पञ्चशत् 1 #
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ खनति॒ प्रसू᳚त्या॒ अथो॑ धू॒ममे॒वैतेन॑ जनयति॒ ज्योति॑ष्मन्तं त्वाऽग्ने सु॒प्रती॑क॒मित्या॑ह॒ ज्योति॑रे॒वैतेन॑ जनयति॒ सो᳚ऽग्निर्जा॒तः प्र॒जाः शु॒चाऽऽर्प॑य॒त् तं दे॒वा अ॑र्द्ध॒र्चेना॑-शमयच्छि॒वं प्र॒जाभ्योऽहिꣳ॑ सन्त॒मित्या॑ह प्र॒जाभ्य॑ ए॒वैनꣳ॑ शमयति॒ द्वाभ्यां᳚ खनति॒ प्रति॑ष्ठित्या अ॒पां पृ॒ष्ठम॒सीति॑ पुष्करप॒र्णमा - [ ]
पदपाठः (Word-by-word)
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । इति॑ । ख॒न॒ति॒ । प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । अथो॒ इति॑ । धू॒मम् । ए॒व । ए॒तेन॑ । ज॒न॒य॒ति॒ । ज्योति॑ष्मन्तम् । त्वा॒ । अ॒ग्ने॒ । सु॒प्रती॑क॒मिति॑ सु - प्रती॑कम् । इति॑ । आ॒ह॒ । ज्योतिः॑ । ए॒व । ए॒तेन॑ । ज॒न॒य॒ति॒ । सः । अ॒ग्निः । जा॒तः । प्र॒जा इति॑ प्र - जाः । शु॒चा । आ॒र्प॒य॒त् । तम् । दे॒वाः । अ॒द्र्ध॒र्चेनेत्य॒॑द्र्ध - ऋ॒चेन॑ । अ॒श॒म॒य॒न्न् । शि॒वम् । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । अहिꣳ॑सन्तम् । इति॑ । आ॒ह॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । ए॒व । ए॒न॒म् । श॒म॒य॒ति॒ । द्वाभ्या᳚म् । ख॒न॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अ॒पाम् । पृ॒ष्ठम् । अ॒सि॒ । इति॑ । पु॒ष्क॒र॒प॒र्णमिति॑ पुष्कर - प॒र्णम् । एति॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवस्य त्वेत्यादि ॥ द्वावेतौ खननमन्त्रौ । अथो अपि च एतेन प्रथमेन मन्त्रेण उत्पत्स्यमानस्याग्नेः धूमं जनयति प्राथम्यात् । ज्योतिरेव एतेन द्वितीयेन मन्त्रेण ॥
2 सोग्निरित्यादि ॥ पूर्वेणार्धेन जातमग्निं प्रजाश्शोचयन्तं उत्तरेणार्धर्चेनाशमयन्, शिवं प्रजाभ्य इति दर्शनात् ॥
3 अपामित्यादि ॥ पुष्करपर्णं पद्मपत्रं अपामेतत्पृष्ठमिव उपरिभावात् । तस्माद्रूपेणात्मीयेन सह एनदाहृतं भवति अपां पृष्ठमसि इत्याहरणात् । योनिर्वा इति । 'त्वामग्ने पुष्करादध्यथर्वा निरमन्थत' इति मन्त्रलिङ्गात् ।
4 यज्ञो वा इति ॥ प्रधानसाधनत्वात् । ग्राम्याणामित्यदि । ग्राम्यसंज्ञाभाजो ये ग्राम्याः पशवो गोजाव्यश्वतरीगर्दभपुरुषोष्ट्राः सप्त द्विखुराः श्वापदानि च पक्षिणश्च सरीस्रपाणि च हस्ती च मर्कटश्च नादेयाश्चेति सप्त आरण्याः । तस्मादित्यादि । समावत् 'समादावतुप्' इति स्वार्थिकः । कनीयांसः स्वल्पतराः शुचा ऋतत्वात् प्राप्तत्वान्नाभिवृद्धिरारण्यानाम् । लोमतः लोमसु । आद्यादित्त्वात्तसिः । अतो हीति । यस्मादत्र संभ्रियते तस्मादिदमस्य कृष्णाजिनस्य लोम मेधार्हम् । कृष्णाजिनं चेत्यादि । गतम् ॥
5 अग्निर्देवेभ्यो निलायत निरगच्छत् । पूर्ववल्लत्वम् । अथर्वा नाम ऋषिः तमन्वपश्यत् । तत्र पुरीष्योसीत्यादिभिः अष्टाभिः मृदं खनति भरति । अन्वविन्दत् लब्धवान् अथर्वा । 'हि च' इति निघाताभावः । दध्यङ्वा इत्यादि । दध्यञ्चतीति दध्यङ् । 'ऋत्विक्' इत्यादिना क्विन् 'क्विन्प्रत्ययस्य' इति नुमः कुत्वम् । दध्यङ् नाम अथर्वणः पुत्रः ऋषिः अर्णे पाथसि भवः पाथ्यः स एव दध्यङ् । 'पाथोनदीभ्यामण्' । पूर्वमेवोदितमिति । पूर्वेण मन्त्रेण उक्तमेवार्थं उत्तरेणाभिगृह्णाति अनुवदति उभयोरेकार्थत्वात् ॥
6 चतसृभिरिति सञ्ख्याविधिः । छन्दोभिरेवेति । सम्भरणं कृतं भवतीति । गायत्रीभिरित्यादि छन्दोविधिः । अत्रादितश्चतस्रो गायत्र्यः । तिस्रः त्रिष्टुभः पञ्चम्याद्याः । सप्तमी पथ्याबृहतीति, त्रिष्टुबेव वा; छन्दोन्तरस्येहाप्रस्तुतत्वात् ॥
7 यं कामयेतेति पक्षान्तरम् । वसीयान् वसुमत्तरः । 'विन्मतोर्लुक्' 'टेः' इति टिलोपः । समीची सङ्गते । संपूर्वादञ्चतेः 'ऋत्विक्' इत्यादिना क्विन्, 'समस्समि' इति सम्यादेशः 'चौ' इति दीर्घत्वम्, अन्तोदात्तं च । 'नपुंसकाच्च' इति शीभावः ॥
8 अष्टाभिरिति पक्षान्तरम् । 'सीद होतः' इत्यादिमन्त्रत्रयेण देवान्मनुष्यान् वयांसि च अस्मै संसादयति सङ्गतान् स्थापयति च धनपातनाय 'देवान् हविषा यजासि' इति प्रथमे दर्शनात् `होतृषदने विदानः' इति द्वितीये दर्शनात् । मनुष्यहोतृग्रहणात् तृतीये 'देववीतमः' इति दर्शनात् देवानां तर्पयितृतमः चित्याग्निः सपक्षपुच्छादेति । देवमतुष्यानिति । उपलक्षणत्वाद्वयांसि च ॥
इति पञ्चमे प्रथमे चतुर्थोनुवाकः ॥