स्थन॒ यदा॒ मय॑ति॒ निष्कृ॑त ॥अ॒न्या वो॑ अ॒न्याम॑व-त्व॒न्याऽन्यस्या॒ उपा॑वत । ताः सर्वा॒ ओष॑धयः संॅविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥ उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठा दि॑वेरते । धनꣳ॑ सनि॒ष्यन्ती॑ नामा॒त्मानं॒ तव॑ पूरुष ॥ अति॒ विश्वाः᳚ परि॒ष्ठास्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धयः॒ प्राचु॑च्यवु॒ र्यत् किं च॑ त॒नुवाꣳ॒॒ रपः॑ ॥ या - [ ]
पदपाठः (Word-by-word)
स्थ॒न॒ । यत् । आ॒मय॑ति । निरिति॑ । कृ॒त॒ ॥ अ॒न्या । वः॒ । अ॒न्याम् । अ॒व॒तु॒ । अ॒न्या । अ॒न्यस्याः᳚ । उपेति॑ । अ॒व॒त॒ ॥ ताः । सर्वाः᳚ । ओष॑धयः । सं॒ॅवि॒दा॒ना इति॑ सं - वि॒दा॒नाः । इ॒दम् । मे॒ । प्रेति॑ । अ॒व॒त॒ । वचः॑ ॥ उदिति॑ । शुष्माः᳚ । ओष॑धीनां । गावः॑ । गो॒ष्ठादिति॑ गो - स्थात् । इ॒व॒ । ई॒र॒ते॒ ॥ धन᳚म् । स॒नि॒ष्यन्ती॑नाम् । आ॒त्मान᳚म् । तव॑ । पू॒रु॒ष॒ ॥ अतीति॑ । विश्वाः᳚ । प॒रि॒ष्ठा इति॑ परि - स्थाः । स्ते॒नः । इ॒व॒ । व्र॒जम् । अ॒क्र॒मुः॒ ॥ ओष॑धयः । प्रेति॑ । अ॒चु॒च्य॒वुः॒ । यत् । किम् । च॒ । त॒नुवा᳚म् । रपः॑ ॥ याः ।