वाजा॒ इत्यनि॑रुक्तां प्राजाप॒त्यामन्वा॑ह य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ्मे॒व प्र॒जाप॑ति॒मा र॑भते॒ प्रवो॒ वाजा॒ इत्यन्वा॒हान्नं॒ ॅवै वाजोऽन्न॑मे॒वाव॑ रुन्धे॒ प्रवो॒ वाजा॒ इत्यन्वा॑ह॒ तस्मा᳚त् प्रा॒चीनꣳ॒॒ रेतो॑ धीय॒तेऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह॒ तस्मा᳚त् प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ प्रवो॒ वाजा॒ - [ ]
पदपाठः (Word-by-word)
वाजाः᳚ । इति॑ । अनि॑रुक्ता॒मित्यनिः॑ - उ॒क्ता॒म् । प्रा॒जा॒प॒त्यामिति॑ प्राजा - प॒त्याम् । अन्विति॑ । आ॒ह॒ । य॒ज्ञ्ः । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । य॒ज्ञ्म् । ए॒व । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । एति॑ । र॒भ॒ते॒ । प्रेति॑ । वः॒ । वाजाः᳚ । इति॑ । अन्विति॑ । आ॒ह॒ । अन्न᳚म् । वै । वाजः॑ । अन्न᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । प्रेति॑ । वः॒ । वाजाः᳚ । इति॑ । अन्विति॑ । आ॒ह॒ । तस्मा᳚त् । प्रा॒चीन᳚म् । रेतः॑ । धी॒य॒ते॒ । अग्ने᳚ । एति॑ । या॒हि॒ । वी॒तये᳚ । इति॑ । आ॒ह॒ । तस्मा᳚त् । प्र॒तीचीः᳚ । प्र॒जा इति॑ प्र - जाः । जा॒य॒न्ते॒ । प्रेति॑ । वः॒ । वाजाः᳚ ।