-सि॒ सा मा॑ जिन्व ॥ मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माद्ध्वी᳚र्नः स॒न्त्वोष॑धीः ॥ मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त् पार्थि॑वꣳ॒॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ॥ मधु॑मान् नो॒ वन॒स्पति॒-र्मधु॑माꣳ अस्तु॒ सूर्यः॑ । माद्ध्वी॒र्गावो॑ भवन्तु नः ॥ म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं ॅय॒ज्ञ्ं मि॑मिक्षतां । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ तद्-विष्णोः᳚ पर॒मं - [ ]
पदपाठः (Word-by-word)
अ॒सि॒ । सा । मा॒ । जि॒न्व॒ ॥ मधु॑ । वाताः᳚ । ऋ॒ता॒य॒त इत्यृ॑त - य॒ते । मधु॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः ॥ माद्ध्वीः᳚ । नः॒ । स॒न्तु॒ । ओष॑धीः ॥ मधु॑ । नक्त᳚म् । उ॒त । उ॒षसि॑ । मधु॑म॒दिति॒ मधु॑ - म॒त् । पार्थि॑वम् । रजः॑ ॥ मधु॑ । द्यौः । अ॒स्तु॒ । नः॒ । पि॒ता ॥ मधु॑मा॒निति॒ मधु॑-मा॒न् । नः॒ । वन॒स्पतिः॑ । मधु॑मा॒निति॒ मधु॑ - मा॒न् । अ॒स्तु॒ । सूर्यः॑ ॥ माद्ध्वीः᳚ । गावः॑ । भ॒व॒न्तु॒ । नः॒ ॥ म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इ॒मम् । य॒ज्ञ्म् । मि॒मि॒क्ष॒ता॒म् ॥ पि॒पृ॒ताम् । नः॒ । भरी॑मभि॒रिति॒ भरी॑म - भिः॒ ॥ तत् । विष्णोः᳚ । प॒र॒मम् ।