होत्राः᳚ ॥ अभू॑दि॒दं ॅविश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्ने-र्वै᳚श्वान॒रस्य॑ च । अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान् रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् ॥ ऋ॒चे त्वा॑ रु॒चे त्वा॒ समिथ् स्र॑वन्ति स॒रितो॒ न धेनाः᳚ । अ॒न्तर्.हृ॒दा मन॑सा पू॒यमा॑नाः ॥ घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि । हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसां ॥ तस्मिन्᳚थ्सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः । तस्या॑ स ते॒ हर॑यः स॒प्त तीरे᳚ ( ) स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारां᳚ ॥
पदपाठः (Word-by-word)
होत्राः᳚ ॥ अभू᳚त् । इ॒दम् । विश्व॑स्य । भुव॑नस्य । वाजि॑नम् । अ॒ग्नेः । वै॒श्वा॒न॒रस्य॑ । च॒ ॥ अ॒ग्निः । ज्योति॑षा । ज्योति॑ष्मान् । रु॒क्मः । वर्च॑सा । वर्च॑स्वान् ॥ ऋ॒चे । त्वा॒ । रु॒चे । त्वा॒ । समिति॑ । इत् । स्र॒व॒न्ति॒ । स॒रितः॑ । न । धेनाः᳚ ॥ अ॒न्तः । हृ॒दा । मन॑सा । पू॒यमा॑नाः ॥ घृ॒तस्य॑ । धाराः᳚ । अ॒भीति॑ । चा॒क॒शी॒मि॒ ॥ हि॒र॒ण्ययः॑ । वे॒त॒सः । मद्ध्ये᳚ । आ॒सा॒म् ॥ तस्मिन्न्॑ । सु॒प॒र्ण इति॑ सु - प॒र्णः । म॒धु॒कृदिति॑ मधु - कृत् । कु॒ला॒यी । भजन्न्॑ । आ॒स्ते॒ । मधु॑ । दे॒वता᳚भ्यः ॥ तस्य॑ । आ॒स॒ते॒ । हर॑यः । स॒प्त । तीरे᳚ ( ) । स्व॒धामिति॑ स्व-धाम् । दुहा॑नाः । अ॒मृत॑स्य । धारा᳚म् ॥