ज्योति॑रधारयथ् स॒म्राड् ज्योति॑रधारयथ् स्व॒राड् ज्योति॑रधारयत् ॥ अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ । अरं॒ ॅवह॑न्त्या॒शवः॑ ॥ यु॒क्ष्वा हि दे॑व॒हूत॑माꣳ॒॒ अश्वाꣳ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥ द्र॒फ्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ ॅयोनि॒मनु॑ स॒ञ्चर॑न्तं द्र॒फ्सं जु॑हो॒म्यनु॑ स॒प्त - [ ]
पदपाठः (Word-by-word)
ज्योतिः॑ । अ॒धा॒र॒य॒त् । स॒म्राडिति॑ सम्-राट् । ज्योतिः॑ । अ॒धा॒र॒य॒त् । स्व॒राडिति॑ स्व - राट् । ज्योतिः॑ । अ॒धा॒र॒य॒त् ॥ अग्ने᳚ । यु॒क्ष्व । हि । ये । तव॑ । अश्वा॑सः । दे॒व॒ । सा॒धवः॑ ॥ अर᳚म् । वह॑न्ति । आ॒शवः॑ ॥ यु॒क्ष्व । हि । दे॒व॒हूत॑मा॒निति॑ देव - हूत॑मान् । अश्वान्॑ । अ॒ग्ने॒ । र॒थीः । इ॒व॒ ॥ नीति॑ । होता᳚ । पू॒र्व्यः । स॒दः॒ ॥ द्र॒फ्सः । च॒स्क॒न्द॒ । पृ॒थि॒वीम् । अन्विति॑ । द्याम् । इ॒मम् । च॒ । योनि᳚म् । अन्विति॑ । यः । च॒ । पूर्वः॑ ॥ तृ॒तीय᳚म् । योनि᳚म् । अन्विति॑ । स॒ञ्चर॑न्त॒मिति॑ सं - चर॑न्तम् । द्र॒फ्सम् । जु॒हो॒मि॒ । अन्विति॑ । स॒प्त ।