बीजं᳚ । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इथ् सृ॒ण्या॑ प॒क्वमा ऽय॑त् ॥ लाङ्ग॑लं॒ पवी॑रवꣳ सु॒शेवꣳ॑ सुम॒तिथ्स॑रु । उदित् कृ॑षति॒ गामविं॑ प्रफ॒र्व्यं॑ च॒ पीव॑रीं । प्र॒स्थाव॑द्-रथ॒वाह॑नं ॥ शु॒नं नः॒ फाला॒ वि तु॑दन्तु॒ भूमिꣳ॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हान् । शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तं ॥ कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ ( ) वरु॑णाय च । इन्द्रा॑या॒ग्नये॑ पू॒ष्ण ओष॑धीभ्यः प्र॒जाभ्यः॑ ॥घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै᳚र्दे॒वैरनु॑मता म॒रुद्भिः॑ । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ऽस्मान्थ् सी॑ते॒ पय॑सा॒ऽभ्या-व॑वृथ्स्व ॥
पदपाठः (Word-by-word)
बीज᳚म् ॥ गि॒रा । च॒ । श्रु॒ष्टिः । सभ॑रा॒ इति॒ स-भ॒राः॒ । अस॑त् । नः॒ । नेदी॑यः । इत् । सृ॒ण्या᳚ । प॒क्वम् । एति॑ । अ॒य॒त् ॥ लाङ्ग॑लम् । पवी॑रवम् । सु॒शेव॒मिति॑ सु - शेव᳚म् । सु॒म॒तिथ्स॒र्विति॑ सुम॒ति - थ्स॒रु॒ ॥ उदिति॑ । इत् । कृ॒ष॒ति॒ । गाम् । अवि᳚म् । प्र॒फ॒र्व्य॑मिति॑ प्र-फ॒र्व्य᳚म् । च॒ । पीव॑रीम् ॥ प्र॒स्थाव॒दिति॑ प्र॒स्थ-व॒त् । र॒थ॒वाह॑न॒मिति॑ रथ - वाह॑नम् ॥ शु॒नम् । नः॒ । फालाः᳚ । वीति॑ । तु॒द॒न्तु॒ । भूमि᳚म् । शु॒नम् । की॒नाशाः᳚ । अ॒भीति॑ । य॒न्तु॒ । वा॒हान् ॥ शु॒नम् । प॒र्जन्यः॑ । मधु॑ना । पयो॑भि॒रिति॒ पयः॑ - भिः॒ । शुना॑सीरा । शु॒नम् । अ॒स्मासु॑ । ध॒त्त॒म् ॥ काम᳚म् । का॒म॒दु॒घ॒ इति॑ काम - दु॒घे॒ । धु॒क्ष्व॒ । मि॒त्राय॑ ( ) । वरु॑णाय । च॒ ॥ इन्द्रा॑य । अ॒ग्नये᳚ । पू॒ष्णे । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ॥ घृ॒तेन॑ । सीता᳚ । मधु॑ना । सम॒क्तेति॒ सम् - अ॒क्ता॒ । विश्वैः᳚ । दे॒वैः । अनु॑म॒तेत्यनु॑-म॒ता॒ । म॒रुद्भि॒रिति॑ म॒रुत् -भिः॒ ॥ ऊर्ज॑स्वती । पय॑सा । पिन्व॑माना । अ॒स्मान् । सी॒ते॒ । पय॑सा । अ॒भ्याव॑वृ॒थ्स्वेत्य॑भि - आव॑वृथ्स्व ॥