अनुवाकः 8 TS 5.1.8

(A8)

(याव॑न्तो - ऽस्य - मुख॒त - श्चित्य॑स्य - वर्द्धय - त्यादि॒त्यो᳚ - ऽष्टाविꣳ॑शतिश्च)

अनुवाकः 8 - Complete Audio

TS 5.1.8 - स्वरानुगामी

0:00 0:00
PS1.1 एक॑विꣳशत्या॒ माषैः᳚ पुरुषशी॒र्॒.ष-मच्छै᳚त्यमे॒द्ध्या वै
PS1.2 माषा॑ अमे॒द्ध्यं पु॑रुषशी॒र्॒.ष-म॑मे॒द्ध्यैरे॒वा-स्या॑-मे॒द्ध्यं नि॑रव॒दाय॒
PS1.3 मेद्ध्यं॑ कृ॒त्वा ऽऽह॑र॒त्येक॑विꣳशति-र्भवन्त्येकविꣳ॒॒शो वै
PS1.4 पुरु॑षः॒ पुरु॑ष॒स्याऽऽ*प्त्यै॒ व्यृ॑द्धं॒ ॅवा
PS1.5 ए॒तत् प्रा॒णैर॑मे॒द्ध्यं ॅयत् पु॑रुषशी॒र्॒.षꣳ
PS1.6 स॑प्त॒धा वितृ॑ण्णां ॅवल्मीकव॒पां प्रति॒
PS1.7 नि द॑धाति स॒प्त वै
PS1.8 शी॑र्.ष॒ण्याः᳚ प्रा॒णाः प्रा॒णैरे॒वैन॒थ्-सम॑र्द्धयति मेद्ध्य॒त्वाय॒
PS1.9 याव॑न्तो॒ - [ ]
PS2.1 वै मृ॒त्युब॑न्धव॒स्तेषां᳚ ॅय॒म आधि॑पत्यं॒
PS2.2 परी॑याय यमगा॒थाभिः॒ परि॑गायति य॒मादे॒वैन॑द्-वृङ्क्ते
PS2.3 ति॒सृभिः॒ परि॑गायति॒ त्रय॑ इ॒मे
PS2.4 लो॒का ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते॒
PS2.5 तस्मा॒द्-गाय॑ते॒ न देयं॒ गाथा॒
PS2.6 हि तद्-वृ॒ङ्क्ते᳚ ऽग्निभ्यः॑ प॒शूना
PS2.7 ल॑भते॒ कामा॒ वा अ॒ग्नयः॒
PS2.8 कामा॑ने॒वाव॑ रुन्धे॒ यत् प॒शून्
PS2.9 नाऽऽ*लभे॒ताऽन॑वरुद्धा अस्य - [
PS2.10 ]
PS3.1 प॒शवः॑ स्यु॒र्यत् पर्य॑ग्निकृतानुथ्-सृ॒जेद्-य॑ज्ञ्वेश॒सं कु॑र्या॒द्-यथ्
PS3.2 सꣳ॑स्था॒पये᳚द्-या॒तया॑मानि शी॒र्॒.षाणि॑ स्यु॒र्यत् प॒शूना॒लभ॑ते॒
PS3.3 तेनै॒व प॒शूनव॑ रुन्धे॒ यत्
PS3.4 पर्य॑ग्निकृतानुथ्-सृ॒जति॑ शी॒र्ष्णा-मया॑तयामत्वाय प्राजाप॒त्येन॒ सꣳ
PS3.5 स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ्
PS3.6 ए॒व य॒ज्ञ्ं प्रति॑ष्ठापयति प्र॒जाप॑तिः
PS3.7 प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒
PS3.8 स ए॒ता आ॒प्रीर॑पश्य॒त् ताभि॒र्वै
PS3.9 स मु॑ख॒त - [
PS3.10 ]
PS4.1 आ॒त्मान॒मा ऽप्री॑णीत॒ यदे॒ता आ॒प्रियो॒
PS4.2 भव॑न्ति य॒ज्ञो वै प्र॒जाप॑ति-र्य॒ज्ञ्मे॒वैताभि॑र्मुख॒त
PS4.3 आ प्री॑णा॒त्य-प॑रिमितछन्दसो भव॒न्त्यप॑रिमितः प्र॒जाप॑तिः
PS4.4 प्र॒जाप॑ते॒राप्त्या॑ ऊनातिरि॒क्ता मि॑थु॒नाः प्रजा᳚त्यै
PS4.5 लोम॒शं ॅवै नामै॒तच्छन्दः॑ प्र॒जाप॑तेः
PS4.6 प॒शवो॑ लोम॒शाः प॒शूने॒वाऽव॑ रुन्धे॒
PS4.7 सर्वा॑णि॒ वा ए॒ता रू॒पाणि॒
PS4.8 सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये᳚ क्रियन्ते॒
PS4.9 तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य - [
PS4.10 ]
PS5.1 भव॒न्त्ये क॑विꣳ शतिꣳ सामिधे॒नीरन्वा॑ह॒
PS5.2 रुग्वा ए॑कविꣳ॒॒शो रुच॑मे॒व ग॑च्छ॒त्यथो᳚
PS5.3 प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविꣳ॒॒श-श्चतु॑र्विꣳशति॒मन्वा॑ह॒ चतु॑र्विꣳशतिरर्द्धमा॒साः
PS5.4 सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः सा॒क्षादे॒व वै᳚श्वान॒रमव॑
PS5.5 रुन्धे॒ परा॑ची॒रन्वा॑ह॒ परा॑ङिव॒ हि
PS5.6 सु॑व॒र्गो लो॒कः समा᳚स्त्वाऽग्न ऋ॒तवो॑
PS5.7 वर्द्धय॒न्त्वित्या॑ह॒ समा॑भिरे॒वाऽग्निं ॅव॑र्द्धय -
PS5.8 [ ]
PS6.1 त्यृ॒तुभिः॑ संॅवथ्स॒रं ॅविश्वा॒ आ
PS6.2 भा॑हि प्र॒दिशः॑ पृथि॒व्या इत्या॑ह॒
PS6.3 तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒ विभा॑ति॒
PS6.4 प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒दित्या॑ह मृ॒त्युमे॒वाऽस्मा॒दप॑ नुद॒त्युद्व॒यं
PS6.5 तम॑स॒स्परीत्या॑ह पा॒प्मा वै तमः॑
PS6.6 पा॒प्मान॑मे॒वास्मा॒दप॑ ह॒न्त्यग॑न्म॒ ज्योति॑रुत्त॒म-मित्या॑हा॒ऽसौ वा
PS6.7 आ॑दि॒त्यो ( ) ज्योति॑रुत्त॒म-मा॑दि॒त्यस्यै॒व
PS6.8 सायु॑ज्यं गच्छति॒ न सं॑ॅवथ्स॒रस्ति॑ष्ठति॒
PS6.9 नास्य॒ श्रीस्ति॑ष्ठति॒ यस्यै॒ताः क्रि॒यन्ते॒
PS6.10 ज्योति॑ष्मती-मुत्त॒मामन्वा॑ह॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद् दधाति
PS6.11 सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.1.8.1 TS 5.1.8.1
एक॑विꣳशत्या॒ माषैः᳚ पुरुषशी॒र्॒.ष-मच्छै᳚त्यमे॒द्ध्या वै माषा॑ अमे॒द्ध्यं पु॑रुषशी॒र्॒.ष-म॑मे॒द्ध्यैरे॒वा-स्या॑-मे॒द्ध्यं नि॑रव॒दाय॒ मेद्ध्यं॑ कृ॒त्वा ऽऽह॑र॒त्येक॑विꣳशति-र्भवन्त्येकविꣳ॒॒शो वै पुरु॑षः॒ पुरु॑ष॒स्याऽऽ*प्त्यै॒ व्यृ॑द्धं॒ ॅवा ए॒तत् प्रा॒णैर॑मे॒द्ध्यं ॅयत् पु॑रुषशी॒र्॒.षꣳ स॑प्त॒धा वितृ॑ण्णां ॅवल्मीकव॒पां प्रति॒ नि द॑धाति स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णाः प्रा॒णैरे॒वैन॒थ्-सम॑र्द्धयति मेद्ध्य॒त्वाय॒ याव॑न्तो॒ - [ ]
पदपाठः (Word-by-word)
एक॑विꣳश॒त्येत्येक॑ - विꣳ॒॒श॒त्या॒ । माषैः᳚ । पु॒रु॒ष॒शी॒र॒.षमिति॑ पुरुष - शी॒र॒.षम् । अच्छ॑ । ए॒ति॒ । अ॒मे॒द्ध्याः । वै । माषाः᳚ । अ॒मे॒द्ध्यम् । पु॒रु॒ष॒शी॒र्॒.षमिति॑ पुरुष - शी॒र्॒.॒षम् । अ॒मे॒द्ध्यैः । ए॒व । अ॒स्य॒ । अ॒मे॒द्ध्यम् । नि॒र॒व॒दायेति॑ निः - अ॒व॒दाय॑ । मेद्ध्य᳚म् । कृ॒त्वा । एति॑ । ह॒र॒ति॒ । एक॑विꣳशति॒रित्येक॑ - विꣳ॒॒श॒तिः॒ । भ॒व॒न्ति॒ । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । वै । पुरु॑षः । पुरु॑षस्य । आप्त्यै᳚ । व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । वै । ए॒तत् । प्रा॒णैरिति॑ प्र - अ॒नैः । अ॒मे॒द्ध्यम् । यत् । पु॒रु॒ष॒शी॒र्॒.षमिति॑ पुरुष - शी॒र्॒.षम् । स॒प्त॒धेति॑ सप्त - धा । वितृ॑ण्णा॒मिति॒ वि - तृ॒ण्णा॒म् । व॒ल्मी॒क॒व॒पामिति॑ वल्मीक-व॒पाम् । प्रति॑ । नीति॑ । द॒धा॒ति॒ । स॒प्त । वै । शी॒र॒.ष॒ण्याः᳚ । प्रा॒णा इति॑ प्र - अ॒नाः । प्रा॒णैरिति॑ प्र - अ॒नैः । ए॒व । ए॒न॒त् । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । मे॒द्ध्य॒त्वायेति॑ मेद्ध्य - त्वाय॑ । याव॑न्तः ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 एकाविंशत्येत्यादि ॥ विंशन्माषानादाय पुरुषशिरोभिप्राप्तुं गच्छति । मेधं यज्ञं नार्हति इत्यमेध्यः । दण्डादित्वाद्यः । 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । अमेध्यानां माषाणामुपरि वापेन पुरुषशिरसो यदमेध्यत्वं तन्निरवदाय तस्मिन्निष्कृष्य पृथक् स्थापितं कृत्वा शिरो मेधार्हमेव कृत्वा आहरति । छान्दसो यत् । वृषादिर्वा द्रष्टव्यः, भवार्थे यत् । एकविंशो वै पुरुष इति । दशहस्त्या अङ्गुलयो दशपद्या आत्मैकविंश इति ॥
2 व्यृद्धमिति ॥ 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । 'उदात्तस्वरितयोर्याः' इति ऋकारः स्वर्यते । सप्तधा वितृण्णां छिद्रितां वल्मीकवपां वल्मकिमृदं शिरस्थाने प्रतिनिदधाति प्रतिनिधिं करोति । शीर्षण्या इति । शिरसि भवाः चक्षुरादयः सप्त प्राणाः । 'शरीरावयवाच्च' इयि यत्, 'ये च तद्धिते' इति शीर्षादेशः ॥
3 यावन्त इत्यादि ॥ मृत्युबन्धवः प्रोक्तः मृत्युरेषां बन्धुरिति । 'योस्य कौष्ठ्य' इत्यादिभिः तिसृभिः यमगाथाभिः परितो गायति । यमादेवैनद्वृङ्क्ते परिगृह्णाति । तिसृभिरित्यादि । गतम् । तस्मादिति । गानादृष्टं न जायते । गाथा गृह्णाति गाथाधीनात्वात् ॥
4 अग्निभ्य इति ॥ अग्निदेवत्याः पशवोऽजाश्ववृषभवृष्णिबस्ताः आलभ्याः । कामबहुत्वाद्बहुवचनम् । कामा वा इत्यादि । तत्साधनत्वात्ताच्छब्द्यम् । काम्यन्त इति कामाः पशुपुत्रादयः ॥
5 यदित्यादि ॥ अत्र त्रयः पक्षाः - अनालम्भो वा पशूनां, आलम्भोसियोगः । आलब्धानां पर्यग्निकरणानन्तरं उत्सर्गो वा, संस्थां वा गमयेत् । एतानि संस्थापनपक्षे यातयामानि गतरसानि शीर्षाणि स्युः । तस्मादालभेत पशून् । पर्यग्निकृतानामुत्सर्गे शिरसां अयातयामत्वम् । तत्र पर्यग्निकृतानां संज्ञप्तानां शिरांसि मृदा प्रलिप्य निधीयन्ते । प्राजापत्येनैव संस्थापयेत् पशून् । यज्ञो वा इत्यादि । गतम् । 'वायव्येन पशुना स्थापयेत् प्राजापत्यः पशुपुरोडाशो द्वादशकपालः' इत्यपरम् ॥
6 प्रजापतीरीत्यादि ॥ प्रजासृष्ट्यनन्तरं किञ्चित् रिरिचानो रिक्तोहमस्मीत्यमन्यत प्रजापतिः । लिटः कानजादेशः । अथ सः आप्रीरपश्यत् । ताभिः आत्मानं सुखत आरम्भे एवाप्रीणयत् । तस्मादेताः प्रजापत्यात्मनो यज्ञस्य मुखत एव प्रीतिहेतवः । आप्रीणात्याभिरिति आप्रियः । करणे क्विप् । आप्रीरिति छान्दसं ह्रस्वत्वम् । ताश्च 'ऊर्ध्वा अस्य' इत्याद्या द्वादश प्रधानाः याज्याः । अपरिमितछन्दस इति । अनेकप्रकारछन्दस इत्यर्यः । तथा हि - सर्वाश्चैताः त्रिपदाः । आसामाद्याः अन्ताश्च पादाः एकादशाक्षरा मध्ये पञ्चाक्षरः षडक्षरः सप्ताक्षरोष्टाक्षरश्च पादः । एका[अल्पा]क्षरः पिपीलिकामध्या इत्याचक्षते 'त्रिपादनिष्ठमध्या पिपीलिकामध्या' इति । ता एता उष्णिहः । 'दैव्या होतारौ' 'तिस्रो देवीः' इति च गायत्र्यौ । विश्वजनादित्वादपरिमितशब्दस्य तुगभावः ॥
7 ऊनातिरिक्ता इति ॥ एवमूनातिरिक्तस्वभावतया मिथुना द्विप्रकारकत्वात् यस्मादेतस्मात्प्रजात्यै भवति । लोमशमिति । मध्ये सूक्ष्मत्वात् लोमवत्तनुतरमध्यमस्यास्तीति, लोमादित्वाच्छः । यथोक्तम् - 'त्रिपादनिष्ठमध्या पिपीलिकामध्या' इति । सर्वाणि वा इति । छन्दसां नानाऋक्त्वात् सर्वाणि रूपाणि एता आप्रियः । सर्वाणि अग्नौ चित्ये चेतव्ये क्रियन्ते । तस्मादित्यादि । 'चित्याग्निचित्ये च' इति निपात्यते । चित्याग्नेस्सम्बन्धिनि पशौ भवन्ति ॥
8 एकविंशतिमिति ॥ 'समिधामाधाने षेण्यण्' । अस्मिन् पशौ एकविंशंतिं ता अन्वाह । सङ्ख्याविशेषेण एकविंशतिस्तोमत्वात् तस्य च ऋक्प्रतिष्ठयोः हेतुत्वात्तयोर्लाभः । 'स्तोमे डविधिः पञ्चदशाद्यर्थे' इति डः । अथो अपि च प्रतिष्ठामेवैति गच्छतीत्येव । काः पुनस्ताः उच्यन्ते - प्रवो वाजाः' इत्येकादश प्राकृत्यः, 'समास्त्वाग्ने' इति दश ॥
9 चतुर्विंशतिमिति ॥ तासां दशानामेवोद्धृत्य अवधार्य लोके ददाति । अथ 'पृथुपाजाः' इति द्वौ धाय्ये ददाति । अथ 'युक्ष्वा हि' इत्येतां ददाति । ज्योतिष्मतीं चेमामन्वाह । ता एताः पराच्योनूच्यमानाः चतुर्विंशतिः सम्पद्यन्ते । चतुर्विंशतिरर्धमासा इत्यादि । गतम् । पराचीरिति । अनावृत्ता एव । 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् । पराङिति । न कदाचिदिह अनुवर्तते ॥
10 अथ मन्त्रपदान्यनुसन्धत्ते - समास्त्वेत्यादि । गतम् ॥
11 न संवत्सर इत्यादि ॥ यस्यैताश्चतुर्विंशतिसामिधेन्यः क्रियन्ते अस्य संवत्सरश्श्रीश्च न तिष्ठति उपकरोत्येव । ज्योतिष्मतीं 'उद्वयं तमसः' इत्येतामन्वाह । उपरिष्टाद्धारणेन स्वर्गो लोकः प्रकाशितो भवति । अन्ये आहुः - यस्यैवमेताः क्रियन्ते अस्य संवत्सरश्श्रीश्च न तिष्ठति दीर्घकालौ न स्याताम् । ज्योतिष्मत्या उत्तमत्वे ज्योतिष्मान् भवति । संवत्सरेण श्रिया च द्युतिमान् भवति । स्वर्लोकश्चानुज्ञातो भवति । अत्र सामिधेनीनां प्रथमाम्नानेऽपि पश्वपेक्षितत्वात् पशुविधानानन्तरमाप्रीणां ब्राह्मणं, ततः सामिधेनीनां ब्राह्मणमिति ॥
इति पञ्चमे प्रथमे अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.1.8.2 TS 5.1.8.2
वै मृ॒त्युब॑न्धव॒स्तेषां᳚ ॅय॒म आधि॑पत्यं॒ परी॑याय यमगा॒थाभिः॒ परि॑गायति य॒मादे॒वैन॑द्-वृङ्क्ते ति॒सृभिः॒ परि॑गायति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते॒ तस्मा॒द्-गाय॑ते॒ न देयं॒ गाथा॒ हि तद्-वृ॒ङ्क्ते᳚ ऽग्निभ्यः॑ प॒शूना ल॑भते॒ कामा॒ वा अ॒ग्नयः॒ कामा॑ने॒वाव॑ रुन्धे॒ यत् प॒शून् नाऽऽ*लभे॒ताऽन॑वरुद्धा अस्य - [ ]
पदपाठः (Word-by-word)
वै । मृ॒त्युब॑न्धव॒ इति॑ मृ॒त्यु - ब॒न्ध॒वः॒ । तेषा᳚म् । य॒मः । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । परीति॑ । इ॒या॒य॒ । य॒म॒गा॒थाभि॒रिति॑ यम - गा॒थाभिः॑ । परीति॑ । गा॒य॒ति॒ । य॒मात् । ए॒व । ए॒न॒त् । वृ॒ङ्क्ते॒ । ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । परीति॑ । गा॒य॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒भ्यः । ए॒व । ए॒न॒त् । लो॒केभ्यः॑ । वृ॒ङ्क्ते॒ । तस्मा᳚त् । गाय॑ते । न । देय᳚म् । गाथा᳚ । हि । तत् । वृ॒ङ्क्ते॒ । अ॒ग्निभ्य॒ इत्य॒ग्नि-भ्यः॒ । प॒शून् । एति॑ । ल॒भ॒ते॒ । कामाः᳚ । वै । अ॒ग्नयः॑ । कामान्॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । यत् । प॒शून् । न । आ॒लभे॒तेत्या᳚ - लभे॑त । अन॑वरुद्धा॒ इत्यन॑व - रु॒द्धाः॒ । अ॒स्य॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.1.8.3 TS 5.1.8.3
प॒शवः॑ स्यु॒र्यत् पर्य॑ग्निकृतानुथ्-सृ॒जेद्-य॑ज्ञ्वेश॒सं कु॑र्या॒द्-यथ् सꣳ॑स्था॒पये᳚द्-या॒तया॑मानि शी॒र्॒.षाणि॑ स्यु॒र्यत् प॒शूना॒लभ॑ते॒ तेनै॒व प॒शूनव॑ रुन्धे॒ यत् पर्य॑ग्निकृतानुथ्-सृ॒जति॑ शी॒र्ष्णा-मया॑तयामत्वाय प्राजाप॒त्येन॒ सꣳ स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ् ए॒व य॒ज्ञ्ं प्रति॑ष्ठापयति प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒ता आ॒प्रीर॑पश्य॒त् ताभि॒र्वै स मु॑ख॒त - [ ]
पदपाठः (Word-by-word)
प॒शवः॑ । स्युः॒ । यत् । पर्य॑ग्निकृता॒निति॒ पर्य॑ग्नि - कृ॒ता॒न् । उ॒थ्सृ॒जेदित्यु॑त् - स॒जेत् । य॒ज्ञ्॒वे॒श॒समिति॑ यज्ञ्-वे॒श॒सम् । कु॒र्या॒त् । यत् । सꣳ॒॒स्था॒पये॒दिति॑ सं - स्था॒पये᳚त् । या॒तया॑मा॒नीति॑ या॒त - या॒मा॒नि॒ । शी॒र्॒.षाणि॑ । स्युः॒ । यत् । प॒शून् । आ॒लभ॑त॒ इत्या᳚ - लभ॑ते । तेन॑ । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ । यत् । पर्य॑ग्निकृता॒निति॒ पर्य॑ग्नि - कृ॒ता॒न् । उ॒थ्सृ॒जतीत्यु॑त्-सृ॒जति॑ । शी॒र्ष्णाम् । अया॑तयामत्वा॒येत्यया॑तयाम - त्वा॒य॒ । रा॒जा॒प॒त्येनेति॑ प्राजा - प॒त्येन॑ । समिति॑ । स्था॒प॒य॒ति॒ । य॒ज्ञ्ः । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । य॒ज्ञे । ए॒व । य॒ज्ञ्म् । प्रतीति॑ । स्था॒प॒य॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र - जाः । अ॒सृ॒ज॒त॒ । सः । रि॒रि॒चा॒नः । अ॒म॒न्य॒त॒ । सः । ए॒ताः । आ॒प्रीरित्या᳚ - प्रीः । अ॒प॒श्य॒त् । ताभिः॑ । वै । सः । मु॒ख॒तः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.1.8.4 TS 5.1.8.4
आ॒त्मान॒मा ऽप्री॑णीत॒ यदे॒ता आ॒प्रियो॒ भव॑न्ति य॒ज्ञो वै प्र॒जाप॑ति-र्य॒ज्ञ्मे॒वैताभि॑र्मुख॒त आ प्री॑णा॒त्य-प॑रिमितछन्दसो भव॒न्त्यप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ ऊनातिरि॒क्ता मि॑थु॒नाः प्रजा᳚त्यै लोम॒शं ॅवै नामै॒तच्छन्दः॑ प्र॒जाप॑तेः प॒शवो॑ लोम॒शाः प॒शूने॒वाऽव॑ रुन्धे॒ सर्वा॑णि॒ वा ए॒ता रू॒पाणि॒ सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये᳚ क्रियन्ते॒ तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य - [ ]
पदपाठः (Word-by-word)
आ॒त्मान᳚म् । एति॑ । अ॒प्री॒णी॒त॒ । यत् । ए॒ताः । आ॒प्रिय॒ इत्या᳚-प्रियः॑ । भव॑न्ति । य॒ज्ञ्ः । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । य॒ज्ञ्म् । ए॒व । ए॒ताभिः॑ । मु॒ख॒तः । एति॑ । प्री॒णा॒ति॒ । अप॑रिमितछन्दस॒ इत्यप॑रिमित - छ॒न्द॒सः॒ । भ॒व॒न्ति॒ । अप॑रिमित॒ इत्यप॑रि - मि॒तः॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । ऊ॒ना॒ति॒रि॒क्ता इत्यू॑न - अ॒ति॒रि॒क्ताः । मि॒थु॒नाः । प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । लो॒म॒शम् । वै । नाम॑ । ए॒तत् । छन्दः॑ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । प॒शवः॑ । लो॒म॒शाः । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । सर्वा॑णि । वै । ए॒ताः । रू॒पाणि॑ । सर्वा॑णि । रू॒पाणि॑ । अ॒ग्नौ । चित्ये᳚ । क्रि॒य॒न्ते॒ । तस्मा᳚त् । ए॒ताः । अ॒ग्नेः । चित्य॑स्य ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.1.8.5 TS 5.1.8.5
भव॒न्त्ये क॑विꣳ शतिꣳ सामिधे॒नीरन्वा॑ह॒ रुग्वा ए॑कविꣳ॒॒शो रुच॑मे॒व ग॑च्छ॒त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविꣳ॒॒श-श्चतु॑र्विꣳशति॒मन्वा॑ह॒ चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः सा॒क्षादे॒व वै᳚श्वान॒रमव॑ रुन्धे॒ परा॑ची॒रन्वा॑ह॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः समा᳚स्त्वाऽग्न ऋ॒तवो॑ वर्द्धय॒न्त्वित्या॑ह॒ समा॑भिरे॒वाऽग्निं ॅव॑र्द्धय - [ ]
पदपाठः (Word-by-word)
भ॒व॒न्ति॒ । एक॑विꣳशति॒मित्येक॑ - विꣳ॒॒श॒ति॒म् । सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । अन्विति॑ । आ॒ह॒ । रुक् । वै । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । रुच᳚म् । ए॒व । ग॒च्छ॒ति॒ । अथो॒ इति॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ए॒व । प्र॒ति॒ष्ठेति॑ प्रति - स्था । हि । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । चतु॑र्विꣳशति॒मिति॒ चतुः॑ - विꣳ॒॒श॒ति॒म् । अन्विति॑ । आ॒ह॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । अ॒ग्निः । वै॒श्वा॒न॒रः । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । वै॒श्वा॒न॒रम् । अवेति॑ । रु॒न्धे॒ । परा॑चीः । अन्विति॑ । आ॒ह॒ । पराङ्॑ । इ॒व॒ । हि । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । समाः᳚ । त्वा॒ । अ॒ग्ने॒ । ऋ॒तवः॑ । व॒द्‌र्ध॒य॒न्तु॒ । इति॑ । आ॒ह॒ । समा॑भिः । ए॒व । अ॒ग्निम् । व॒द्‌र्ध॒य॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.1.8.6 TS 5.1.8.6
त्यृ॒तुभिः॑ संॅवथ्स॒रं ॅविश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्या इत्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒ विभा॑ति॒ प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒दित्या॑ह मृ॒त्युमे॒वाऽस्मा॒दप॑ नुद॒त्युद्व॒यं तम॑स॒स्परीत्या॑ह पा॒प्मा वै तमः॑ पा॒प्मान॑मे॒वास्मा॒दप॑ ह॒न्त्यग॑न्म॒ ज्योति॑रुत्त॒म-मित्या॑हा॒ऽसौ वा आ॑दि॒त्यो ( ) ज्योति॑रुत्त॒म-मा॑दि॒त्यस्यै॒व सायु॑ज्यं गच्छति॒ न सं॑ॅवथ्स॒रस्ति॑ष्ठति॒ नास्य॒ श्रीस्ति॑ष्ठति॒ यस्यै॒ताः क्रि॒यन्ते॒ ज्योति॑ष्मती-मुत्त॒मामन्वा॑ह॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद् दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥
पदपाठः (Word-by-word)
ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । विश्वाः᳚ । एति॑ । भा॒हि॒ । प्र॒दिश॒ इति॑ प्र - दिशः॑ । पृ॒थि॒व्याः । इति॑ । आ॒ह॒ । तस्मा᳚त् । अ॒ग्निः । सर्वाः᳚ । दिशः॑ । अनु॑ । वीति॑ । भा॒ति॒ । प्रतीति॑ । औ॒ह॒ता॒म् । अ॒श्विना᳚ । मृ॒त्युम् । अ॒स्मा॒त् । इति॑ । आ॒ह॒ । मृ॒त्युम् । ए॒व । अ॒स्मा॒त् । अपेति॑ । नु॒द॒ति॒ । उदिति॑ । व॒यम् । तम॑सः । परीति॑ । इति॑ । आ॒ह॒ । पा॒प्मा । वै । तमः॑ । पा॒प्मान᳚म् । ए॒व । अ॒स्मा॒त् । अपेति॑ । ह॒न्ति॒ । अग॑न्म । ज्योतिः॑ । उ॒त्त॒ममित्यु॑त् - त॒मम् । इति॑ । आ॒ह॒ । अ॒सौ । वै । आ॒दि॒त्यः ( ) । ज्योतिः॑ । उ॒त्त॒ममित्यु॑त्-त॒मम् । आ॒दि॒त्यस्य॑ । ए॒व । सायु॑ज्यम् । ग॒च्छ॒ति॒ । न । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ति॒ष्ठ॒ति॒ । न । अ॒स्य॒ । श्रीः । ति॒ष्ठ॒ति॒ । यस्य॑ । ए॒ताः । क्रि॒यन्ते᳚ । ज्योति॑ष्मतीम् । उ॒त्त॒मामित्यु॑त् - त॒माम् । अन्विति॑ । आ॒ह॒ । ज्योतिः॑ । ए॒व । अ॒स्मै॒ । उ॒परि॑ष्टात् । द॒धा॒ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ ॥
पदसंख्या: 78