छञ्जपति कं प्रपद्ये तं प्रपद्य इत्यादिकमुक्त्वा सत्यं प्रपद्य इति वेति पक्षान्तरमुक्तम्। तत्पाठस्तु सत्यं प्रपद्ये । ऋतं प्रपद्ये अमृतं प्रपद्ये। प्रजापतेः प्रिवां तनुवमनार्तां प्रपद्ये। इदमहं पञ्चदशेन वज्रेण। द्विषन्तं भ्रातृव्यमवक्रामाभि। योस्मान्द्वेष्टि। यं चं. वयं द्विष्मः। भूर्भुवः सुवः। हिम् (ब्रा. का. ३ प्र. ५ अ. १) इति। सत्यं यथार्थभूतमिदं कमं प्रपद्ये प्रारभे। अस्मित्कर्मणि वाचिकोपराधो मा भूदित्यर्थः। मनसा चिन्त्यमानमप्यृतं यथा भवति तथा प्रपद्ये। मानसोप्यपराधो मा भूदित्यर्थः। अमृतत्वहेतुभूतमिदं कर्म प्रपद्ये। अनेन कर्मणा देवत्वं प्राप्यतामित्यर्थः। देवेष्वप्यार्तिरहितां प्रजापतेः प्रियां तनुवं प्रजापति शरीरमिदं कर्म प्रपद्ये। इदमिति हस्तेनायिनयः। अहं होता पञ्चदशस्तोमसदृशेन वज्ररूपेणानेन कर्मणा द्विपन्तं शत्रुमवष्टभ्य पीडयामि। यः शत्रुरस्मान्मनसा द्वेष्टि यं च शत्रुं वयं मनसा द्विष्मस्तमुभयविधमेवक्रामामीति पूर्वत्रान्वयः। भूर्भूवः सुवरित्येतन्नामका लोकास्तान्हिनोमि प्रीणयामीत्यर्थः। कल्पः---- व्याहृतीरुक्त्वा त्रिरभिहिंकृत्यानवानमभिहिंक्रारादृचमुपसंदधाति प्र वो वाजा अभिद्यव इत्येकादशेमाः सामिधेन्यः इति। अनवानमुदछ्वसन्। तत्र प्रथमायाः पाठस्तु प्र वो वाजा अभिद्यवः। हविष्मन्तो घृताच्या। देवाञ्जिगाति सुन्नयुः। (ब्रा. का. ३ प्र. ५ अ. २) इति। हे देवा यो युष्मदीया ऋत्विग्यजमानाः प्रवर्तन्ते। वाजा गमनशीला मासा अभिद्यवोभितः पूर्वपक्षरूपेणोत्तरपक्षरूपेण च दीप्यमाना अर्धमासा हविष्मन्तो हविर्भाजो देवाश्च घृताच्या यागसाधनभूतघृतप्रदया गवा सहानुकूलाः प्रवर्तन्तामित्यध्याहारः। किंचायं यज्ञो देवाञ्जिगाति प्राप्नोतु। यजमानस्य सुम्नयुः सुखेच्छुर्भवतु। यदेतदुक्तं त्रिर्हिं करोतीति तदेतद्विधत्ते—देवा वै नर्चीति। देवाः पूर्वमृचि नाश्रयन्त यजुष्यपि नाश्रयन्त न संतुष्टा इत्यर्थः। किंतु सामन्येव संतुष्टाः। ततो हिमितिशब्दमुच्चारयेत्। तेन सामैव कृतं भवति। पञ्चकृत्वः सप्तकृत्वो वा साम्न आदौ हिंकारस्य विद्यमानत्वात्। तस्य हिमितिशब्दस्य त्रिरुच्चारणमभिप्रेत्य त्रिवारं विधिरनूद्य प्रशस्यते। यत्रैव देवा आश्रयन्त यत्रैव सामनि देवाः संतुष्टास्तत एव साम्न एनान्देवान्प्रयुङ्क्ते होता हिं कुर्वन्प्रकर्षेण तोषयतीत्यर्थः। प्रथमोच्चारणेन साम कृतं भवति। तथा द्वितीयोच्चारणेन वाचो योगः संपद्यते। सामाश्रयभूताया ऋग्रूपाया वाचः संबन्धः संवद्यत इत्यर्थः। तीयोच्चारणं यदस्ति तेन यजमानः प्रजा एव सृष्टवान्भवति। एकादशानां सामिधेनीनामाद्यन्तयोरावृत्तिं विधत्ते त्रिः प्रथमामिति। “प्र वो बाजा अभिद्यवः” इत्येषा प्रथमा। “आ जुहोत दुवस्यत” इति वा “त्वं वरुण उन मित्र” इति वा द्वयोरन्यतरोत्तमा। तत्तेन प्रथमोत्तमयोस्त्रिरभ्यासेन यज्ञस्य बर्समन्तभागान्नह्यति बध्नाति। यथालोके वस्त्रेण कम्बलेन वा ब्रीहीन्वोढुकामोऽन्तद्वयं बध्नाति तद्वत्। तच्च बन्धनं स्रंसनराहित्याय भवति। पूर्वस्यामृच्युत्तरार्धस्योत्तरस्यामृचि पूर्वार्धस्य च परस्पराविश्लेवं विधत्ते संततमन्वाहेति। तदेतत्संततोच्चारणं यजमानस्य प्राणानां संतत्वै भोज्यवस्तुसंतत्यै च संपद्यते। किंच राक्षसाः श्वासनिरोधेनापहता भवन्ति। यस्याः प्रथमाया आवृत्तिर्विहिता तां स्परूपेण विधत्ते राथंतरीमिति। कस्मिंश्चित्सामशाखाविशेषे ‘प्र वो वाजाः” इत्येत श्यामृचि रथंतरसाम्नो गीतत्वादियं राथंतरी। रथंतरसामयुक्ते कर्गणा संपादयितुं शक्यत्षाद्भूलोकस्य राथंतरत्वम्। यदुक्तं सूत्रकारेण-“तृतीयां सामिधेनीं त्रिर्विगृह्णाति” इति, तदेतद्विधत्ते त्रिर्वि गह्णातीति। तृतीयस्याः सामिधेन्याः प्रथमपादमुच्चार्य सकृद्विग्रहः कार्यः। अर्धर्चे द्वितीयो विग्रहः। तत उत्तरार्ध उपरितनमन्त्रस्य पूर्वार्धं च संयोज्य तदन्ते तृतीयो विग्रहः। एतेन विग्रहत्रयेण लोकत्रयजयो भवति। यस्यामृच्ययं त्रिविधो विग्रहस्तामृचं विधत्ते बार्हतीमृत्तमामिति। य (अ) स्यामृचि बृहच्छोचा यविष्ठ्येतिशब्दस्यश्रूयमाणत्वादियं बार्हती। सा च तृतीयेति कृत्वा प्रथममध्यमापेक्षयोत्तमा। तथा सत्युत्तमामन्वाहेत्युक्ते तृतीयात्वेन पठेदित्यर्थो भवति। एतन्मन्त्रोपेतकर्मसाध्यत्वात्स्वर्गलोकस्य बार्हतत्वम, "

"प्रथमायामृचि देवतादिविशेषाभिव्यक्त्यभावं प्रशंसति प्र वो वाजा इति। कस्याषि देवविशेषस्य निरुक्तं नामविशेषकथनं तत्र नास्ति सेयमनिरुक्ता। प्रजापतिश्च सृष्टेः प्राग्रूपविशेषाभावादनिरुक्तः। अत इयं प्राजापत्या। यज्ञश्च प्रजापतिसृष्टत्वात्तत्स्वरूपः। तस्मात्प्राजापत्यमन्त्रस्य प्रथमपाठेन यज्ञरूपमेव प्रजापतिं प्रारब्धवान्भवति। अस्मिन्मन्त्रे वाजशब्दोच्चारणं प्रशंसति प्र वो वाजा इति। तथात्र प्रशब्दोच्चारणं प्रशंसति प्र वो वाजा इति। यस्मात्प्रशब्द उच्चारितस्तस्मात्प्राचीनं प्रमुखे रेतोवर्तिनि योषिच्छरीरेञ्चति गच्छतीति प्राचीनं, तथाविधं रेतो धीयते गर्भाशये स्थाप्यते। एतस्य मन्त्रस्य चरमपादेन सहोत्तरस्य मन्त्रस्य प्रथमपादोच्चारणं प्रशंसति अग्न आ याहीति। यस्मादायाहीत्युक्तं तस्मात्प्रतीचीः प्रत्यङ्मुखाः सदृशाः प्रजा उत्पद्यन्ते। मन्त्रगतानां पदानामर्थान्दशंयति प्र वो वाजा इति। वजन्ति गच्छन्ति क्रमेण प्रवर्तन्त इति चैत्रादिमासा वाजाः। इदमेव ब्राह्मणवार्क्य हृदि निधाय मन्त्रार्थः पूर्वं दर्शितः। पदार्थानभिधाय मन्त्रतात्पर्यार्थमाह इदमसीति। सामिधेनीभिः समिध्यमान हेग्ने त्वमिदं मासानां स्वरूपमसि, अर्धगासानां स्वरूपमसि, देवानां स्वरूपमसीत्येव तात्पर्यार्थः। अनेन तात्पर्येण यज्ञस्य प्रियं धामाहुतिस्थानमिध्यमानाग्निस्वरूपं संपादितवान्भवति। यदुक्तं संततमन्वाह प्राणानामन्नाद्यस्य संतत्यै, इति, तदेवेदानीं काम्यत्वेनापि विधत्ते यं कामयेतेति। यं यजमानमुद्दिश्य होता कामयते। किमिति अयं यजमानो मृत्युरहितः सर्वमायुः प्राप्नुयादिति, तस्य यजमानस्यायुष्प्राप्तये प्रथमां सामिधेनीं सर्वामनूच्य विच्छेदमकृत्वोत्तरमन्त्रस्य प्रथममर्घर्चमुमक्रमेत। तेन सांतत्येनास्य यजमानस्य प्राणवायुना बह्रिर्निर्गच्छता सहैवापानवायुं पुनरप्यन्तरागच्छन्तं धारितवान्भवति। तेन च धारणेन सर्वमायुः प्राप्नोति।"

तदेव सांतस्यं पुनः प्रकारान्तरेण प्रशंसति यो वा अरत्निमिति। कूर्परमारभ्य प्रसारितकनिष्ठाङ्गुलिपर्यन्तो हस्तभागोरत्नि। न च तस्यारत्नेर्मध्ये विच्छादोस्ति तद्वदुभयोः सामिधेन्योर्मध्ये सांतत्यमरत्नित्वेनोपचर्यते। यो होता तदिदं सांतत्यं विदित्वानुतिष्ठति स होता भ्रातृव्यं यजमानस्यारत्नौ स्थापयति। चतुररत्निपरिमितस्य पुरुषस्यारत्निमात्रपरिमितो बालो यथा नीचो भवति तद्वदमुं कुरुत इत्यर्थः। य एवं वेदेति पुनरभिधानं प्रतिज्ञातस्य निगमनार्थम्। तदेव सांतत्यं विपक्षबाधकोपन्यासपुरःसरं पुनः प्रशंसति ऋषेर्ऋषेर्वा इति। ऋषिरतीन्द्रियस्य द्रष्टा। तादृश ऋषिरेकैकां सामिधे नीमीश्वरानुग्रहेण दृष्ट्वा तत्संप्रदायपरम्परां निर्मितवान्। अत एव स्मर्यत युगान्तेन्तर्हितान्वेदान्तेतिहासान्महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा।। इति। तथा सति भिन्नेभ्यऋषिभ्यः प्रवर्तितास्ताः सामिधेन्यो यद्यसंयुक्ता भवेयुस्तदानीं यजमानस्य प्रजया पशुभिरेताः सामिधेन्यो वितिष्ठरन्वियुक्तास्तिष्ठेयुः। प्रजापशुसमृद्धिहेतवो न भवेयुरित्यर्थः। तत्परिहाराय पूर्वस्याः सामिधेन्या उत्तरार्धमुत्तरस्याः सामिधेन्याः पूर्वार्धं च संदध्यात्। तथा सत्येनाः सामिधेनीः संयोजितवानेव भवति। न चैवमेकस्यामपि सामिधेन्यां पूर्वोत्तरार्धर्चौ संघातव्याविति शङ्कनीयम्। तयोरेकर्षिप्रवर्तितत्वेन होतृप्रयुक्तसंधानमन्तरेणापि स्वरूपतो वियोगाभावात्। यथोक्तरीत्या संयुक्तास्ताः सामिधेन्यो यजमानाय सर्वामाशिषं दुहूवे दुहन्ति संपादयन्ति।

अथ मीमांसा।

नवमाध्यायस्य प्रथमपादे चिन्तितम् त्रिरत्र किमृचो धर्मः स्थानधर्मोथवादिमः। सत्रीलिङ्गत्वान्न तत्प्रातिपदिकप्रबलत्वतः।। दर्शपूर्णमासयोः सामिधेनीः प्रकृत्य श्रूयते----‘त्रिः प्रथमामन्वाह’ इति। सोयं त्रिरभ्यास आदौ पठितस्य प्र वो वाजा इत्यृग्विशेषस्य धर्मः। कुतः। प्राथमामित्यस्य स्त्रीलिङ्गत्वादृक्परत्वोपपत्तेरिति चेन्नेतद्युक्तम्। स्त्रीलिङ्गवाचिनष्टाप्प्रत्ययादपि पूर्व पठितस्य स्थानवाचिनः प्रथमेत्यस्य प्रातिपदिकस्य प्रवलत्वात्। अतो विकृतिष्वप्यन्यस्या अप्यृचः प्रथमस्थानपठितायास्त्रिरभ्यासः कर्तव्यः। स्थानांन्तरे पठितायाः प्र वो वाजा इत्यस्या अप्यृचो नाभ्यासः।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके

सप्तमोनुवाकः।। ७ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अतः परमग्निहोत्रस्य ब्राह्मणं प्राजापत्यमेव काण्डम् ॥ देवा वा इत्यादि ॥ ऋचि यजुषि च नाश्रयन्त नासेवन्त इति च स्तुतिः । यजनं च नानीयन्त सामन्येवाश्रयन्त । साम सान्त्वने । तस्माद्धिङ्करोति हिङ्कारं प्रयुङ्क्ते सामिधेनीनामनुवचनारम्भे होता । हिनोति प्रीणयति वा सर्वमिति हिम् । हि गतौ, हिवि प्रीणने, ब्रह्मणो नामेदं, छान्दसी रूपसिद्धिः । सामैव अकः कृतं भवति सामभक्तित्वाद्धिंकारस्य । छान्दसो लुङ्, 'मन्त्रे घस' इति च्लेर्लुक् । असकृद्विधानं हिङ्कारस्य फलभेदप्रदर्शनार्थम् । यत्रैवेति । यत्र स्थिताः देवाः तत एव एनान् देवानानीय इह प्रयुङ्क्ते ॥
2 वाच इति ॥ वाग्योगः खल्ययम् । वाक् सामिधेनीलक्षणा अनेन युज्यते । प्रजा एवेति । एतेन हिङ्कारस्य पशव्यत्वमाह ॥
3 त्रिः प्रथमामित्यादि ॥ 'प्र वो वाजाः' इत्याद्या एकादशर्चः । आद्यन्तयोर्व [योः पुनर्व] चनेन पञ्चदशसामिधेन्यः क्रियन्ते । तेन सामिधेनीनाम् [नीनां आद्यन्तयोरभ्यासेन यज्ञस्य बर्सम् आ] वरणं नह्यति बध्नाति । बृ आवरणे, औणादिकस्सप्रत्ययः । तत् यज्ञस्य अप्रस्रंसनाय भवति ॥
4 सन्ततमिति ॥ पूर्वस्यां उत्तरमर्धर्चं उत्तरस्याश्च पूर्वं संहितं कुर्यात् । प्रथमायां च हिङ्कारेण मध्यमाया अर्धर्चमालभेत । न हिंकृत्येति केचित् । अविशेषात् सर्वेषां सन्ततत्वम् । ऋचावन्तराऽनुच्छ्वासः सन्ततत्वं श्रूयते 'नान्तरार्चा व्यन्यात्' इति । एकेनोच्छासेनोच्चार्यैव क्रियमाणं प्राणानामन्नाद्यस्य चाविच्छेदाय भवति । अथो अपि च रक्षसामपहत्यै भवति, सामिधेनीनां अनुच्छ्वासेन रक्षसामनुच्छ्वासः क्रियत इति । केचिदाहुः - प्रथमोत्तमयोरेवेदं सन्ततत्वविधानमिति ॥
5 राथन्तरीमिति ॥ सामविशेषसम्बन्धेन ऋचस्स्तुतिः । रथन्तरसामसम्बन्धिनी प्रथमा ऋक्, प्रथम्याद्द्वयोरुदात्तस्वरत्वाच्च । उत्सादित्वादञ् । अयं लोको भूलोकः राथन्तरः, स एव हेतुः ॥
6 अस्यास्त्रिर्विच्छेदो विग्रहः । तृतीयां त्रिर्विगृह्णातीत्येके ॥
7 बार्हतीमिति ॥ ''तं त्वा समिद्भिः' इति तृतीया तिसृणामुत्तमा । बृहच्छब्दोप्युत्सादिः । बृहत्सामवत्त्वं पूर्ववत्सम्बन्धि, उभयोस्तृतीयत्वात् ॥
8 अनिरुक्तामिति ॥ अस्पष्टदेवताकां अतः प्राजापत्यां नीचैस्स्वरत्वाच्च बृहच्छब्दसम्बन्धित्वाच्च । यज्ञात्मानं प्रजापतिमादौ परिगृह्णाति । विशिष्टदेवतासम्बन्धेन स्तुतिरेषा । अन्नं वै वाज इति । वाजपदसम्बन्धेन स्तुतिः । प्राचीनमिति । उपसर्गविशेषसम्बन्धेन स्तुतिः । प्रगतं प्राचीनम् । 'विभाषाञ्चेरदिक्स्त्रियाम्' इति खः ॥
9 अग्न आ याहीति द्वितीया ऋक् ॥ आयाहीति वचनात् प्राचीनं निहितं रेतः प्राचीनं प्रजात्वेन परिणतं निर्गच्छति । प्रतिकूलाः प्रतीच्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । 'चौ' इति पूर्वपदस्य दीर्घत्वम्, अन्तोदात्तत्वं च ॥
10 मासा वा इत्यादि ॥ मन्त्रपदानां सर्वेषां स्तुतिः । हे ऋत्विग्यजमानाः वाजादयो युष्माकमभिमतसिद्धये भवन्तु । वाजाः मासाः अन्नहेतवः; गतिमन्तो वा सर्वक्रियाणामाधाराः । अर्धमासाः अभिद्यवः दिवसैरभिगतदीप्तित्वात् साभिप्रायेण क्रियाप्रवर्तकाः । हविष्मन्तो देवाः क्रियया आराध्याः । घृताची घृतमञ्चतीति । घृतहेतुर्गौः हविःप्रदानेन क्रियाप्रवृत्तिहेतुः । पूर्ववत् 'चौ' इति दीर्घत्वम्, अन्तोदात्तत्वं च । स यज्ञो देवान् जिगाति गच्छति तृप्तिहेतुत्वेन । गाङ् गतौ, व्यत्ययेन परस्मैपदं, शपः श्लुः, अभ्यासस्य चेत्वम् । सुम्नयुः सुखमात्मन इच्छतीति सुम्नयुर्यजमानः फलभाक् । एवमेते यज्ञस्याधाराः । एभिस्ताद्रूप्येण इदमसीदमसीति यज्ञं स्तुत्वा यज्ञस्य प्रियं धाम स्थानं वाजादिकमवरुन्धे ॥
11 यं इत्यादि ॥ एतेन प्रथमद्वितीययोः सन्तानस्य विशेषणात् आयुर्हेतुत्वेन स्तुतिः क्रियते । 'प्र वो वाजाः' इत्येतामनूच्य अस्या उत्तरमर्धर्चं 'अग्न आ याहि वीतये' इत्यनया सन्ततमालभेत । ऋचोर्धमर्धर्चम् । 'ऋक्पूः' इति समासान्तः । प्राणेनैवेति । द्वयोः अर्धर्चयोः प्राणापानस्थानीयत्वात् । दाधारेति छान्दसो लिट्, तुजादित्वादभ्यासस्य दीर्घत्वम् ॥
12 यो वा इत्यादिना सन्तानस्य फलान्तरं दर्शयति । समिधामाधानमन्त्रास्सामिधेन्यः । 'समिधामाधाने' इति षेण्यण्प्रत्ययः, 'षिद्गौरादिभ्यश्च' इति ङीष्, 'यस्य' इति लोपे 'हलस्तद्धितस्य' इति यलोपः । तासामरत्निः अरमणम् । नञ्पूर्वादमेर्निप्रत्ययेऽन्त्यविकारः । यद्वा - अरणमरत्निः सामिधेनीनां गमनविशेषः । अर्तेरत्निप्रत्ययः । अथवा - द्वौ प्रादेशौ संहितावरत्निः, प्रदेशस्थानीययोरर्धर्चयोस्सन्धानम् । तावेवारत्निरित्युपचर्यते । प्रमाणलक्षणाद्वा सामीधेनीनामुच्छ्बासप्रमाणं यो वेदेति । अरत्नाविति । सन्धानस्यारत्निशब्देनाभिधानस्येदं फलम् । अरमणे अरमणशीलत्वे प्रादेशद्वयपरिमितत्वे वा शत्रून् कुरुते । कः पुनस्स आसामरत्निरित्याह - अर्धर्चाविति । यजमानव्यतिरिक्तवेदित्रर्थं य एवं वेदेत्यादेः पुनर्वचनम् ॥
13 ऋषीणां सम्बन्धिभ्य आविर्भूताः एताः । ता यदि परस्परं असंयुक्ताः स्युः तदा या एता ऋषिभ्यो गोत्रकृद्भ्यः भृग्वादिभ्यः उत्पन्नाः प्रजाः पशवश्च; तैरपि सर्वैरेता वितिष्ठेरन् विश्लिष्टाः स्युः यजमानस्य प्रजापशुसिद्धिहेतवो न स्युरित्यर्थः तस्मादर्धर्चसन्धानेन एतास्संयुनक्ति । ताश्च संयुक्तवत्सा गाव इव गोष्ठेऽवरुद्धाः अस्मै यजमानाय सर्वामाशिषमाभिमतमर्थं दुह्रे स्वयमेव दुहन्ते । कर्मकर्तरि 'न दुहस्नुनमाम्' इति यगभावः, 'बहुलं छन्दसि' इति लट्, 'लोपस्य आत्मनेपदेषु इति तलोपः, अतो गुणे पररूपत्वम् ॥
इति द्वितीये पञ्चमे सप्तमोनुवाकः ॥