पञ्चशत् 1 #
स॒प्तभि॑र्द्धूपयति स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णाः शिर॑ ए॒तद्-य॒ज्ञ्स्य॒ यदु॒खा शी॒र्.॒षन्ने॒व य॒ज्ञ्स्य॑ प्रा॒णान् द॑धाति॒ तस्मा᳚थ् स॒प्त शी॒र्.॒षन् प्रा॒णा अ॑श्वश॒केन॑ धूपयति प्राजाप॒त्यो वा अश्वः॑ सयोनि॒त्वाया-दि॑ति॒स्त्वेत्या॑हे॒यं ॅवा अदि॑ति॒रदि॑त्यै॒वादि॑त्यां खनत्य॒स्या अक्रू॑रंकाराय॒ न हि स्वः स्वꣳ हि॒नस्ति॑ दे॒वानां᳚ त्वा॒ पत्नी॒रित्या॑ह दे॒वानां॒ - [ ]
पदपाठः (Word-by-word)
स॒प्तभि॒रिति॑ स॒प्त - भिः॒ । धू॒प॒य॒ति॒ । स॒प्त । वै । शी॒र्॒.ष॒ण्याः᳚ । प्रा॒णा इति॑ प्र - अ॒नाः । शिरः॑ । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । उ॒खा । शी॒र्॒.षन्न् । ए॒व । य॒ज्ञ्स्य॑ । प्रा॒णानिति॑ प्र - अ॒नान् । द॒धा॒ति॒ । तस्मा᳚त् । स॒प्त । शी॒र॒.षन्न् । प्रा॒णा इति॑ प्र - अ॒नाः । अ॒श्व॒श॒केनेत्य॑श्व-श॒केन॑ । धू॒प॒य॒ति॒ । प्रा॒जा॒प॒त्य इति॑ प्राजा-प॒त्यः । वै । अश्वः॑ । स॒यो॒नि॒त्वायेति॑ सयोनि-त्वाय॑ । अदि॑तिः । त्वा॒ । इति॑ । आ॒ह॒ । इ॒यम् । वै । अदि॑तिः । अदि॑त्या । ए॒व । अदि॑त्याम् । ख॒न॒ति॒ । अ॒स्याः । अक्रू॑रंकारा॒येत्यक्रू॑रं - का॒रा॒य॒ । न । हि । स्वः । स्वम् । हि॒नस्ति॑ । दे॒वाना᳚म् । त्वा॒ । पत्नीः᳚ । इति॑ । आ॒ह॒ । दे॒वाना᳚म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सप्तभिरिति ॥ 'वसवस्त्वा धूपयन्तु' इत्यादिभिः अश्वशकेन दीप्तेन उखां धूपयति । झल्युपोत्तमस्य उदात्तत्वम् । सप्त वा इति । चक्षुषी श्रोत्रे नासिके आस्यमिति । 'ये च तद्धिते' इति शीर्षन्भावः । शिर इति प्राधान्यात् । शीर्षन्निति । 'सुपां सुलुक्' इति ङेर्लुक् । 'शीर्षन् छन्दसि' इति शीर्षन्नादेशः । अश्वशकेनेत्यादि । शकं वालम् । शकृदित्येके । योनिः कारणं सर्वस्य प्रजापतिस्तेन सहितं धूपनं भवति ॥
2 अदितिस्त्वेति ॥ अवटं खानयति पृथिव्या अक्रूरंकारणार्थं पृथिव्यैव पृथिवीं चखानेति न हि आत्मानं हिनस्ति । तेनाध्वर्योर्नापराधः । करोतेः छान्दसः खञ् । 'देवानां त्वा' इत्यवटे उखां प्रवृणक्ति पत्नय इति । छान्दसं ङीपो ह्रस्वत्वम् ॥
3 धिषणास्त्वेति पुरस्ताद्दीपयति ॥ धिषणा इति । 'धृषेर्धिष्च संज्ञायाम्' इति क्युप्रत्ययः । ग्नास्त्वेति । दक्षिणत उपोषति । वरूत्रय इति । तृचि ग्रसितस्कभितादौ निपात्यते । छान्दसं ङीपो ह्रस्वत्वम् । होत्रादयः सप्त होत्राः । जनयस्त्वेति उत्तरतः । पत्नीरिति । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । अत्र वरूत्रय इति युष्मच्छब्दोपादानेन 'त्वा देवी' इत्यादेः उभयत्र सम्बन्धं दर्शयति ॥
4 षड्भिरिति ।'अदितिस्त्वा' इत्याद्यैः 'जनयस्त्वा' इत्यन्तैः । उदकाभरणावटखननस्यापि यागार्थत्वात् । 'षट्त्रिचतुर्भ्यः' इति विभक्तेरुदात्तत्वम् । द्विरिति । पञ्चमषष्ठयोः । पचन्त्विति द्विराहेति नानावाक्यत्वात् निघाताभावः, समानवाक्ये पदात्परस्य निघातादिविधानात् । पच्यत इति कर्मकर्तरि यक् ॥
5 वारुणी वरुणिमन् वरुणस्वभावान्मैत्र्येति । अभीद्धेति । इतरमुखां मित्रो भवति [मित्रो भव' इति] परिगृह्णाति न 'वरुणः' इति । तेन वरुणगृहीतत्वाभावः । देवसवेति मुख्याया उखायाः अङ्गानि अनूद्वपति ॥
6 अपद्यमानेति ॥ पूर्वेणार्धर्चेन अशने प्रतिष्ठापयति, उत्तरेण च श्रपयति ॥
7 असुर्यमिति ॥ अनाच्छृण्णं यदभीद्धं पात्रं पयःप्रभृत्यासेचनेन दीप्तं तदसुर्यं असुरस्य स्वाम्यात् । 'असुररय स्वम्' इति यत् । उ छृदिर् दीप्तिदीपनयोः, रौधादिकः ।आछृणत्ति छागादिपयसा दीपयति उखाम् । देवत्राऽकरिति । देवाधीनमेव करोति । 'देये त्रा च' इति त्राप्रत्ययः । करोतेः छान्दसे लुङि 'मन्त्रे घस' इति च्लेर्लुक् । परमेणेति । परमं पयोऽमृतम् । यजुषेति । आच्छृणत्तीत्येव 'वसवस्त्वा'च्छृन्दन्तु' इत्यादिकेन । छन्दोभिर्वा एषा क्रियत इति । 'वसवस्त्वा कृण्वन्तु' इति ॥
इति पञ्चमे प्रथमे सप्तमोऽनुवाकः ॥