पञ्चशत् 1 #
न ह॑ स्म॒ वै पु॒राऽग्निरप॑रशुवृक्णं दहति॒ तद॑स्मै प्रयो॒ग ए॒वर्.षि॑रस्वदय॒द्-यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा द॑धा॒त्यप॑रशुवृक्ण-मे॒वास्मै᳚ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं ॅवेदौदु॑म्बरी॒मा द॑धा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति प्र॒जाप॑तिर॒ग्नि-म॑सृजत॒ तꣳ सृ॒ष्टꣳ रक्षाꣳ॑स्य - [ ]
पदपाठः (Word-by-word)
न । ह॒ । स्म॒ । वै । पु॒रा । अ॒ग्निः । अप॑रशुवृक्ण॒मित्यप॑रशु-वृ॒क्ण॒म् । द॒ह॒ति॒ । तत् । अ॒स्मै॒ । प्र॒यो॒ग इति॑ प्र - यो॒गः । ए॒व । ऋषिः॑ । अ॒स्व॒दय॒त् । यत् । अ॒ग्ने॒ । यानि॑ । कानि॑ । च॒ । इति॑ । स॒मिध॒मिति॑ सं - इध᳚म् । एति॑ । द॒धा॒ति॒ । अप॑रशुवृक्ण॒मित्यप॑रशु-वृ॒क्ण॒म् । ए॒व । अ॒स्मै॒ । स्व॒द॒य॒ति॒ । सर्व᳚म् । अ॒स्मै॒ । स्व॒द॒ते॒ । यः । ए॒वम् । वेद॑ । औदु॑बंरीम् । एति॑ । द॒धा॒ति॒ । ऊर्क् । वै । उ॒दु॒बंरः॑ । ऊर्ज᳚म् । ए॒व । अ॒स्मै॒ । अपीति॑ । द॒धा॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒सृ॒ज॒त॒ । तम् । सृ॒ष्टम् । रक्षाꣳ॑सि ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 न ह स्मेति ॥ अपरशुना परशुव्यतिरिक्तेन वृक्णं छिन्नम् । निष्ठायां 'ओदितश्च' इति नत्वम् । तस्यासिद्धत्वात् 'खरि च' इति चर्त्वम् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । तच्च अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपरशुवृक्णं न ददाह अस्वादुत्वात् । 'लट् स्मे' इति लट् । तदपरशुवृक्णमपि अस्मै अग्नये । यं प्रयुज्य य एव ऋषिः मन्त्रोऽस्वदयत् स्वादूकृतवान् । ष्वद स्वद आस्वादने, चुरादिरदन्तः ॥
2 कः पुनरसौ प्रयोक्तव्यः ऋषिरित्याह - यदग्न इति ॥ पञ्चभिर्मन्त्रैः पञ्चकृत्वः औदुम्बरीं समिधमादधाति अपरशुवृक्णं सर्वमप्यस्मै स्वदयति । किच य एवं वेद तस्मै च सर्वं स्वदते । औदुम्बरमिति । 'अनुदात्तादेश्च' इत्यञ् ॥
3 प्रजापतिरित्यादि ॥ राक्षोघ्नं रक्षसां हन्तुः अग्नेः स्वं 'यदग्ने यानि' इत्यादिकं सूक्तम् । 'षपूर्वहन्' इत्यल्लोपः । आश्वत्थिमिति । तिस्रो नानावृक्षीया आश्वत्थीं वैकङ्कतीं शमीमयीं इति ॥
4 समिधमादधाति - 'दंष्ट्राभ्याम्' इति । तिसृभिः सपत्नसाहः सपत्नानां अभिभविता । अश्वत्थशब्दात् 'अनुदात्तादेश्च' इत्यञ् । इतरौ व्याख्यातौ । एवं प्रथमया शत्रूणामभिभवः । द्वितीयया तेजस्वी भवति । तृतीयया शान्तिः सुखं भवति । तस्मादग्निचितः अग्निविदश्च पापं न कीर्तयेत् न चानिष्टं चिन्तयेत् इति ॥
5 संशितमित्यादि ॥ एते उत्तमे सूक्तस्य ऋचौ यजमानं वाचयति, किं कुर्वन् - औदुम्बरीसमिधौ तूष्णीमादधानः । पूर्ववदङि 'सुपां सुलुक्' इति द्वितीयाद्विवचनस्य लुक् । 'वा छन्दसि' इति वा पूर्वसवर्णः । उत्तमशब्दः उञ्छादिः अन्तोदात्तः ॥
6 ब्रह्मणैवेति ॥ ब्रह्मक्षत्रशब्दौ जातिवचनौ । संश्यति तीक्ष्णं करोति । क्षत्रेण ब्रह्म संश्यतीत्येव । तस्मादित्यादि । राजन्येन सहायेन तद्वान् ब्राह्मणोऽन्यं राजन्यं ब्राह्मणमतिक्रामति क्रियाबलेन । ससाधनक्रिया उपसर्गेणोच्यते । एतेन राजन्यो व्याख्यातः ॥
7 मृत्युर्वा इत्यादि ॥ दाहकत्वान्मृत्युरिवाग्निः । अमृतत्वहेतु र्हिरण्यम् । तस्मात् सूत्रोतं रुक्ममन्तरं निर्बाधं प्रतिमुञ्चते यजमानः । अमृतमेव कृत्वा मृत्योरन्तर्हितं करोति वृत्राहको हिरण्यजितोरो रुक्मम् ॥
8 एकविंशतिनिर्बाध इति ॥ निर्बाधः निष्फलानि । पञ्चर्तवः । हेमन्तशिशिरयोरेकत्वात् । निश्चयेन बाध्यते भ्रातृव्यः एभिरिति निर्बाधः ॥
9 सावित्रियेति ॥ 'विश्वा रूपाणि' इत्यनया शिक्यपाशं प्रतिमुञ्चते तस्यानुज्ञयेति । नक्तोषासेति । इयमपि शिक्यपाशप्रतिमोचनी । रुक्मपाशप्रतिमोचनी इत्येके । उत्तरयेति । प्रतिमुञ्चतीत्येव । अहोरात्राभ्यामेवैनमुद्यच्छते उग्राजानिदेवैर्धारितम् । 'समुदाञ्भ्यः' इत्यात्मनेपदम् ॥
10 यदुक्तं प्राणैर्दाधारेति तदाह - देवा अग्निमित्यादि ॥ द्रविणोदा द्रविणस्य दाता । छान्दसः सकारोपजनः । शब्दान्तरं वा सकारान्तं द्रष्टव्यम् । दाधारेति छान्दसो लिट् । 'तुजादीनाम्' इत्यभ्यासस्य दीर्घत्वम् ॥
11 आसीन इति ॥ रुक्मं शिक्यं च पाशं च । उत्तरमिति । रुक्मशिक्यपाशयोरुपरि उत्तरलोमेत्येके । तेजः तेजोहेतुः । ब्रह्मेति । ब्रह्मवर्चसहेतुः । उभयत इति । अन्तः बहिश्च । आद्यादिभ्यस्तसिः सश्चेति तसि लिति प्रत्ययात् पूर्वस्योदात्तत्वम् ॥
12 षडुद्याममिति ॥ उद्यामाः शिक्यपादाः । संवत्सरेणेति । उद्यछत इत्येव । मौञ्जमित्यादि । गतम् ॥
13 'सुपर्णोसि गरूत्मान्' इत्यवेक्षते ॥
14 'दिवं गच्छ सुवः पत' इत्येनं उद्गृह्णाति ॥
इति पञ्चमे प्रथमे दशमोनुवाकः ॥