अनुवाकः 2 TS 5.1.2

(A2)

(आ॒ह॒ - पापी॑यान् - रु॒द्रादे॒व - येना - ऽग्रं॑ - ॅव॒ज्री वै - स॒प्तद॑श च)

अनुवाकः 2 - Complete Audio

TS 5.1.2 - स्वरानुगामी

0:00 0:00
PS1.1 व्यृ॑द्धं॒ ॅवा ए॒तद्-य॒ज्ञ्स्य॒ यद॑य॒जुष्के॑ण
PS1.2 क्रि॒यत॑ इ॒माम॑गृभ्णन् रश॒ना-मृ॒तस्येत्य॑श्वाभि॒धानी॒मा द॑त्ते॒
PS1.3 यजु॑ष्कृत्यै य॒ज्ञ्स्य॒ समृ॑द्ध्यै॒ प्रतू᳚र्तं
PS1.4 ॅवाजि॒न्ना द्र॒वेत्यश्व॑म॒भि द॑धाति रू॒पमे॒वास्यै॒तन्
PS1.5 म॑हि॒मानं॒ ॅव्याच॑ष्टे यु॒ञ्जाथाꣳ॒॒ रास॑भं
PS1.6 ॅयु॒वमिति॑ गर्द॒भमसे॑त्ये॒व ग॑र्द॒भं प्रति॑
PS1.7 ष्ठापयति॒ तस्मा॒दश्वा᳚द्-गर्द॒भोऽस॑त्तरो॒ योगे॑योगे त॒वस्त॑र॒मित्या॑ह॒
PS1.8 - [ ]
PS2.1 योगे॑योग ए॒वैनं॑ ॅयुङ्क्ते॒ वाजे॑वाजे
PS2.2 हवामह॒ इत्या॒हान्नं॒ ॅवै वाजो-ऽन्न॑मे॒वाव॑
PS2.3 रुन्धे॒ सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑हेन्द्रि॒यमे॒वाव॑
PS2.4 रुन्धे॒ ऽग्निर्दे॒वेभ्यो॒ निला॑यत॒ तं
PS2.5 प्र॒जाप॑ति॒रन्व॑विन्दत् प्राजाप॒त्योऽश्वो ऽश्वे॑न॒ सं
PS2.6 भ॑र॒त्यनु॑वित्त्यै पापवस्य॒सं ॅवा ए॒तत्
PS2.7 क्रि॑यते॒ यच्छ्रेय॑सा च॒ पापी॑यसा
PS2.8 च समा॒नं कर्म॑ कु॒र्वन्ति॒
PS2.9 पापी॑या॒न्॒. - [ ]
PS3.1 ह्यश्वा᳚द्-गर्द॒भोऽश्वं॒ पूर्वं॑ नयन्ति पापवस्य॒-सस्य॒
PS3.2 व्यावृ॑त्त्यै॒ तस्मा॒च्छ्रेयाꣳ॑सं॒ पापी॑यान् प॒श्चादन्वे॑ति
PS3.3 ब॒हुर्वै भव॑तो॒ भ्रातृ॑व्यो॒ भव॑तीव॒
PS3.4 खलु॒ वा ए॒ष यो᳚ऽग्निं
PS3.5 चि॑नु॒ते व॒ज्र्यश्वः॑ प्र॒तूर्व॒न्नेह्य॑व॒-क्राम॒न्न-श॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व
PS3.6 पा॒प्मानं॒ भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒
PS3.7 गाण॑पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑
PS3.8 रु॒द्रादे॒व - [ ]
PS4.1 प॒शून् नि॒र्याच्या॒ऽऽ*त्मने॒ कर्म॑ कुरुते
PS4.2 पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह पू॒षा
PS4.3 वा अद्ध्व॑नाꣳ सन्ने॒ता सम॑ष्ट्यै॒
PS4.4 पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निरङ्गि॑रसो॒
PS4.5 वा ए॒तमग्रे॑ दे॒वता॑नाꣳ॒॒ सम॑भरन्
PS4.6 पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑-मङ्गिर॒स्व-दच्छे॒हीत्या॑ह॒ साय॑तनमे॒वैनं॑
PS4.7 दे॒वता॑भिः॒ सं भ॑रत्य॒ग्निं पु॑री॒ष्य॑-मङ्गिर॒स्व-
PS4.8 दच्छे॑म॒ इत्या॑ह॒ येन॑ -
PS4.9 [ ]
PS5.1 स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते प्र॒जाप॑तये
PS5.2 प्रति॒प्रोच्या॒ग्निः स॒म्भृत्य॒ इत्या॑हुरि॒यं ॅवै
PS5.3 प्र॒जाप॑ति॒स्तस्या॑ ए॒तच्छ्रोत्रं॒ ॅयद्व॒ल्मीको॒ऽग्निं पु॑री॒ष्य॑-मङ्गिर॒स्वद्-भ॑रिष्याम॒
PS5.4 इति॑ वल्मीकव॒पामुप॑ तिष्ठते सा॒क्षादे॒व
PS5.5 प्र॒जाप॑तये प्रति॒प्रोच्या॒ऽग्निꣳ सं भ॑रत्य॒ग्निं
PS5.6 पु॑री॒ष्य॑-मङ्गिर॒स्वद्-भ॑राम॒ इत्या॑ह॒ येन॑ स॒गंच्छ॑ते॒
PS5.7 वाज॑मे॒वास्य॑ वृ॒ङ्क्ते ऽन्व॒ग्निरु॒षसा॒मग्र॑ -
PS5.8 [ ]
PS6.1 मख्य॒दित्या॒हा-नु॑ख्यात्या आ॒गत्य॑ वा॒ज्यद्ध्व॑न आ॒क्रम्य॑
PS6.2 वाजिन् पृथि॒वीमित्या॑हे॒च्छत्ये॒वैनं॒ पूर्व॑या वि॒न्दत्युत्त॑रया॒
PS6.3 द्वाभ्या॒मा क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्यां॒
PS6.4 तस्मा॒दनु॑रूपाः प॒शवः॒ प्रजा॑यन्ते॒ द्यौस्ते॑
PS6.5 पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॒मित्या॑है॒भ्यो वा
PS6.6 ए॒तं ॅलो॒केभ्यः॑ प्र॒जाप॑तिः॒ समै॑रयद्
PS6.7 रू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒ ॅव्याच॑ष्टे व॒ज्री वा
PS6.8 ( ) ए॒ष यदश्वो॑
PS6.9 द॒द्-भिर॒न्यतो॑दद्भ्यो॒ भूयां॒ ॅलोम॑भिरुभ॒याद॑द्भ्यो॒ यं
PS6.10 द्वि॒ष्यात् तम॑धस्प॒दं ध्या॑ये॒द्-वज्रे॑णै॒वैनꣳ॑ स्तृणुते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.1.2.1 TS 5.1.2.1
व्यृ॑द्धं॒ ॅवा ए॒तद्-य॒ज्ञ्स्य॒ यद॑य॒जुष्के॑ण क्रि॒यत॑ इ॒माम॑गृभ्णन् रश॒ना-मृ॒तस्येत्य॑श्वाभि॒धानी॒मा द॑त्ते॒ यजु॑ष्कृत्यै य॒ज्ञ्स्य॒ समृ॑द्ध्यै॒ प्रतू᳚र्तं ॅवाजि॒न्ना द्र॒वेत्यश्व॑म॒भि द॑धाति रू॒पमे॒वास्यै॒तन् म॑हि॒मानं॒ ॅव्याच॑ष्टे यु॒ञ्जाथाꣳ॒॒ रास॑भं ॅयु॒वमिति॑ गर्द॒भमसे॑त्ये॒व ग॑र्द॒भं प्रति॑ ष्ठापयति॒ तस्मा॒दश्वा᳚द्-गर्द॒भोऽस॑त्तरो॒ योगे॑योगे त॒वस्त॑र॒मित्या॑ह॒ - [ ]
पदपाठः (Word-by-word)
व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । अ॒य॒जुष्के॒णेत्य॑य॒जुः-के॒न॒ । क्रि॒यते᳚ । इ॒माम् । अ॒गृ॒भ्ण॒न्न् । र॒श॒नाम् । ऋ॒तस्य॑ । इति॑ । अ॒श्वा॒भि॒धानी॒मित्य॑श्व - अ॒भि॒धानी᳚म् । एति॑ । द॒त्ते॒ । यजु॑ष्कृत्या॒ इति॒ यजुः॑-कृ॒त्यै॒ । य॒ज्ञ्स्य॑ । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । प्रतू᳚र्त॒मिति॒ प्र - तू॒र्त॒म् । वा॒जि॒न्न् । एति॑ । द्र॒व॒ । इति॑ । अश्व᳚म् । अ॒भीति॑ । द॒धा॒ति॒ । रू॒पम् । ए॒व । अ॒स्य॒ । ए॒तत् । म॒हि॒मान᳚म् । व्याच॑ष्ट॒ इति॑ वि - आच॑ष्टे । यु॒ञ्जाथा᳚म् । रास॑भम् । यु॒वम् । इति॑ । ग॒र्द॒भम् । अस॑ति । ए॒व । ग॒र्द॒भम् । प्रतीति॑ । स्था॒प॒य॒ति॒ । तस्मा᳚त् । अश्वा᳚त् । ग॒र्द॒भः । अस॑त्तर॒ इत्यस॑त् - त॒रः॒ । योगे॑योग॒ इति॒ योगे᳚ - यो॒गे॒ । त॒वस्त॑र॒मिति॑ त॒वः - त॒र॒म् । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 व्यृद्धमित्यादि ॥ व्यृद्धं वृद्धिहीनमेतत्कर्म यत् अयजुष्केण अमन्त्रकेण अङ्गेन क्रियते । कमण्यपि निष्ठायाः 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । व्यृद्धमिति । 'उदात्तस्वरितयोर्यणः' इति ऋकारस्स्वर्यते । इमामित्यादि । अश्वाभिधानीं अश्वबन्धिनीं रशनां यजुष्कृत्यै यजुषा कृतत्वाय । प्रतूर्तमित्यादि । गतम् ॥
2 अग्निर्देवेभ्य इत्यादि ॥ देवेभ्योपक्रान्तमग्निं प्रजापतिरन्वविन्दत् अन्विष्य लब्धवान् । अश्वोयं प्राजापत्यः । तस्मादश्वेन संभरणं अग्नेर्लाभाय भवति ॥
3 पापवस्यसमित्यादि ॥ पापेन वसीयसं वसुमत्तरं पापेनैव वसुनास्तीति विन्मतोर्लुक् । यद्वा - पापं वसु यस्य स पापवसुः, तस्मात् आतिशायिनिकः 'टेः' इति टिलोपः, छान्दस ईकारलोपः, 'अनसन्तान्नपुंसकात्' इत्यच्समासान्तः । यद्वा - पापं च शुभं च सह क्रियते इति तद्व्यावृत्तिः विभागः ॥
4 बहुर्वा इत्यादि ॥ भवतः भूतिं लिप्समानस्य बहुः भ्रातृव्यः अनेको बाधकः यश्चाग्निं चिनुते अयमपि भवति भवत्येव तस्मात् बहुभ्रातृव्यः यज्ञार्थं यज्ञात्मानं अश्वं पूर्वं नीयमानं प्रतूर्वन् एहीत्यनुमन्त्रयते । ततो वज्रेणैव पाप्मानं भ्रातृयं अवक्रामति अवष्टभ्य हिनस्ति, मन्त्रलिङ्गं च 'अवक्रामन्नशस्तीः' इति । अशस्तयः अकीर्तयः । भ्रातृशब्दात् 'व्यन् सपत्ने' इति व्यन्प्रत्ययः । रुद्रस्येत्यादि । गतम् ॥
5 पूष्णा सयुजेति ॥ गर्दभस्यानीयमानस्य अनुमन्त्रणम् । सन्नेता सम्यक्प्रवर्तयिता समष्ट्यै सम्यक्प्राप्त्यै गन्तव्यस्य । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । पुरीषायतन इत्यादि । पुरीषं मृदं आयतनमस्येति तेनाग्निः पुरीष्यमित्युच्यते । अङ्गिरस्वत् 'नभोङ्गिरोमनुषाम्' इति वत्वम्, अङ्गिरोभिस्तद्वत्, 'तसौ मत्त्वर्थे' इति भत्वम् । देवताभिरङ्गिरोभिश्च संभरति । येनेत्यादि । अच्छेहीति अभिसंप्राप्तुं गच्छेति दर्शनात् प्रतिगच्छन् येन संगच्छते प्रष्ट्रा किमच्छेहीति तं प्रति 'अग्निं पुरीष्यं अञ्गिरस्वदच्छेमः' इत्युत्तरं ब्रूयात् । वाजमेवास्य वृङ्क्ते ॥
6 प्रजापतय इत्यादि ॥ प्रतिप्रोच्य निवेद्य । तस्योत्तरमाह - वाजमेवास्य वृङ्क्ते इति ॥
7 अथ उपातियन्ति - अन्वग्निरुषसामग्रमख्यदिति ॥ अनुख्यात्यै अनुक्रमेण ख्यात्यर्थं 'आगत्य' 'आक्रम्य' इति द्वाभ्यां अश्वेन प्राया मृदमाक्रमयति । तत्राग्निं पूर्वया इच्छति, उत्तरया विन्दति । द्वाभ्यामा क्रमयतीति । प्रतिष्ठार्थमनुरूपाभ्यां आक्रमयतीत्येव । 'आगत्य वाज्यध्वनः' 'आक्रम्य वाजिन्पृथिवीम्' इति दर्शनात् अनुरूपत्वमनयोः । तस्मात् अनुरूपा जनयित्र्यः प्रजा जायन्ते पशवः ॥
8 द्यौस्ते पृष्ठमिति - अश्वस्य पृष्ठं संमृज्यते ॥ एभ्यो वा इत्यादि । गतम् । वज्री वा इत्यादि । गतम् । अन्यतोदद्भ्यः दद्भिः भूयान् बहुतरः उभयतोदत्त्वात् । अथोभयतोदद्भ्यो लोमभिर्भूयान् बहुतरलोमत्वात् । अन्यतरस्मिन् भागे उपरि अधो वा दन्ताः येषां ते अन्यतोदद्भ्यः, 'छन्दसि वा' इति दद्भावः, उभयोः दन्ता येषामिति पूर्ववद्दद्भावः, 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । पदस्याधस्तात् अधस्पदं, तिष्ठद्गुप्रभृति 'अधश्शिरसी पदे' इति सत्वम् । वज्रेणैव एनं स्तृणुते छादयति विनाशयति ॥
इति पञ्चमे प्रथमे द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 5.1.2.2 TS 5.1.2.2
योगे॑योग ए॒वैनं॑ ॅयुङ्क्ते॒ वाजे॑वाजे हवामह॒ इत्या॒हान्नं॒ ॅवै वाजो-ऽन्न॑मे॒वाव॑ रुन्धे॒ सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑हेन्द्रि॒यमे॒वाव॑ रुन्धे॒ ऽग्निर्दे॒वेभ्यो॒ निला॑यत॒ तं प्र॒जाप॑ति॒रन्व॑विन्दत् प्राजाप॒त्योऽश्वो ऽश्वे॑न॒ सं भ॑र॒त्यनु॑वित्त्यै पापवस्य॒सं ॅवा ए॒तत् क्रि॑यते॒ यच्छ्रेय॑सा च॒ पापी॑यसा च समा॒नं कर्म॑ कु॒र्वन्ति॒ पापी॑या॒न्॒. - [ ]
पदपाठः (Word-by-word)
योगे॑योग॒ इति॒ योगे᳚ - यो॒गे॒ । ए॒व । ए॒न॒म् । यु॒ङ्क्ते॒ । वाजे॑वाज॒ इति॒ वाजे᳚- वा॒जे॒ । ह॒वा॒म॒हे॒ । इति॑ । आ॒ह॒ । अन्न᳚म् । वै । वाजः॑ । अन्न᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । सखा॑यः । इन्द्र᳚म् । ऊ॒तये᳚ । इति॑ । आ॒ह॒ । इ॒न्द्रि॒यम् । ए॒व । अवेति॑ । रु॒न्धे॒ । अ॒ग्निः । दे॒वेभ्यः॑ । निला॑यत । तम् । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । अन्विति॑ । अ॒वि॒न्द॒त् । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । अश्वः॑ । अश्वे॑न । समिति॑ । भ॒र॒ति॒ । अनु॑वित्त्या॒ इत्यनु॑ - वि॒त्त्यै॒ । पा॒प॒व॒स्य॒समिति॑ पाप - व॒स्य॒सम् । वै । ए॒तत् । क्रि॒य॒ते॒ । यत् । श्रेय॑सा । च॒ । पापी॑यसा । च॒ । स॒मा॒नम् । कर्म॑ । कु॒र्वन्ति॑ । पापी॑यान् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.1.2.3 TS 5.1.2.3
ह्यश्वा᳚द्-गर्द॒भोऽश्वं॒ पूर्वं॑ नयन्ति पापवस्य॒-सस्य॒ व्यावृ॑त्त्यै॒ तस्मा॒च्छ्रेयाꣳ॑सं॒ पापी॑यान् प॒श्चादन्वे॑ति ब॒हुर्वै भव॑तो॒ भ्रातृ॑व्यो॒ भव॑तीव॒ खलु॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते व॒ज्र्यश्वः॑ प्र॒तूर्व॒न्नेह्य॑व॒-क्राम॒न्न-श॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व पा॒प्मानं॒ भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒ गाण॑पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑ रु॒द्रादे॒व - [ ]
पदपाठः (Word-by-word)
हि । अश्वा᳚त् । ग॒र्द॒भः । अश्व᳚म् । पूर्व᳚म् । न॒य॒न्ति॒ । पा॒प॒व॒स्य॒सस्येति॑ पाप - व॒स्य॒सस्य॑ । व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै । तस्मा᳚त् । श्रेयाꣳ॑सम् । पापी॑यान् । प॒श्चात् । अन्विति॑ । ए॒ति॒ । ब॒हुः । वै । भव॑तः । भ्रातृ॑व्यः । भव॑ति । इ॒व॒ । खलु॑ । वै । ए॒षः । यः । अ॒ग्निम् । चि॒नु॒ते । व॒ज्री । अश्वः॑ । प्र॒तूर्व॒न्निति॑ प्र - तूर्वन्न्॑ । एति॑ । इ॒हि॒ । अ॒व॒क्राम॒न्नित्य॑व - क्रामन्न्॑ । अश॑स्तीः । इति॑ । आ॒ह॒ । वज्रे॑ण । ए॒व । पा॒प्मान᳚म् । भ्रातृ॑व्यम् । अवेति॑ । क्रा॒म॒ति॒ । रु॒द्रस्य॑ । गाण॑पत्या॒दिति॒ गाण॑ - प॒त्या॒त् । इति॑ । आ॒ह॒ । रौ॒द्राः । वै । प॒शवः॑ । रु॒द्रात् । ए॒व ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.1.2.4 TS 5.1.2.4
प॒शून् नि॒र्याच्या॒ऽऽ*त्मने॒ कर्म॑ कुरुते पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह पू॒षा वा अद्ध्व॑नाꣳ सन्ने॒ता सम॑ष्ट्यै॒ पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निरङ्गि॑रसो॒ वा ए॒तमग्रे॑ दे॒वता॑नाꣳ॒॒ सम॑भरन् पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑-मङ्गिर॒स्व-दच्छे॒हीत्या॑ह॒ साय॑तनमे॒वैनं॑ दे॒वता॑भिः॒ सं भ॑रत्य॒ग्निं पु॑री॒ष्य॑-मङ्गिर॒स्व- दच्छे॑म॒ इत्या॑ह॒ येन॑ - [ ]
पदपाठः (Word-by-word)
प॒शून् । नि॒र्याच्येति॑ निः - याच्य॑ । आ॒त्मने᳚ । कर्म॑ । कु॒रु॒ते॒ । पू॒ष्णा । स॒युजेति॑ स-युजा᳚ । स॒ह । इति॑ । आ॒ह॒ । पू॒षा । वै । अद्ध्व॑नाम् । स॒नें॒तेति॑ सं - ने॒ता । सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । पुरी॑षायतन॒ इति॒ पुरी॑ष - आ॒य॒त॒नः॒ । वै । ए॒षः । यत् । अ॒ग्निः । अङ्गि॑रसः । वै । ए॒तम् । अग्रे᳚ । दे॒वता॑नाम् । समिति॑ । अ॒भ॒र॒न्न् । पृ॒थि॒व्याः । स॒धस्था॒दिति॑ स॒ध - स्था॒त् । अ॒ग्निम् । पु॒री॒ष्य᳚म् । अ॒ङ्गि॒र॒स्वत् । अच्छ॑ । इ॒हि॒ । इति॑ । आ॒ह॒ । साय॑तन॒मिति॒ स - आ॒य॒त॒न॒म् । ए॒व । ए॒न॒म् । दे॒वता॑भिः । समिति॑ । भ॒र॒ति॒ । अ॒ग्निम् । पु॒री॒ष्य᳚म् । अ॒ङ्गि॒र॒स्वत् । अच्छ॑ । इ॒मः॒ । इति॑ । आ॒ह॒ । येन॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.1.2.5 TS 5.1.2.5
स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निः स॒म्भृत्य॒ इत्या॑हुरि॒यं ॅवै प्र॒जाप॑ति॒स्तस्या॑ ए॒तच्छ्रोत्रं॒ ॅयद्व॒ल्मीको॒ऽग्निं पु॑री॒ष्य॑-मङ्गिर॒स्वद्-भ॑रिष्याम॒ इति॑ वल्मीकव॒पामुप॑ तिष्ठते सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ऽग्निꣳ सं भ॑रत्य॒ग्निं पु॑री॒ष्य॑-मङ्गिर॒स्वद्-भ॑राम॒ इत्या॑ह॒ येन॑ स॒गंच्छ॑ते॒ वाज॑मे॒वास्य॑ वृ॒ङ्क्ते ऽन्व॒ग्निरु॒षसा॒मग्र॑ - [ ]
पदपाठः (Word-by-word)
स॒गंच्छ॑त॒ इति॑ सं - गच्छ॑ते । वाज᳚म् । ए॒व । अ॒स्य॒ । वृ॒ङ्क्ते॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । अ॒ग्निः । स॒भृंत्य॒ इति॑ सं - भृत्यः॑ । इति॑ । आ॒हुः॒ । इ॒यम् । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । तस्याः᳚ । ए॒तत् । श्रोत्र᳚म् । यत् । व॒ल्मीकः॑ । अ॒ग्निम् । पु॒री॒ष्य᳚म् । अ॒ङ्गि॒र॒स्वत् । भ॒रि॒ष्या॒मः॒ । इति॑ । व॒ल्मी॒क॒व॒पामिति॑ वल्मीक - व॒पाम् । उपेति॑ । ति॒ष्ठ॒ते॒ । सा॒क्षादिति॑ स-अ॒क्षात् । ए॒व । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । अ॒ग्निम् । समिति॑ । भ॒र॒ति॒ । अ॒ग्निम् । पु॒री॒ष्य᳚म् । अ॒ङ्गि॒र॒स्वत् । भ॒रा॒मः॒ । इति॑ । आ॒ह॒ । येन॑ । स॒गंच्छ॑त॒ इति॑ सं-गच्छ॑ते । वाज᳚म् । ए॒व । अ॒स्य॒ । वृ॒ङ्क्ते॒ । अन्विति॑ । अ॒ग्निः । उ॒षसा᳚म् । अग्र᳚म् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.1.2.6 TS 5.1.2.6
मख्य॒दित्या॒हा-नु॑ख्यात्या आ॒गत्य॑ वा॒ज्यद्ध्व॑न आ॒क्रम्य॑ वाजिन् पृथि॒वीमित्या॑हे॒च्छत्ये॒वैनं॒ पूर्व॑या वि॒न्दत्युत्त॑रया॒ द्वाभ्या॒मा क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्यां॒ तस्मा॒दनु॑रूपाः प॒शवः॒ प्रजा॑यन्ते॒ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॒मित्या॑है॒भ्यो वा ए॒तं ॅलो॒केभ्यः॑ प्र॒जाप॑तिः॒ समै॑रयद् रू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒ ॅव्याच॑ष्टे व॒ज्री वा ( ) ए॒ष यदश्वो॑ द॒द्-भिर॒न्यतो॑दद्भ्यो॒ भूयां॒ ॅलोम॑भिरुभ॒याद॑द्भ्यो॒ यं द्वि॒ष्यात् तम॑धस्प॒दं ध्या॑ये॒द्-वज्रे॑णै॒वैनꣳ॑ स्तृणुते ॥
पदपाठः (Word-by-word)
अ॒ख्य॒त् । इति॑ । आ॒ह॒ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । आ॒गत्येत्या᳚ - गत्य॑ । वा॒जी । अद्ध्व॑नः । आ॒क्रम्येत्या᳚ - क्रम्य॑ । वा॒जि॒न्न् । पृ॒थि॒वीम् । इति॑ । आ॒ह॒ । इ॒च्छति॑ । ए॒व । ए॒न॒म् । पूर्व॑या । वि॒न्दति॑ । उत्त॑र॒येत्युत् - त॒र॒या॒ । द्वाभ्या᳚म् । एति॑ । क्र॒म॒य॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अनु॑रूपाभ्या॒मित्यनु॑ - रू॒पा॒भ्या॒म् । तस्मा᳚त् । अनु॑रूपा॒ इत्यनु॑-रू॒पाः॒ । प॒शवः॑ । प्रेति॑ । जा॒य॒न्ते॒ । द्यौः । ते॒ । पृ॒ष्ठम् । पृ॒थि॒वी । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । इति॑ । आ॒ह॒ । ए॒भ्यः । वै । ए॒तम् । लो॒केभ्यः॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । समिति॑ । ऐ॒र॒य॒त् । रू॒पम् । ए॒व । अ॒स्य॒ । ए॒तत् । म॒हि॒मान᳚म् । व्याच॑ष्ट॒ इति॑ वि - आच॑ष्टे । व॒ज्री । वै ( ) । ए॒षः । यत् । अश्वः॑ । द॒द्भिरिति॑ दत् - भिः । अ॒न्यतो॑दद्भ्य॒ इत्य॒न्यतो॑दत्-भ्यः॒ । भूयान्॑ । लोम॑भि॒रिति॒ लोम॑-भिः॒ । उ॒भ॒याद॑द्भ्य॒ इत्यु॑भ॒याद॑त् - भ्यः॒ । यम् । द्वि॒ष्यात् । तम् । अ॒ध॒स्प॒दमित्य॑धः - प॒दम् । ध्या॒ये॒त् । वज्रे॑ण । ए॒व । ए॒न॒म् । स्तृ॒णु॒ते॒ ॥
पदसंख्या: 67