पञ्चशत् 1 #
एक॑विꣳशत्या॒ माषैः᳚ पुरुषशी॒र्॒.ष-मच्छै᳚त्यमे॒द्ध्या वै माषा॑ अमे॒द्ध्यं पु॑रुषशी॒र्॒.ष-म॑मे॒द्ध्यैरे॒वा-स्या॑-मे॒द्ध्यं नि॑रव॒दाय॒ मेद्ध्यं॑ कृ॒त्वा ऽऽह॑र॒त्येक॑विꣳशति-र्भवन्त्येकविꣳ॒॒शो वै पुरु॑षः॒ पुरु॑ष॒स्याऽऽ*प्त्यै॒ व्यृ॑द्धं॒ ॅवा ए॒तत् प्रा॒णैर॑मे॒द्ध्यं ॅयत् पु॑रुषशी॒र्॒.षꣳ स॑प्त॒धा वितृ॑ण्णां ॅवल्मीकव॒पां प्रति॒ नि द॑धाति स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णाः प्रा॒णैरे॒वैन॒थ्-सम॑र्द्धयति मेद्ध्य॒त्वाय॒ याव॑न्तो॒ - [ ]
पदपाठः (Word-by-word)
एक॑विꣳश॒त्येत्येक॑ - विꣳ॒॒श॒त्या॒ । माषैः᳚ । पु॒रु॒ष॒शी॒र॒.षमिति॑ पुरुष - शी॒र॒.षम् । अच्छ॑ । ए॒ति॒ । अ॒मे॒द्ध्याः । वै । माषाः᳚ । अ॒मे॒द्ध्यम् । पु॒रु॒ष॒शी॒र्॒.षमिति॑ पुरुष - शी॒र्॒.॒षम् । अ॒मे॒द्ध्यैः । ए॒व । अ॒स्य॒ । अ॒मे॒द्ध्यम् । नि॒र॒व॒दायेति॑ निः - अ॒व॒दाय॑ । मेद्ध्य᳚म् । कृ॒त्वा । एति॑ । ह॒र॒ति॒ । एक॑विꣳशति॒रित्येक॑ - विꣳ॒॒श॒तिः॒ । भ॒व॒न्ति॒ । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । वै । पुरु॑षः । पुरु॑षस्य । आप्त्यै᳚ । व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । वै । ए॒तत् । प्रा॒णैरिति॑ प्र - अ॒नैः । अ॒मे॒द्ध्यम् । यत् । पु॒रु॒ष॒शी॒र्॒.षमिति॑ पुरुष - शी॒र्॒.षम् । स॒प्त॒धेति॑ सप्त - धा । वितृ॑ण्णा॒मिति॒ वि - तृ॒ण्णा॒म् । व॒ल्मी॒क॒व॒पामिति॑ वल्मीक-व॒पाम् । प्रति॑ । नीति॑ । द॒धा॒ति॒ । स॒प्त । वै । शी॒र॒.ष॒ण्याः᳚ । प्रा॒णा इति॑ प्र - अ॒नाः । प्रा॒णैरिति॑ प्र - अ॒नैः । ए॒व । ए॒न॒त् । समिति॑ । अ॒द्र्ध॒य॒ति॒ । मे॒द्ध्य॒त्वायेति॑ मेद्ध्य - त्वाय॑ । याव॑न्तः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 एकाविंशत्येत्यादि ॥ विंशन्माषानादाय पुरुषशिरोभिप्राप्तुं गच्छति । मेधं यज्ञं नार्हति इत्यमेध्यः । दण्डादित्वाद्यः । 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । अमेध्यानां माषाणामुपरि वापेन पुरुषशिरसो यदमेध्यत्वं तन्निरवदाय तस्मिन्निष्कृष्य पृथक् स्थापितं कृत्वा शिरो मेधार्हमेव कृत्वा आहरति । छान्दसो यत् । वृषादिर्वा द्रष्टव्यः, भवार्थे यत् । एकविंशो वै पुरुष इति । दशहस्त्या अङ्गुलयो दशपद्या आत्मैकविंश इति ॥
2 व्यृद्धमिति ॥ 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । 'उदात्तस्वरितयोर्याः' इति ऋकारः स्वर्यते । सप्तधा वितृण्णां छिद्रितां वल्मीकवपां वल्मकिमृदं शिरस्थाने प्रतिनिदधाति प्रतिनिधिं करोति । शीर्षण्या इति । शिरसि भवाः चक्षुरादयः सप्त प्राणाः । 'शरीरावयवाच्च' इयि यत्, 'ये च तद्धिते' इति शीर्षादेशः ॥
3 यावन्त इत्यादि ॥ मृत्युबन्धवः प्रोक्तः मृत्युरेषां बन्धुरिति । 'योस्य कौष्ठ्य' इत्यादिभिः तिसृभिः यमगाथाभिः परितो गायति । यमादेवैनद्वृङ्क्ते परिगृह्णाति । तिसृभिरित्यादि । गतम् । तस्मादिति । गानादृष्टं न जायते । गाथा गृह्णाति गाथाधीनात्वात् ॥
4 अग्निभ्य इति ॥ अग्निदेवत्याः पशवोऽजाश्ववृषभवृष्णिबस्ताः आलभ्याः । कामबहुत्वाद्बहुवचनम् । कामा वा इत्यादि । तत्साधनत्वात्ताच्छब्द्यम् । काम्यन्त इति कामाः पशुपुत्रादयः ॥
5 यदित्यादि ॥ अत्र त्रयः पक्षाः - अनालम्भो वा पशूनां, आलम्भोसियोगः । आलब्धानां पर्यग्निकरणानन्तरं उत्सर्गो वा, संस्थां वा गमयेत् । एतानि संस्थापनपक्षे यातयामानि गतरसानि शीर्षाणि स्युः । तस्मादालभेत पशून् । पर्यग्निकृतानामुत्सर्गे शिरसां अयातयामत्वम् । तत्र पर्यग्निकृतानां संज्ञप्तानां शिरांसि मृदा प्रलिप्य निधीयन्ते । प्राजापत्येनैव संस्थापयेत् पशून् । यज्ञो वा इत्यादि । गतम् । 'वायव्येन पशुना स्थापयेत् प्राजापत्यः पशुपुरोडाशो द्वादशकपालः' इत्यपरम् ॥
6 प्रजापतीरीत्यादि ॥ प्रजासृष्ट्यनन्तरं किञ्चित् रिरिचानो रिक्तोहमस्मीत्यमन्यत प्रजापतिः । लिटः कानजादेशः । अथ सः आप्रीरपश्यत् । ताभिः आत्मानं सुखत आरम्भे एवाप्रीणयत् । तस्मादेताः प्रजापत्यात्मनो यज्ञस्य मुखत एव प्रीतिहेतवः । आप्रीणात्याभिरिति आप्रियः । करणे क्विप् । आप्रीरिति छान्दसं ह्रस्वत्वम् । ताश्च 'ऊर्ध्वा अस्य' इत्याद्या द्वादश प्रधानाः याज्याः । अपरिमितछन्दस इति । अनेकप्रकारछन्दस इत्यर्यः । तथा हि - सर्वाश्चैताः त्रिपदाः । आसामाद्याः अन्ताश्च पादाः एकादशाक्षरा मध्ये पञ्चाक्षरः षडक्षरः सप्ताक्षरोष्टाक्षरश्च पादः । एका[अल्पा]क्षरः पिपीलिकामध्या इत्याचक्षते 'त्रिपादनिष्ठमध्या पिपीलिकामध्या' इति । ता एता उष्णिहः । 'दैव्या होतारौ' 'तिस्रो देवीः' इति च गायत्र्यौ । विश्वजनादित्वादपरिमितशब्दस्य तुगभावः ॥
7 ऊनातिरिक्ता इति ॥ एवमूनातिरिक्तस्वभावतया मिथुना द्विप्रकारकत्वात् यस्मादेतस्मात्प्रजात्यै भवति । लोमशमिति । मध्ये सूक्ष्मत्वात् लोमवत्तनुतरमध्यमस्यास्तीति, लोमादित्वाच्छः । यथोक्तम् - 'त्रिपादनिष्ठमध्या पिपीलिकामध्या' इति । सर्वाणि वा इति । छन्दसां नानाऋक्त्वात् सर्वाणि रूपाणि एता आप्रियः । सर्वाणि अग्नौ चित्ये चेतव्ये क्रियन्ते । तस्मादित्यादि । 'चित्याग्निचित्ये च' इति निपात्यते । चित्याग्नेस्सम्बन्धिनि पशौ भवन्ति ॥
8 एकविंशतिमिति ॥ 'समिधामाधाने षेण्यण्' । अस्मिन् पशौ एकविंशंतिं ता अन्वाह । सङ्ख्याविशेषेण एकविंशतिस्तोमत्वात् तस्य च ऋक्प्रतिष्ठयोः हेतुत्वात्तयोर्लाभः । 'स्तोमे डविधिः पञ्चदशाद्यर्थे' इति डः । अथो अपि च प्रतिष्ठामेवैति गच्छतीत्येव । काः पुनस्ताः उच्यन्ते - प्रवो वाजाः' इत्येकादश प्राकृत्यः, 'समास्त्वाग्ने' इति दश ॥
9 चतुर्विंशतिमिति ॥ तासां दशानामेवोद्धृत्य अवधार्य लोके ददाति । अथ 'पृथुपाजाः' इति द्वौ धाय्ये ददाति । अथ 'युक्ष्वा हि' इत्येतां ददाति । ज्योतिष्मतीं चेमामन्वाह । ता एताः पराच्योनूच्यमानाः चतुर्विंशतिः सम्पद्यन्ते । चतुर्विंशतिरर्धमासा इत्यादि । गतम् । पराचीरिति । अनावृत्ता एव । 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् । पराङिति । न कदाचिदिह अनुवर्तते ॥
10 अथ मन्त्रपदान्यनुसन्धत्ते - समास्त्वेत्यादि । गतम् ॥
11 न संवत्सर इत्यादि ॥ यस्यैताश्चतुर्विंशतिसामिधेन्यः क्रियन्ते अस्य संवत्सरश्श्रीश्च न तिष्ठति उपकरोत्येव । ज्योतिष्मतीं 'उद्वयं तमसः' इत्येतामन्वाह । उपरिष्टाद्धारणेन स्वर्गो लोकः प्रकाशितो भवति । अन्ये आहुः - यस्यैवमेताः क्रियन्ते अस्य संवत्सरश्श्रीश्च न तिष्ठति दीर्घकालौ न स्याताम् । ज्योतिष्मत्या उत्तमत्वे ज्योतिष्मान् भवति । संवत्सरेण श्रिया च द्युतिमान् भवति । स्वर्लोकश्चानुज्ञातो भवति । अत्र सामिधेनीनां प्रथमाम्नानेऽपि पश्वपेक्षितत्वात् पशुविधानानन्तरमाप्रीणां ब्राह्मणं, ततः सामिधेनीनां ब्राह्मणमिति ॥
इति पञ्चमे प्रथमे अष्टमोनुवाकः ॥