पञ्चशत् 1 #
व्यृ॑द्धं॒ ॅवा ए॒तद्-य॒ज्ञ्स्य॒ यद॑य॒जुष्के॑ण क्रि॒यत॑ इ॒माम॑गृभ्णन् रश॒ना-मृ॒तस्येत्य॑श्वाभि॒धानी॒मा द॑त्ते॒ यजु॑ष्कृत्यै य॒ज्ञ्स्य॒ समृ॑द्ध्यै॒ प्रतू᳚र्तं ॅवाजि॒न्ना द्र॒वेत्यश्व॑म॒भि द॑धाति रू॒पमे॒वास्यै॒तन् म॑हि॒मानं॒ ॅव्याच॑ष्टे यु॒ञ्जाथाꣳ॒॒ रास॑भं ॅयु॒वमिति॑ गर्द॒भमसे॑त्ये॒व ग॑र्द॒भं प्रति॑ ष्ठापयति॒ तस्मा॒दश्वा᳚द्-गर्द॒भोऽस॑त्तरो॒ योगे॑योगे त॒वस्त॑र॒मित्या॑ह॒ - [ ]
पदपाठः (Word-by-word)
व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । अ॒य॒जुष्के॒णेत्य॑य॒जुः-के॒न॒ । क्रि॒यते᳚ । इ॒माम् । अ॒गृ॒भ्ण॒न्न् । र॒श॒नाम् । ऋ॒तस्य॑ । इति॑ । अ॒श्वा॒भि॒धानी॒मित्य॑श्व - अ॒भि॒धानी᳚म् । एति॑ । द॒त्ते॒ । यजु॑ष्कृत्या॒ इति॒ यजुः॑-कृ॒त्यै॒ । य॒ज्ञ्स्य॑ । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । प्रतू᳚र्त॒मिति॒ प्र - तू॒र्त॒म् । वा॒जि॒न्न् । एति॑ । द्र॒व॒ । इति॑ । अश्व᳚म् । अ॒भीति॑ । द॒धा॒ति॒ । रू॒पम् । ए॒व । अ॒स्य॒ । ए॒तत् । म॒हि॒मान᳚म् । व्याच॑ष्ट॒ इति॑ वि - आच॑ष्टे । यु॒ञ्जाथा᳚म् । रास॑भम् । यु॒वम् । इति॑ । ग॒र्द॒भम् । अस॑ति । ए॒व । ग॒र्द॒भम् । प्रतीति॑ । स्था॒प॒य॒ति॒ । तस्मा᳚त् । अश्वा᳚त् । ग॒र्द॒भः । अस॑त्तर॒ इत्यस॑त् - त॒रः॒ । योगे॑योग॒ इति॒ योगे᳚ - यो॒गे॒ । त॒वस्त॑र॒मिति॑ त॒वः - त॒र॒म् । इति॑ । आ॒ह॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 व्यृद्धमित्यादि ॥ व्यृद्धं वृद्धिहीनमेतत्कर्म यत् अयजुष्केण अमन्त्रकेण अङ्गेन क्रियते । कमण्यपि निष्ठायाः 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । व्यृद्धमिति । 'उदात्तस्वरितयोर्यणः' इति ऋकारस्स्वर्यते । इमामित्यादि । अश्वाभिधानीं अश्वबन्धिनीं रशनां यजुष्कृत्यै यजुषा कृतत्वाय । प्रतूर्तमित्यादि । गतम् ॥
2 अग्निर्देवेभ्य इत्यादि ॥ देवेभ्योपक्रान्तमग्निं प्रजापतिरन्वविन्दत् अन्विष्य लब्धवान् । अश्वोयं प्राजापत्यः । तस्मादश्वेन संभरणं अग्नेर्लाभाय भवति ॥
3 पापवस्यसमित्यादि ॥ पापेन वसीयसं वसुमत्तरं पापेनैव वसुनास्तीति विन्मतोर्लुक् । यद्वा - पापं वसु यस्य स पापवसुः, तस्मात् आतिशायिनिकः 'टेः' इति टिलोपः, छान्दस ईकारलोपः, 'अनसन्तान्नपुंसकात्' इत्यच्समासान्तः । यद्वा - पापं च शुभं च सह क्रियते इति तद्व्यावृत्तिः विभागः ॥
4 बहुर्वा इत्यादि ॥ भवतः भूतिं लिप्समानस्य बहुः भ्रातृव्यः अनेको बाधकः यश्चाग्निं चिनुते अयमपि भवति भवत्येव तस्मात् बहुभ्रातृव्यः यज्ञार्थं यज्ञात्मानं अश्वं पूर्वं नीयमानं प्रतूर्वन् एहीत्यनुमन्त्रयते । ततो वज्रेणैव पाप्मानं भ्रातृयं अवक्रामति अवष्टभ्य हिनस्ति, मन्त्रलिङ्गं च 'अवक्रामन्नशस्तीः' इति । अशस्तयः अकीर्तयः । भ्रातृशब्दात् 'व्यन् सपत्ने' इति व्यन्प्रत्ययः । रुद्रस्येत्यादि । गतम् ॥
5 पूष्णा सयुजेति ॥ गर्दभस्यानीयमानस्य अनुमन्त्रणम् । सन्नेता सम्यक्प्रवर्तयिता समष्ट्यै सम्यक्प्राप्त्यै गन्तव्यस्य । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । पुरीषायतन इत्यादि । पुरीषं मृदं आयतनमस्येति तेनाग्निः पुरीष्यमित्युच्यते । अङ्गिरस्वत् 'नभोङ्गिरोमनुषाम्' इति वत्वम्, अङ्गिरोभिस्तद्वत्, 'तसौ मत्त्वर्थे' इति भत्वम् । देवताभिरङ्गिरोभिश्च संभरति । येनेत्यादि । अच्छेहीति अभिसंप्राप्तुं गच्छेति दर्शनात् प्रतिगच्छन् येन संगच्छते प्रष्ट्रा किमच्छेहीति तं प्रति 'अग्निं पुरीष्यं अञ्गिरस्वदच्छेमः' इत्युत्तरं ब्रूयात् । वाजमेवास्य वृङ्क्ते ॥
6 प्रजापतय इत्यादि ॥ प्रतिप्रोच्य निवेद्य । तस्योत्तरमाह - वाजमेवास्य वृङ्क्ते इति ॥
7 अथ उपातियन्ति - अन्वग्निरुषसामग्रमख्यदिति ॥ अनुख्यात्यै अनुक्रमेण ख्यात्यर्थं 'आगत्य' 'आक्रम्य' इति द्वाभ्यां अश्वेन प्राया मृदमाक्रमयति । तत्राग्निं पूर्वया इच्छति, उत्तरया विन्दति । द्वाभ्यामा क्रमयतीति । प्रतिष्ठार्थमनुरूपाभ्यां आक्रमयतीत्येव । 'आगत्य वाज्यध्वनः' 'आक्रम्य वाजिन्पृथिवीम्' इति दर्शनात् अनुरूपत्वमनयोः । तस्मात् अनुरूपा जनयित्र्यः प्रजा जायन्ते पशवः ॥
8 द्यौस्ते पृष्ठमिति - अश्वस्य पृष्ठं संमृज्यते ॥ एभ्यो वा इत्यादि । गतम् । वज्री वा इत्यादि । गतम् । अन्यतोदद्भ्यः दद्भिः भूयान् बहुतरः उभयतोदत्त्वात् । अथोभयतोदद्भ्यो लोमभिर्भूयान् बहुतरलोमत्वात् । अन्यतरस्मिन् भागे उपरि अधो वा दन्ताः येषां ते अन्यतोदद्भ्यः, 'छन्दसि वा' इति दद्भावः, उभयोः दन्ता येषामिति पूर्ववद्दद्भावः, 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । पदस्याधस्तात् अधस्पदं, तिष्ठद्गुप्रभृति 'अधश्शिरसी पदे' इति सत्वम् । वज्रेणैव एनं स्तृणुते छादयति विनाशयति ॥
इति पञ्चमे प्रथमे द्वितीयोनुवाकः ॥