पञ्चशत् 1 #
ष॒ड्भिर्दी᳚क्षयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ दीक्षयति स॒प्तभि॑र्दीक्षयति स॒प्त छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वैनं॑ दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्य॑-नु॒ष्टुभो᳚त्त॒मया॑ जुहोति॒ वाग्वा अ॑नु॒ष्टुप् तस्मा᳚त् प्रा॒णानां॒ ॅवागु॑त्त॒मै- क॑स्माद॒क्षरा॒दना᳚प्तं प्रथ॒मं प॒दं तस्मा॒द्-यद्-वा॒चोऽना᳚प्तं॒ तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः - [ ]
पदपाठः (Word-by-word)
ष॒ड्भिरिति॑ षट् - भिः । दी॒क्ष॒य॒ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुभि॒रित्यृ॒तु-भिः॒ । ए॒व । ए॒न॒म् । दी॒क्ष॒य॒ति॒ । स॒प्तभि॒रिति॑ स॒प्त - भिः॒ । दी॒क्ष॒य॒ति॒ । स॒प्त । छन्दाꣳ॑सि । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । ए॒न॒म् । दी॒क्ष॒य॒ति॒ । विश्वे᳚ । दे॒वस्य॑ । ने॒तुः । इति॑ । अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । उ॒त्त॒मयेत्यु॑त् - त॒मया᳚ । जु॒हो॒ति॒ । वाक् । वै । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । तस्मा᳚त् । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । वाक् । उ॒त्त॒मेत्यु॑त् - त॒मा । एक॑स्मात् । अ॒क्षरा᳚त् । अना᳚प्तम् । प्र॒थ॒मम् । प॒दम् । तस्मा᳚त् । यत् । वा॒चः । अना᳚प्तम् । तत् । म॒नु॒ष्याः᳚ । उपेति॑ । जी॒व॒न्ति॒ । पू॒र्णया᳚ । जु॒हो॒ति॒ । पू॒र्णः । इ॒व॒ । हि । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 षड्भिरित्यादि ॥ 'आकूतिमग्निं' इत्यादिषड्भिराग्निकीभिः दीक्षाहुतिभिः यजमानं दीक्षयति । स्थिता एव 'आकूत्यै प्रयुजेऽग्नये' इति पश्चादाग्निकी । 'षट्त्रिचतुर्भ्यो हलादिः' इति विभक्तेरुदात्तत्वम् ॥
2 सप्तभिरिति ॥ 'विश्वे देवस्य' इति सप्तमी । 'झल्युपोत्तमम्' इत्युपोत्तमस्योदात्तत्वम् । उत्तमशब्द उञ्छादित्वादन्तोदात्तः ॥
3 एकस्मादित्यादि ॥ एकमक्षरमभिसमीक्ष्य अनाप्तं अपूर्णं प्रथमं पदं पादः अस्मिन् । तस्माद्वाचोऽनाप्तं अपरिपूर्णं तुर्यं मनुष्या उपजीवन्ति 'तुरीयं वाचो मनुष्या वदन्ति' इति । ननु द्वितीयमपि सप्ताक्षरमेव, सत्यम् इयादिपूरणेनाष्टाक्षरत्वं भविष्यतीति । अनेनैव न्यायेन प्रथममप्यष्टाक्षरं स्यात्, न, प्रयोजनाभावात् इयादिपूरणाप्रवृत्तेः । न हि न्यूनाक्षरत्वादेव इयादिना पूरयितव्यम् । अपि तु वृत्त्यनुरोधेन । तत्राष्टाक्षरस्य पादस्य वृत्तिलक्षणं पञ्चममक्षरं सप्तमं च लघु स्यात् षष्ठं गुर्विति । न च प्रथमे पादे इयादिना पूरितेऽपि अभीष्टवृत्तिलाभः, सत्यप्यस्मिन् सप्तमस्य गुरुत्वात् षष्ठस्य लघुत्वापत्तेः पञ्चमस्य प्रागेव लघुत्वात् । तस्मात् इयादिपूरणाप्रसङ्गात् प्रथममित्युक्तम् ॥
4 पूर्णयेति ॥ यस्मादियं द्वितीयादिभिः पादैः पूर्णस्वभावा तस्मादनया होमः पूरणस्य प्रजापतेराप्त्यै भवति । न्यूनयेति । नितरामूना न्यूना । यस्माच्चेयं प्रथमेन पादेन न्यूनस्वभावा तस्मादनयोर्होमः प्रजानां सृष्ट्यै भवति । अतो न्यूनात् नितरामूनात् शान्तविकारात् उपादानात् प्रजापतिः प्रजा असृजत मृत्पीण्डादिव घटशरावादिविकारान् कुलालः । तस्मान्न्यूनत्वं प्रजासृष्ट्यै भवति । 'हि च' इति निघाताभावः ॥
5 यदित्यादि ॥ यद्युखामर्चिषि प्रवृञ्ज्यात् पातयेत् भूतमुत्पन्नमेव अवरुन्धीत लभेत । यदङ्गारेष्विति । प्रवृञ्ज्यादित्येव । भविष्यदिति । अवरुन्धीतेत्येव । तस्मादङ्गारेष्वपि प्रवृणक्ति भविष्यदवरोधनाय । ननु भूतं नावरुध्यते तत्राह - भविष्यद्धि भूतात् बहुतरमतस्तत् भूयस्येति तमिति(?) । अपरिमितत्वात् भविष्यतो भूयस्त्वम् । द्वाभ्यामिति । 'मासुभित्था' इत्याभ्याम् ॥
6 ब्रह्मणेति ॥ 'वसवस्त्वा कृण्वन्तु' इत्यनेन । 'मित्रैतामुखां तप' इति मित्रायोखा परिदीयते । प्रमितेस्त्रायत इति मित्रः ॥
7 यदि भिद्येतेति ॥ पुनरुखाकरणे तैरेव कपालैः संसर्जनीयैः संसृजति । मृदमर्मकपालैः । सैव प्रायश्चित्तिः ततः अपचारदोषात् । प्रायोऽपचारः तन्निवृत्त्यर्थं आज्ञातं प्रायश्चितिः । दासीभारादिः । व्यत्ययेन वा प्रयोगः ॥
8 गतश्रीरिति ॥ शुश्रुवान् ग्रामणी राजन्यः च भूतः प्रभूतः । एषः गतश्रीः । स्वामेव महतीं देवतामुपैति मथित्वाऽवदानेन ॥
9 य इति ॥ भूतिकामस्य उखासम्भव एवाग्निः न मथित्वाऽवदातव्यः । संभवतीति । 'हि च' इति निघाताभावः ॥
10 अन्यत इति ॥ उखाव्यतिरिक्तात् ॥
11 अम्बरीषादिति ॥ आकूत्येत्येव । अम्बरीषं भर्जनं यत्र लौकिकः पाकः ॥
12 मुञ्जानित्यादि ॥ गतम् ॥
13 क्रुमुकमिति ॥ दभ्रं काष्ठशकलं न्यक्तं निलीनं अग्ने रूपम् ॥
14 आज्येनेत्यादि ॥ गतम् । तेजसेति । समर्धयतीत्येव ॥
15 वैकङ्कतीमिति ॥ उख्ये जाते 'परस्या अधि' इति वैकङ्कतीं समिधमादधाति । 'परमस्याः परावतः' इति
शमीमयीमादधाति । 'द्व्यचश्छन्दसि' इति मयट् ॥
16 सीद त्वमित्यादि ॥ गतम् । आविदं ख्यातिं गच्छतीति, 'वि भाहि' इति लिङ्गात् । अथो अपि च प्राणानात्मनि धत्ते 'शिवो भूत्वा मह्यं' इति लिङ्गात् । 'सुपां सुलुक्' इति सप्तम्या लुक् ॥
इति पञ्चमे प्रथमे नवमोनुवाकः ॥