पञ्चशत् 1 #
वा॒रु॒णो वा अ॒ग्निरुप॑नद्धो॒ वि पाज॒सेति॒ विस्रꣳ॑सयति सवि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीं ॅवरुणमे॒निं ॅविसृ॑जत्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्य॒ शुचꣳ॑ शमयति ति॒सृभि॒रुप॑ सृजति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वा-ग्निस्तस्य॒ शुचꣳ॑ शमयति मि॒त्रः सꣳ॒॒सृज्य॑ पृथि॒वीमित्या॑ह मि॒त्रो वै शि॒वो दे॒वानां॒ तेनै॒वै - [ ]
पदपाठः (Word-by-word)
वा॒रु॒णः । वै । अ॒ग्निः । उप॑नद्ध॒ इत्युप॑ - न॒द्धः॒ । वीति॑ । पाज॑सा । इति॑ । वीति॑ । स्रꣳ॒॒स॒य॒ति॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । ए॒व । अ॒स्य॒ । विषू॑चीम् । व॒रु॒ण॒मे॒निमिति॑ वरुण - मे॒निम् । वीति॑ । सृ॒ज॒ति॒ । अ॒पः । उपेति॑ । सृ॒ज॒ति॒ । आपः॑ । वै । शा॒न्ताः । शा॒न्ताभिः॑ । ए॒व । अ॒स्य॒ । शुच᳚म् । श॒म॒य॒ति॒ । ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । उपेति॑ । सृ॒ज॒ति॒ । त्रि॒वृदिति॑ त्रि -वृत् । वै । अ॒ग्निः । यावान्॑ । ए॒व । अ॒ग्निः । तस्य॑ । शुच᳚म् । श॒म॒य॒ति॒ । मि॒त्रः । सꣳ॒॒सृज्येति॑ सं - सृज्य॑ । पृ॒थि॒वीम् । इति॑ । आ॒ह॒ । मि॒त्रः । वै । शि॒वः । दे॒वाना᳚म् । तेन॑ । ए॒व ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वरुणो वा इत्यादि ॥ विषूचीं विष्वग्गमनां वरुणमेनिं वरुणशरीरं विसृजति विश्लथयति अनेन विस्रंसनेन । अप उपसृजतीति । आपोहिष्ठादिभिः । त्रिवृद्वा इति । साहचर्यात्ताच्छब्द्यम् । त्रिरूपत्वात्त्रिवृत्त्वम् । मित्रस्संसृज्येति द्वाभ्यामर्मकपालादिभिरेनं संसृजतीति ॥
2 यद्ग्राम्याणामित्यादि ॥ अर्मकपालानि पुरातनशून्याधिवासलोष्ठानि । शर्कराः शुक्ला मृत्परिणामाः । अथो अपि च शंत्वाय सुखस्थानाय ॥
3 अजलोमैरिति ॥ 'अच्प्रत्यन्ववपूर्वात्' इति योगविभागादच् समासान्तः । अग्नेः प्रिया तनूरिति । 'आग्नेयी वा एषा' । यदजा' इति । अथो अपि च तेजसैवैनं संसृजति अजलोमव्याजेन ॥
4 यज्ञो वै कृष्णाजिनमिति ॥ प्रधानाङ्गत्वात् । यज्ञेनैव यज्ञजन्यमग्निं संसृजति । रुद्रास्संभृत्येति मृदं संक्षिपति । मखस्य शिरोसीति पिण्डकरणमन्त्रः । यज्ञस्य शिरस्थानीया उखा; प्रधानत्वात्, आहवनीयधारणाच्च । अस्य मन्त्रस्य रुद्रास्संभृत्येति संभवरणानन्तरभावित्वे संसृष्टामित्याद्यतिक्रमेणास्मिन्नाम्नानं समानजातीयासाहित्यलाभाय । यज्ञस्य पदे स्थ इति मृदमङ्गुष्ठाभ्यां उपनिगृह्णाति ॥
5 प्रान्याभिरिति ॥ अन्याभिः ऋग्भिः प्रत्तान् पिण्डान् अन्यैः यजुर्भिरनुमन्त्रयत इति यावत् । 'संसृष्टां वसुभिः' इत्याद्या ऋचः । 'वसवस्त्वा कृण्वन्तु' इत्यादियजूंषि । अन्याभ्यां तृतीयम् । उद्धीयत इति उद्धिः उन्नतोऽवयवः । त्र्युद्धिं उखां करोति । त्रित्वान्वयात् लोकत्रयावाप्त्यै भवति । छन्दोभिरिति, 'वसवस्त्वा कृण्वन्तु' इत्युख्यैः चतुर्भिः पिण्डानुमन्त्रणैः । वीर्यं वा इति । तद्धेतुत्वात्ताच्छब्द्यम् । यजुषेति । 'अदितिस्ते बिलं' इति छन्दोरहितेन ॥
6 इयतीमिति ॥ केनचित्परिमाणेन परिमितमिति यावत् । प्रादेशमिति केचित् । इदं परिमाणमस्य 'किमिदंभ्यां वोघः' इति वतुप् घकारश्च । 'इदं किमोरीश्की', यस्येति लोपः । उदात्तनिवृत्तिस्वरेण उदात्तः । प्रादेशमात्रमूर्ध्वप्रमाणेन अरत्निमात्रं तिर्यक्प्रमाणेन व्यायाममात्रं समन्तपरिमाणेन । प्रजापतिनेति । मुखं च प्रादेशमात्रं 'यज्ञमुखं वै प्रजापतिः' इति, तेनैव संमिता कृता भवति । द्विस्तनामिति । द्वौ स्तनावस्याः अश्रीणां रास्नायाश्च सन्धाविति । क्रोडादित्वात् ङीषभावः । 'सङ्ख्यायास्स्तनः' इत्युत्तरपदान्तोदात्तत्वम् । चतुस्स्तनामिति । 'विभाषा छन्दसि' इति अन्तोदात्ताभावे बहुव्रीहिस्वरः । एवमष्टास्तनामिति छान्दसमात्वम् । छन्दसामिति । गायत्र्यादीनि सादिच्छन्दांस्यष्टौ ॥
7 नवाश्रिमिति ॥ अभिचरतोन्यत्र चतुरश्रिमष्टाश्रिं वा । त्रिवृतमिति । त्र्यवयवात्त्रिवृत्त्वम् । वज्रस्य स्तृत्यै छादनाय भवति । कृत्वायेति खरे उखानिधानमन्त्रः ॥
इति पञ्चमे प्रथमे षष्ठोनुवाकः ॥