इत्यन्वा॑ह॒ मासा॒ वै वाजा॑ अर्द्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒ गौर्घृ॒ताची॑ य॒ज्ञो दे॒वाञ्जि॑गाति॒ यज॑मानः सुम्न॒यु-रि॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञ्स्य॑ प्रि॒यं धामाव॑ रुन्धे॒ यं का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ प्र वो॒ वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ संत॑त॒मुत्त॑र-मर्द्ध॒र्चमा ल॑भेत - [ ]
पदपाठः (Word-by-word)
इति॑ । अन्विति॑ । आ॒ह॒ । मासाः᳚ । वै । वाजाः᳚ । अ॒द्र्ध॒मा॒सा इत्य॑द्र्ध - मा॒साः । अ॒भिद्य॑व॒ इत्य॒भि - द्य॒वः॒ । दे॒वाः । ह॒विष्म॑न्तः । गौः । घृ॒ताची᳚ । य॒ज्ञ्ः । दे॒वान् । जि॒गा॒ति॒ । यज॑मानः । सु॒म्न॒युरिति॑ सुम्न - युः । इ॒दम् । अ॒सि॒ । इ॒दम् । अ॒सि॒ । इति॑ । ए॒व । य॒ज्ञ्स्य॑ । प्रि॒यम् । धाम॑ । अवेति॑ । रु॒न्धे॒ । यम् । का॒मये॑त । सर्व᳚म् । आयुः॑ । इ॒या॒त् । इति॑ । प्रेति॑ । वः॒ । वाजाः᳚ । इति॑ । तस्य॑ । अ॒नूच्येत्य॑नु - उच्य॑ । अग्ने᳚ । एति॑ । या॒हि॒ । वी॒तये᳚ । इति॑ । संत॑त॒मिति॒ सं - त॒त॒म् । उत्त॑र॒मित्युत् - त॒र॒म् । अ॒द्र्ध॒र्चमित्य॑द्र्ध - ऋ॒चम् । एति॑ । ल॒भे॒त॒ ।