अनुवाकः 10 TS 5.1.10

(A10)

(रक्षाꣳ॒॒स्यौ - दु॑बंरि - आदि॒त्य - उ॒द्यत्य॒ - सं - चतु॑र्विꣳशतिश्च)

अनुवाकः 10 - Complete Audio

TS 5.1.10 - स्वरानुगामी

0:00 0:00
PS1.1 न ह॑ स्म॒ वै
PS1.2 पु॒राऽग्निरप॑रशुवृक्णं दहति॒ तद॑स्मै प्रयो॒ग
PS1.3 ए॒वर्.षि॑रस्वदय॒द्-यद॑ग्ने॒ यानि॒ कानि॒ चेति॑
PS1.4 स॒मिध॒मा द॑धा॒त्यप॑रशुवृक्ण-मे॒वास्मै᳚ स्वदयति॒ सर्व॑मस्मै
PS1.5 स्वदते॒ य ए॒वं ॅवेदौदु॑म्बरी॒मा
PS1.6 द॑धा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑
PS1.7 दधाति प्र॒जाप॑तिर॒ग्नि-म॑सृजत॒ तꣳ सृ॒ष्टꣳ
PS1.8 रक्षाꣳ॑स्य - [ ]
PS2.1 -जिघाꣳस॒न्थ्स ए॒तद्-रा᳚क्षो॒घ्नम॑पश्य॒त् तेन॒ वै
PS2.2 सरक्षाꣳ॒॒स्यपा॑ऽहत॒ यद्-रा᳚क्षो॒घ्नं भव॑त्य॒ग्नेरे॒व तेन॑
PS2.3 जा॒ताद्-रक्षाꣳ॒॒स्यप॑ ह॒न्त्याश्व॑त्थी॒मा द॑धात्यश्व॒त्थो वै
PS2.4 वन॒स्पती॑नाꣳ सपत्नसा॒हो विजि॑त्यै॒ वैक॑ङ्कती॒मा
PS2.5 द॑धाति॒ भा ए॒वाव॑ रुन्धे
PS2.6 शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सꣳशि॑तं
PS2.7 मे॒ ब्रह्मोदे॑षां बा॒हू अ॑तिर॒मित्यु॑त्त॒मे
PS2.8 औदु॑म्बरी - [ ]
PS3.1 वाचयति॒ ब्रह्म॑णै॒व क्ष॒त्रꣳ सꣳ
PS3.2 श्य॑ति क्ष॒त्रेण॒ ब्रह्म॒ तस्मा᳚द्
PS3.3 ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्यं ब्रा᳚ह्म॒णं तस्मा᳚द्-राज॒न्यो᳚
PS3.4 ब्राह्म॒णवा॒नत्य॒न्यꣳ रा॑ज॒न्यं॑ मृ॒त्युर्वा ए॒ष
PS3.5 यद॒ग्निर॒मृतꣳ॒॒ हिर॑ण्यꣳ रु॒क्ममन्त॑रं॒ प्रति॑मुञ्चते॒
PS3.6 ऽमृत॑मे॒व मृ॒त्योर॒न्तर्द्ध॑त्त॒ एक॑विꣳशतिनिर्बाधो भव॒त्येक॑विꣳशति॒र्वै
PS3.7 दे॑वलो॒का द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑
PS3.8 इ॒मे लो॒का अ॒सावा॑दि॒त्य -
PS3.9 [ ]
PS4.1 ए॑कविꣳ॒॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेभ्य॑
PS4.2 ए॒व भ्रातृ॑व्यम॒न्तरे॑ति निर्बा॒धैर्वै दे॒वा
PS4.3 असु॑रान् निर्बा॒धे॑ऽकुर्वत॒ तन्नि॑र्बा॒धानां᳚ निर्बाध॒त्वं
PS4.4 नि॑र्बा॒धी भ॑वति॒ भ्रातृ॑व्याने॒व नि॑र्बा॒धे
PS4.5 कु॑रुते सावित्रि॒या प्रति॑मुञ्चते॒ प्रसू᳚त्यै॒
PS4.6 नक्तो॒षासेत्युत्त॑रया ऽहोरा॒त्राभ्या॑मे॒वैन॒-मुद्य॑च्छते दे॒वा अ॒ग्निं
PS4.7 धा॑रयन् द्रविणो॒दा इत्या॑ह प्रा॒णा
PS4.8 वै दे॒वा द्र॑विणो॒दा अ॑होरा॒त्राभ्या॑मे॒वैन॑मु॒द्यत्य॑
PS4.9 - [ ]
PS5.1 प्रा॒णैर्दा॑धा॒रा ऽऽसी॑नः॒ प्रति॑मुञ्चते॒ तस्मा॒दासी॑नाः
PS5.2 प्र॒जाः प्रजा॑यन्ते कृष्णाजि॒नमुत्त॑रं॒ तेजो॒
PS5.3 वै हिर॑ण्यं॒ ब्रह्म॑ कृष्णाजि॒नं
PS5.4 तेज॑सा चै॒वैनं॒ ब्रह्म॑णा चोभ॒यतः॒
PS5.5 परि॑गृह्णाति॒ षडु॑द्यामꣳ शि॒क्यं॑ भवति॒
PS5.6 षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॒-मुद्य॑च्छते॒ यद्
PS5.7 द्वाद॑शोद्यामꣳ संॅवथ्स॒रेणै॒व मौ॒ञ्जं भ॑व॒त्यूर्ग्वै
PS5.8 मुञ्जा॑ ऊ॒र्जैवैनꣳ॒॒ स (
PS5.9 ) म॑र्द्धयति सुप॒र्णो॑ऽसि ग॒रुत्मा॒नित्यवे᳚क्षते
PS5.10 रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ ॅव्याच॑ष्टे॒ दिवं॑ गच्छ॒
PS5.11 सुवः॑ प॒तेत्या॑ह सुव॒र्गमे॒वैनं॑ ॅलो॒कं
PS5.12 ग॑मयति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.1.10.1 TS 5.1.10.1
न ह॑ स्म॒ वै पु॒राऽग्निरप॑रशुवृक्णं दहति॒ तद॑स्मै प्रयो॒ग ए॒वर्.षि॑रस्वदय॒द्-यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा द॑धा॒त्यप॑रशुवृक्ण-मे॒वास्मै᳚ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं ॅवेदौदु॑म्बरी॒मा द॑धा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति प्र॒जाप॑तिर॒ग्नि-म॑सृजत॒ तꣳ सृ॒ष्टꣳ रक्षाꣳ॑स्य - [ ]
पदपाठः (Word-by-word)
न । ह॒ । स्म॒ । वै । पु॒रा । अ॒ग्निः । अप॑रशुवृक्ण॒मित्यप॑रशु-वृ॒क्ण॒म् । द॒ह॒ति॒ । तत् । अ॒स्मै॒ । प्र॒यो॒ग इति॑ प्र - यो॒गः । ए॒व । ऋषिः॑ । अ॒स्व॒दय॒त् । यत् । अ॒ग्ने॒ । यानि॑ । कानि॑ । च॒ । इति॑ । स॒मिध॒मिति॑ सं - इध᳚म् । एति॑ । द॒धा॒ति॒ । अप॑रशुवृक्ण॒मित्यप॑रशु-वृ॒क्ण॒म् । ए॒व । अ॒स्मै॒ । स्व॒द॒य॒ति॒ । सर्व᳚म् । अ॒स्मै॒ । स्व॒द॒ते॒ । यः । ए॒वम् । वेद॑ । औदु॑बंरीम् । एति॑ । द॒धा॒ति॒ । ऊर्क् । वै । उ॒दु॒बंरः॑ । ऊर्ज᳚म् । ए॒व । अ॒स्मै॒ । अपीति॑ । द॒धा॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒सृ॒ज॒त॒ । तम् । सृ॒ष्टम् । रक्षाꣳ॑सि ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 न ह स्मेति ॥ अपरशुना परशुव्यतिरिक्तेन वृक्णं छिन्नम् । निष्ठायां 'ओदितश्च' इति नत्वम् । तस्यासिद्धत्वात् 'खरि च' इति चर्त्वम् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । तच्च अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपरशुवृक्णं न ददाह अस्वादुत्वात् । 'लट् स्मे' इति लट् । तदपरशुवृक्णमपि अस्मै अग्नये । यं प्रयुज्य य एव ऋषिः मन्त्रोऽस्वदयत् स्वादूकृतवान् । ष्वद स्वद आस्वादने, चुरादिरदन्तः ॥
2 कः पुनरसौ प्रयोक्तव्यः ऋषिरित्याह - यदग्न इति ॥ पञ्चभिर्मन्त्रैः पञ्चकृत्वः औदुम्बरीं समिधमादधाति अपरशुवृक्णं सर्वमप्यस्मै स्वदयति । किच य एवं वेद तस्मै च सर्वं स्वदते । औदुम्बरमिति । 'अनुदात्तादेश्च' इत्यञ् ॥
3 प्रजापतिरित्यादि ॥ राक्षोघ्नं रक्षसां हन्तुः अग्नेः स्वं 'यदग्ने यानि' इत्यादिकं सूक्तम् । 'षपूर्वहन्' इत्यल्लोपः । आश्वत्थिमिति । तिस्रो नानावृक्षीया आश्वत्थीं वैकङ्कतीं शमीमयीं इति ॥
4 समिधमादधाति - 'दंष्ट्राभ्याम्' इति । तिसृभिः सपत्नसाहः सपत्नानां अभिभविता । अश्वत्थशब्दात् 'अनुदात्तादेश्च' इत्यञ् । इतरौ व्याख्यातौ । एवं प्रथमया शत्रूणामभिभवः । द्वितीयया तेजस्वी भवति । तृतीयया शान्तिः सुखं भवति । तस्मादग्निचितः अग्निविदश्च पापं न कीर्तयेत् न चानिष्टं चिन्तयेत् इति ॥
5 संशितमित्यादि ॥ एते उत्तमे सूक्तस्य ऋचौ यजमानं वाचयति, किं कुर्वन् - औदुम्बरीसमिधौ तूष्णीमादधानः । पूर्ववदङि 'सुपां सुलुक्' इति द्वितीयाद्विवचनस्य लुक् । 'वा छन्दसि' इति वा पूर्वसवर्णः । उत्तमशब्दः उञ्छादिः अन्तोदात्तः ॥
6 ब्रह्मणैवेति ॥ ब्रह्मक्षत्रशब्दौ जातिवचनौ । संश्यति तीक्ष्णं करोति । क्षत्रेण ब्रह्म संश्यतीत्येव । तस्मादित्यादि । राजन्येन सहायेन तद्वान् ब्राह्मणोऽन्यं राजन्यं ब्राह्मणमतिक्रामति क्रियाबलेन । ससाधनक्रिया उपसर्गेणोच्यते । एतेन राजन्यो व्याख्यातः ॥
7 मृत्युर्वा इत्यादि ॥ दाहकत्वान्मृत्युरिवाग्निः । अमृतत्वहेतु र्हिरण्यम् । तस्मात् सूत्रोतं रुक्ममन्तरं निर्बाधं प्रतिमुञ्चते यजमानः । अमृतमेव कृत्वा मृत्योरन्तर्हितं करोति वृत्राहको हिरण्यजितोरो रुक्मम् ॥
8 एकविंशतिनिर्बाध इति ॥ निर्बाधः निष्फलानि । पञ्चर्तवः । हेमन्तशिशिरयोरेकत्वात् । निश्चयेन बाध्यते भ्रातृव्यः एभिरिति निर्बाधः ॥
9 सावित्रियेति ॥ 'विश्वा रूपाणि' इत्यनया शिक्यपाशं प्रतिमुञ्चते तस्यानुज्ञयेति । नक्तोषासेति । इयमपि शिक्यपाशप्रतिमोचनी । रुक्मपाशप्रतिमोचनी इत्येके । उत्तरयेति । प्रतिमुञ्चतीत्येव । अहोरात्राभ्यामेवैनमुद्यच्छते उग्राजानिदेवैर्धारितम् । 'समुदाञ्भ्यः' इत्यात्मनेपदम् ॥
10 यदुक्तं प्राणैर्दाधारेति तदाह - देवा अग्निमित्यादि ॥ द्रविणोदा द्रविणस्य दाता । छान्दसः सकारोपजनः । शब्दान्तरं वा सकारान्तं द्रष्टव्यम् । दाधारेति छान्दसो लिट् । 'तुजादीनाम्' इत्यभ्यासस्य दीर्घत्वम् ॥
11 आसीन इति ॥ रुक्मं शिक्यं च पाशं च । उत्तरमिति । रुक्मशिक्यपाशयोरुपरि उत्तरलोमेत्येके । तेजः तेजोहेतुः । ब्रह्मेति । ब्रह्मवर्चसहेतुः । उभयत इति । अन्तः बहिश्च । आद्यादिभ्यस्तसिः सश्चेति तसि लिति प्रत्ययात् पूर्वस्योदात्तत्वम् ॥
12 षडुद्याममिति ॥ उद्यामाः शिक्यपादाः । संवत्सरेणेति । उद्यछत इत्येव । मौञ्जमित्यादि । गतम् ॥
13 'सुपर्णोसि गरूत्मान्' इत्यवेक्षते ॥
14 'दिवं गच्छ सुवः पत' इत्येनं उद्गृह्णाति ॥
इति पञ्चमे प्रथमे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.1.10.2 TS 5.1.10.2
-जिघाꣳस॒न्थ्स ए॒तद्-रा᳚क्षो॒घ्नम॑पश्य॒त् तेन॒ वै सरक्षाꣳ॒॒स्यपा॑ऽहत॒ यद्-रा᳚क्षो॒घ्नं भव॑त्य॒ग्नेरे॒व तेन॑ जा॒ताद्-रक्षाꣳ॒॒स्यप॑ ह॒न्त्याश्व॑त्थी॒मा द॑धात्यश्व॒त्थो वै वन॒स्पती॑नाꣳ सपत्नसा॒हो विजि॑त्यै॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सꣳशि॑तं मे॒ ब्रह्मोदे॑षां बा॒हू अ॑तिर॒मित्यु॑त्त॒मे औदु॑म्बरी - [ ]
पदपाठः (Word-by-word)
अ॒जि॒घाꣳ॒॒स॒न्न् । सः । ए॒तत् । रा॒क्षो॒घ्नमिति॑ राक्षः-घ्नम् । अ॒प॒श्य॒त् । तेन॑ । वै । सः । रक्षाꣳ॑सि । अपेति॑ । अ॒ह॒त॒ । यत् । रा॒क्षो॒घ्नमिति॑ राक्षः - घ्नम् । भव॑ति । अ॒ग्नेः । ए॒व । तेन॑ । जा॒तात् । रक्षाꣳ॑सि । अपेति॑ । ह॒न्ति॒ । आश्व॑त्थीम् । एति॑ । द॒धा॒ति॒ । अ॒श्व॒त्थः । वै । वन॒स्पती॑नाम् । स॒प॒त्न॒सा॒ह इति॑ सपत्न - सा॒हः । विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । वैक॑ङ्कतीम् । एति॑ । द॒धा॒ति॒ । भाः । ए॒व । अवेति॑ । रु॒न्धे॒ । श॒मी॒मयी॒मिति॑ शमी - मयी᳚म् । एति॑ । द॒धा॒ति॒ । शान्त्यै᳚ । सꣳशि॑त॒मिति॒ सं-शि॒त॒म् । मे॒ । ब्रह्म॑ । उदिति॑ । ए॒षा॒म् । बा॒हू इति॑ । अ॒ति॒र॒म् । इति॑ । उ॒त्त॒मे इत्यु॑त् - त॒मे । औदु॑बंरी॒ इति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.1.10.3 TS 5.1.10.3
वाचयति॒ ब्रह्म॑णै॒व क्ष॒त्रꣳ सꣳ श्य॑ति क्ष॒त्रेण॒ ब्रह्म॒ तस्मा᳚द् ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्यं ब्रा᳚ह्म॒णं तस्मा᳚द्-राज॒न्यो᳚ ब्राह्म॒णवा॒नत्य॒न्यꣳ रा॑ज॒न्यं॑ मृ॒त्युर्वा ए॒ष यद॒ग्निर॒मृतꣳ॒॒ हिर॑ण्यꣳ रु॒क्ममन्त॑रं॒ प्रति॑मुञ्चते॒ ऽमृत॑मे॒व मृ॒त्योर॒न्तर्द्ध॑त्त॒ एक॑विꣳशतिनिर्बाधो भव॒त्येक॑विꣳशति॒र्वै दे॑वलो॒का द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य - [ ]
पदपाठः (Word-by-word)
वा॒च॒य॒ति॒ । ब्रह्म॑णा । ए॒व । क्ष॒त्रम् । समिति॑ । श्य॒ति॒ । क्ष॒त्रेण॑ । ब्रह्म॑ । तस्मा᳚त् । ब्रा॒ह्म॒णः । रा॒ज॒न्य॑वा॒निति॑ राज॒न्य॑ - वा॒न् । अतीति॑ । अ॒न्यम् । ब्रा॒ह्म॒णम् । तस्मा᳚त् । रा॒ज॒न्यः॑ । ब्रा॒ह्म॒णवा॒निति॑ ब्राह्म॒ण - वा॒न् । अतीति॑ । अ॒न्यम् । रा॒ज॒न्य᳚म् । मृ॒त्युः । वै । ए॒षः । यत् । अ॒ग्निः । अ॒मृत᳚म् । हिर॑ण्यम् । रु॒क्मम् । अन्त॑रम् । प्रतीति॑ । मु॒ञ्च॒ते॒ । अ॒मृत᳚म् । ए॒व । मृ॒त्योः । अ॒न्तः । ध॒त्ते॒ । एक॑विꣳशतिनिर्बाध॒ इत्येक॑विꣳशति - नि॒र्बा॒धः॒ । भ॒व॒ति॒ । एक॑विꣳशति॒रित्येक॑-विꣳ॒॒श॒तिः॒ । वै । दे॒व॒लो॒का इति॑ देव-लो॒काः । द्वाद॑श । मासाः᳚ । पञ्च॑ । ऋ॒तवः॑ । त्रयः॑ । इ॒मे । लो॒काः । अ॒सौ । आ॒दि॒त्यः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.1.10.4 TS 5.1.10.4
ए॑कविꣳ॒॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेभ्य॑ ए॒व भ्रातृ॑व्यम॒न्तरे॑ति निर्बा॒धैर्वै दे॒वा असु॑रान् निर्बा॒धे॑ऽकुर्वत॒ तन्नि॑र्बा॒धानां᳚ निर्बाध॒त्वं नि॑र्बा॒धी भ॑वति॒ भ्रातृ॑व्याने॒व नि॑र्बा॒धे कु॑रुते सावित्रि॒या प्रति॑मुञ्चते॒ प्रसू᳚त्यै॒ नक्तो॒षासेत्युत्त॑रया ऽहोरा॒त्राभ्या॑मे॒वैन॒-मुद्य॑च्छते दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दा इत्या॑ह प्रा॒णा वै दे॒वा द्र॑विणो॒दा अ॑होरा॒त्राभ्या॑मे॒वैन॑मु॒द्यत्य॑ - [ ]
पदपाठः (Word-by-word)
ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । ए॒ताव॑न्तः । वै । दे॒व॒लो॒का इति॑ देव - लो॒काः । तेभ्यः॑ । ए॒व । भ्रातृ॑व्यम् । अ॒न्तः । ए॒ति॒ । नि॒र्बा॒धैरिति॑ निः - बा॒धैः । वै । दे॒वाः । असु॑रान् । नि॒र्बा॒ध इति॑ निः - बा॒धे । अ॒कु॒र्व॒त॒ । तत् । नि॒र्बा॒धाना॒मिति॑ निः - बा॒धाना᳚म् । नि॒र्बा॒ध॒त्वमिति॑ निर्बाध - त्वम् । नि॒र्बा॒धीति॑ निः - बा॒धी । भ॒व॒ति॒ । भ्रातृ॑व्यान् । ए॒व । नि॒र्बा॒ध इति॑ निः - बा॒धे । कु॒रु॒ते॒ । सा॒वि॒त्रि॒या । प्रतीति॑ । मु॒ञ्च॒ते॒ । प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । नक्तो॒षासा᳚ । इति॑ । उत्त॑र॒येत्युत् - त॒र॒या॒ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । ए॒व । ए॒न॒म् । उदिति॑ । य॒च्छ॒ते॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न्न् । द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः । इति॑ । आ॒ह॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । दे॒वाः । द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । ए॒व । ए॒न॒म् । उ॒द्यत्येतु॑त्-यत्य॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.1.10.5 TS 5.1.10.5
प्रा॒णैर्दा॑धा॒रा ऽऽसी॑नः॒ प्रति॑मुञ्चते॒ तस्मा॒दासी॑नाः प्र॒जाः प्रजा॑यन्ते कृष्णाजि॒नमुत्त॑रं॒ तेजो॒ वै हिर॑ण्यं॒ ब्रह्म॑ कृष्णाजि॒नं तेज॑सा चै॒वैनं॒ ब्रह्म॑णा चोभ॒यतः॒ परि॑गृह्णाति॒ षडु॑द्यामꣳ शि॒क्यं॑ भवति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॒-मुद्य॑च्छते॒ यद् द्वाद॑शोद्यामꣳ संॅवथ्स॒रेणै॒व मौ॒ञ्जं भ॑व॒त्यूर्ग्वै मुञ्जा॑ ऊ॒र्जैवैनꣳ॒॒ स ( ) म॑र्द्धयति सुप॒र्णो॑ऽसि ग॒रुत्मा॒नित्यवे᳚क्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ ॅव्याच॑ष्टे॒ दिवं॑ गच्छ॒ सुवः॑ प॒तेत्या॑ह सुव॒र्गमे॒वैनं॑ ॅलो॒कं ग॑मयति ॥
पदपाठः (Word-by-word)
प्रा॒णैरिति॑ प्र - अ॒नैः । दा॒धा॒र॒ । आसी॑नः । प्रतीति॑ । मु॒ञ्च॒ते॒ । तस्मा᳚त् । आसी॑नाः । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । जा॒य॒न्ते॒ । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । उत्त॑र॒मित्युत् - त॒र॒म् । तेजः॑ । वै । हिर॑ण्यम् । ब्रह्म॑ । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । तेज॑सा । च॒ । ए॒व । ए॒न॒म् । ब्रह्म॑णा । च॒ । उ॒भ॒यतः॑ । परीति॑ । गृ॒ह्णा॒ति॒ । षडु॑द्याम॒मिति॒ षट् - उ॒द्या॒म॒म् । शि॒क्य᳚म् । भ॒व॒ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒न॒म् । उदिति॑ । य॒च्छ॒ते॒ । यत् । द्वाद॑शोद्याम॒मिति॒ द्वाद॑श - उ॒द्या॒म॒म् । सं॒ॅव॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ । ए॒व । मौ॒ञ्जम् । भ॒व॒ति॒ । ऊर्क् । वै । मुञ्जाः᳚ । ऊ॒र्जा । ए॒व । ए॒न॒म् । समिति॑ ( ) । अ॒द्‌र्ध॒य॒ति॒ । सु॒प॒र्ण इति॑ सु - प॒र्णः । अ॒सि॒ । ग॒रुत्मान्॑ । इति॑ । अवेति॑ । ई॒क्ष॒ते॒ । रू॒पम् । ए॒व । अ॒स्य॒ । ए॒तत् । म॒हि॒मान᳚म् । व्याच॑ष्ट॒ इति॑ वि - आच॑ष्टे । दिव᳚म् । ग॒च्छ॒ । सुवः॑ । प॒त॒ । इति॑ । आ॒ह॒ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । ए॒न॒म् । लो॒कम् । ग॒म॒य॒ति॒ ॥
पदसंख्या: 74