ध्वरति शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद्-यज॑मानमे॒वैतया॑ पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह परि॒धिमे॒वैतं परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑ ऊ॒र्द्ध्वम॑भ्याद॒द्ध्याद्यथा॑ बहिः परि॒धि स्कन्द॑ति ता॒दृगे॒व तत् त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वानां᳚ कव्य॒वाह॑नः पितृ॒णाꣳ स॒हर॑क्षा॒ असु॑राणां॒ त ए॒तर्ह्या शꣳ॑सन्ते॒ मां ॅव॑रिष्यते॒ मा - [ ]
पदपाठः (Word-by-word)
ध्व॒र॒ति॒ । शो॒चिष्के॑श॒ इति॑ शो॒चिः - के॒शः॒ । तम् । ई॒म॒हे॒ । इति॑ । आ॒ह॒ । प॒वित्र᳚म् । ए॒व । ए॒तत् । यज॑मानम् । ए॒व । ए॒तया᳚ । प॒व॒य॒ति॒ । समि॑द्ध॒ इति॒ सं - इ॒द्धः॒ । अ॒ग्ने॒ । आ॒हु॒तेत्या᳚ - हु॒त॒ । इति॑ । आ॒ह॒ । प॒रि॒धिमिति॑ परि - धिम् । ए॒व । ए॒तम् । परीति॑ । द॒धा॒ति॒ । अस्क॑न्दाय । यत् । अतः॑ । ऊ॒द्र्ध्वम् । अ॒भ्या॒द॒द्ध्यादित्य॑भि - आ॒द॒द्ध्यात् । यथा᳚ । ब॒हिः॒ प॒रि॒धीति॑ बहिः - प॒रि॒धि । स्कन्द॑ति । ता॒दृक् । ए॒व । तत् । त्रयः॑ । वै । अ॒ग्नयः॑ । ह॒व्य॒वाह॑न॒ इति॑ हव्य - वाह॑नः । दे॒वाना᳚म् । क॒व्य॒वाह॑न॒ इति॑ कव्य - वाह॑नः । पि॒तृ॒णाम् । स॒हर॑क्षा॒ इति॑ स॒ह - र॒क्षाः॒ । असु॑राणाम् । ते । ए॒तर्.हि॑ । एति॑ । शꣳ॒॒स॒न्ते॒ । माम् । व॒रि॒ष्य॒ते॒ । माम् ।