प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.1.11.2 TS 5.1.11.2
दे॒वैर्वसु॑भिः स॒जोषाः᳚ प्री॒तं ॅवह्निं॑ ॅवहतु जा॒तवे॑दाः ॥ स्ती॒र्णम् ब॒र्॒.हिः सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानं पृथि॒व्यां । दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषाः᳚ स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ॥ए॒ता उ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ विपक्षो॑भिः॒ श्रय॑माणा॒ उदातैः᳚ ।ऋ॒ष्वाः स॒तीः क॒वषः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु ॥अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ ॅय॒ज्ञाना॑म॒भि सं॑ॅविदा॒ने । उ॒षासा॑ वाꣳ - [ ]
पदपाठः (Word-by-word)
दे॒वैः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । स॒जोषा॒ इति॑ स - जोषाः᳚ । प्री॒तम् । वह्नि᳚म् । व॒ह॒तु॒ । जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ ॥ स्ती॒र्णम् । ब॒र्॒.हिः । सु॒ष्टरी॒मेति॑ सु - स्तरी॑म । जु॒षा॒णा । उ॒रु । पृ॒थु । प्रथ॑मानम् । पृ॒थि॒व्याम् ॥ दे॒वेभिः॑ । यु॒क्तम् । अदि॑तिः । स॒जोषा॒ इति॑ स - जोषाः᳚ । स्यो॒नम् । कृ॒ण्वा॒ना । सु॒वि॒ते । द॒धा॒तु॒ ॥ ए॒ताः । उ॒ । वः॒ । सु॒भगा॒ इति॑ सु - भगाः᳚ । वि॒श्वरू॑पा॒ इति॑ वि॒श्व - रू॒पाः॒ । वीति॑ । पक्षो॑भि॒रिति॒ पक्षः॑ - भिः॒ । श्रय॑माणाः । उदिति॑ । आतैः᳚ ॥ ऋ॒ष्वाः । स॒तीः । क॒वषः॑ । शुंभ॑मानाः । द्वारः॑ । दे॒वीः । सु॒प्रा॒य॒णा इति॑ सु - प्रा॒य॒णाः । भ॒व॒न्तु॒ ॥ अ॒न्त॒रा । मि॒त्रावरु॒णेति॑ मि॒त्रा - वरु॑णा । चर॑न्ती इति॑ । मुख᳚म् । य॒ज्ञाना᳚म् । अ॒भीति॑ । सं॒ॅवि॒दा॒ने इति॑ सं - वि॒दा॒ने ॥ उ॒षासा᳚ । वा॒म् ।
पदसंख्या: 50