प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.2.6.5 TS 4.2.6.5
ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑ ।तासां॒ त्वम॑स्युत्त॒मा प्रणो॑ जी॒वात॑वे-सुव ॥ अ॒व॒पत॑न्तीरवदन् दि॒व ओष॑दयः॒ परि॑ । यं जी॒व म॒श्ञवा॑ महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ याश्चे॒द मु॑प-शृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः ।इ॒ह स॒ङ्गत्य॒ ताः सर्वा॑ अ॒स्मै सं द॑त्त भेष॒जं ॥मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ( ) । द्वि॒प-च्चतु॑ष्प-द॒स्माकꣳ॒॒ सर्व॑-म॒स्त्वना॑तुरं ॥ ओष॑धयः॒ सं ॅव॑दन्ते॒ सोमे॑न स॒ह राज्ञा᳚ । यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि ॥
पदपाठः (Word-by-word)
ओष॑धयः । सोम॑राज्ञी॒रिति॒ सोम॑ - रा॒ज्ञीः॒ । प्रवि॑ष्टा॒ इति॒ प्र-वि॒ष्टाः॒ । पृ॒थि॒वीम् । अनु॑ ॥ तासां᳚ । त्वम् । अ॒सि॒ । उ॒त्त॒मेत्यु॑त्- त॒मा । प्रेति॑ । नः॒ । जी॒वात॑वे । सु॒व॒ ॥ अ॒व॒पत॑न्ती॒रित्य॑व - पत॑न्तीः । अ॒व॒द॒न्न् । दि॒वः । ओष॑दयः । परि॑ ॥ यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पूरु॑षः ॥ याः । च॒ । इ॒दम् । उ॒प॒शृ॒ण्वन्तीत्यु॑प-शृ॒ण्वन्ति॑ । याः । च॒ । दू॒रम् । परा॑गता॒ इति॒ परा᳚ - ग॒ताः॒ ॥ इ॒ह । स॒ङ्गत्येति॑ सं - गत्य॑ । ताः । सर्वाः᳚ । अ॒स्मै । समिति॑ । द॒त्त॒ । भे॒ष॒जम् ॥ मा । वः॒ । रि॒ष॒त् । ख॒नि॒ता । यस्मै᳚ । च॒ । अ॒हम् । खना॑मि । वः॒ ( ) ॥ द्वि॒पदिति॑ द्वि-पत् । चतु॑ष्प॒दिति॒ चतुः॑-प॒त् । अ॒स्माक᳚म् । सर्व᳚म् । अ॒स्तु॒ । अना॑तुर॒मित्यना᳚ - तु॒र॒म् ॥ ओष॑धयः । समिति॑ । व॒द॒न्ते॒ । सोमे॑न । स॒ह । राज्ञा᳚ ॥ यस्मै᳚ । क॒रोति॑ । ब्रा॒ह्म॒णः । तम् । रा॒ज॒न्न् । पा॒र॒या॒म॒सि॒ ॥
पदसंख्या: 68