पञ्चशत् 1 #
समि॑द्धो अ॒ञ्जन् कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त् पिन्व॑मानः । वा॒जी वह॑न् वा॒जिनं॑ जातवेदो दे॒वानां᳚ ॅवक्षि प्रि॒यमा स॒धस्थं᳚ ॥घृ॒तेना॒ञ्जन्थ्सं प॒थो दे॑व॒याना᳚न् प्रजा॒नन् वा॒ज्यप्ये॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ताꣳ स्व॒धाम॒स्मै यज॑मानाय धेहि ॥ ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेद्ध्य॑श्च सप्ते । अ॒ग्निष्ट्वा॑ - [ ]
पदपाठः (Word-by-word)
समि॑द्ध इति॒ सं - इ॒द्धः॒ । अ॒ञ्जन्न् । कृद॑रम् । म॒ती॒नाम् । घृ॒तम् । अ॒ग्ने॒ । मधु॑म॒दिति॒ मधु॑ - म॒त् । पिन्व॑मानः ॥ वा॒जी । वहन्न्॑ । वा॒जिन᳚म् । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । दे॒वाना᳚म् । व॒क्षि॒ । प्रि॒यम् । एति॑ । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् ॥ घृ॒तेन॑ । अ॒ञ्जन्न् । समिति॑ । प॒थः । दे॒व॒याना॒निति॑ देव - यानान्॑ । प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् । वा॒जी । अपीति॑ । ए॒तु॒ । दे॒वान् ॥ अन्विति॑ । त्वा॒ । स॒प्ते॒ । प्र॒दिश॒ इति॑ प्र - दिशः॑ । स॒च॒न्ता॒म् । स्व॒धामिति॑ स्व - धाम् । अ॒स्मै । यज॑मानाय । धे॒हि॒ ॥ ईड्यः॑ । च॒ । असि॑ । वन्द्यः॑ । च॒ । वा॒जि॒न्न् । आ॒शुः । च॒ । असि॑ । मेद्ध्यः॑ । च॒ । स॒प्ते॒ ॥ अ॒ग्निः । त्वा॒ ।
सायणभाष्यम् (Sayana Commentary)
—-----------------------
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ अश्वमेथे अश्वस्याप्रियः प्रयाजानां याज्याः एकादशसमिद्धो अञ्जन्निति ॥ त्रैष्टुभः सर्वोनुवाकः । अग्निकाण्डमध्ये वैश्वदेवं काण्डम् । तत्र प्रथमा - समिद्धः सन्दीप्तः । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अञ्जन् प्रकाशयन् । अञ्जू व्यक्तिश्लक्ष्णगतिषु । कृदरं आवपनं कुसूलादिकं तत्स्थानीयं मतीनां ज्ञानानां चित्तं प्रकाशताम् । तादात्म्यात्ताच्छब्द्यम् । यद्वा - प्रतीनां मननीयानां हविषां कृदरं कृदरस्थानीयं आत्मीयं रूपं प्रकाशयन् । घृतं आज्यं मधुमत् मधुररसवत् पिन्वमानः पिन्वन् पिबन् । पिब सेचने इदानीं पानकर्मा । यद्वा - घृतमुदकं पिन्वमानः सिञ्चन् यागद्वारेण वर्षन् । हे अग्ने जातवेदः जातानां वेदितः । 'गतिकारकयोरपि' इत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च । बहुव्रीहिर्वा - हे जातधन! वाजी बलवान् वेगवान्वा अश्वतुल्यो वा । वाजिनं इमं अश्वं प्रियं प्रीतिहेतुं अवहन् । देवानां सधस्थं सहस्थानं यत्र देवाः सहासते तत् स्थानं आवक्षि आवह प्रापय तेषां भोजनार्थम् । 'सुपि स्थः' इति कः । 'सधमाधस्थयोः' इति सधादेशः । वहेर्लेटि शपो लुक् ॥
2 अथ द्वितीया - घृतेनेति ॥ घृतेन हुतेन हेतुना अयं वाजी अश्वः देवयानान् देवा यैर्गच्छन्ति तान् पथः मार्गान् अपितृयाणान् अञ्जन् प्रकाशयन् समेतु सङ्गच्छतु । एत्विति वक्ष्यमाणमत्रापि सम्बध्यते । यद्वा - देवयानान् पथः समञ्जन् सम्यक् प्रकाशयन् जानन् प्रजानन् देवानामप्येतु देवैरेकीभवतु । हे सप्ते अश्व! त्वं प्रदिशः प्रधाना दिशः अन्याश्च अनुसचन्तां अनुसेवन्तां आनुकूल्यं त्वयि भजन्ताम् । त्वमप्यस्मै यजमानाय स्वधा अन्नं धेहि देहि ॥
3 अथ तृतीया - ईड्य इति ॥ हे वाजिन्! अन्नहेतो सप्ते सर्पक अश्व ईड्यः स्तुत्यः असि । त्वं वन्द्यः नमस्कार्यश्चासि । 'ईडवन्दनृशंस' इत्याद्युदात्तत्वम् । 'चवायोगे प्रथमा ' इत्याख्यातं न निहन्यते । आशुश्च शीघ्रश्चासि । पुर्ववन्निघाताभावः । मेध्यो मेधार्हश्चासि । अयमग्निः वसुभिः देवैः सजोषाः समानप्रीतिः । 'समानस्य छन्दसि' इति सभावः । जातवेदाः जातानां वेदिता त्वं प्रीतं तृप्तं वह्निं वोढारं वहतु प्रापयतु देवसकाशम् । 'युष्मत्तत्त' इत्यादिना संहितायां षत्वम् ॥
4 चतुर्थी - स्तीर्णमिति ॥ स्तीर्णं बर्हिः । गतम् । सुष्टरीम शोभनस्तरणम् । स्तृणातेरौणादिक इमनिच्, वर्णव्यत्ययेन दीर्घत्वम् । बहुव्रीहौ सुषामादित्वात् षत्वम् । 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । उरु महत् पृथु विस्तीर्णं भूयोपि पृथिव्यां प्रथमानं यावदियं पृथिवी विस्तीर्णा मही तावत्प्रथमानं देवेभिः देवैः युक्तं जुषाणा जुषमाणा सेवमाना । छान्दसः शपो लुक्, व्यत्ययेन सार्वधातुकानुदात्तत्वाभावः । सजोषाः समानप्रीतिः । देवैः । अदितिः देवमाता स्योनं सुखस्थानं कुर्वाणा सुविते सुगते शोभना गतिर्यत्र तत्र स्थाने इमं अश्वं दधातु स्थापयतु । 'तन्वादीनां छन्दसि बहुळम्' इति सोरुवङादेशः । विकृतत्वादनवग्रहः । 'नञ्सुभ्यां' इत्युत्तरपदान्तोदात्तत्वम् ॥
5 पञ्चमी - एता इति ॥ उ इत्यवधारणे । एता एव सत्यः एतादृश्य एव सर्वाः कीदृश्यः सुभगाः शोभनश्रीकाः । आद्युदात्तात् 'द्व्यचश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । विश्वरूपाः नानारूपाः । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । पक्षोभिः पक्षस्थानीयैः आतैः दिग्भिः स [ता] ह्युछ्रियमाणा ऋष्वा महत्यः गतागतपर्याप्ताः । ऋष गतौ, औणादिको वप्रत्ययः । सतीः सत्यः एवंगुणा एव सर्वदा भवन्त्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । कवषः कवाटवत्यः तेन शुम्भमानाः । 'सुपां सुलुक्' इति स्वादेशः । यद्वा - 'तदाचष्टे' इति णिजन्तात् क्विप् । कवषः कवाटवत्यः ईदृश्यो द्वारो देव्यः सुप्रायणाः सुखेन प्राप्याः युष्माकं हे ऋत्विग्यजमानाः । भवन्तु । 'छन्दसि गत्यर्थेभ्यः' इति विच् ॥
6 अथ षष्ठी - अन्तरेति ॥ मित्रावरुणत्वादेवाहोरात्रयोस्ताच्छब्द्यम् । 'अन्तरान्तरेण' इति द्वितीया । मित्रावरुणयोः अहोरात्रयोर्मध्ये । 'सुपां सुलुक्' इत्याकारः । 'देवताद्वन्द्वे च' इत्यानङ् । चरन्ती चरन्त्यौ । पूर्ववत् सवर्णदीर्घत्वम् । यज्ञानां मुखं प्रारम्भमभिलक्ष्य संविदाने ऐकमत्यं गते । 'समोगमृच्छि' इत्यात्मने पदम् । सुहिरण्ये शोभनं हितत्वं रमणीयत्वं च ययोः सुशिल्पे शोभननैपुण्ये । उभयत्र 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ईदृश्यौ उषासा उषसौ । पूर्ववदाकारः, छान्दसो वर्णविकारः । पूर्वस्य उषसोवस्थाया द्वयोरहोरत्रयोरपि विद्यमानत्वात् द्वित्वम् । ऋतस्य यज्ञस्य योनौ इह अश्वे सादयामि स्थापयामि । निमित्तात्सप्तमी, अश्वनिमित्तमद्यप्रवर्तयामि । वां युवयोर्यज्ञस्य योनौ हे दम्पती! । यद्वा - होतारावेवोच्येते उषासेति, मित्रावरुणौ देवते अन्तराप्रवर्तमानौ अहोरात्रौ यज्ञयोगार्थं स्थापयामीति । समानमन्यत् ॥
7 सप्तमी - प्रथमा वामिति ॥ हे दम्पति! युवां युवयोरर्थाय ईदृशौ देवा होतारौ अपिप्रयं प्रीणयामि । प्रीञ् तर्पणे, छान्दसो लङ्, 'बहुलं छन्दसि' इति शपः श्लुः, ' नाभ्यस्तस्य' इति गुणाभावो व्यत्ययेन प्रवर्तते । कीदृशौ - प्रथमा प्रथमौ प्रधानौ । पूर्ववदाकारः । सरथिना सरथिनौ समानरथः सरथः तद्वन्तौ । सुवर्णा शोभनवर्णौ देवौ दीप्तिमन्तौ विश्वा भुवनानि भूतजातानि वां युवयोः चोदना चोदितानि विहितानि कर्माणि । पूर्ववदाकारः । मिमाना । यद्वा - चोदना चोदनौ कर्मणा मिमाना मानकुशलौ ज्योतिः प्रकाशं प्रदिशा प्रधानदिग्भिः दिशन्ता विसृजन्तौ । सर्वत्रैवाकारः ॥
8 अष्टमी - आदित्यैरिति ॥ आदित्यैस्सह नः अस्माकं यज्ञं भारती देवी वष्टु कामयताम् । वश कान्तौ । रुद्रैस्सह सरस्वती देवी नः अस्मान् आवीत् अवतु । अस्माकं वा यज्ञमवतु । छान्दसो लुङ् । इडा देवी अस्माभिः आहूता वसुभिः सजोषाः समानप्रीतिः अस्माकमवत्वित्येव । किं बहुना, देवी देव्यः यूयं तिस्रोपि इडा सरस्वती भरती च नः अस्माकं यज्ञं अमृतेषु अविद्यमानमरणेषु देवेषु धत्त स्थापयत । 'नङो जरमर' इत्युत्तरपदाद्युदात्तत्वम् ॥
9 नवमी - त्वष्टेति ॥ त्वष्टा देवः वीरं विक्रान्तं देवकामं देवान् कामयमानम् । 'शीलिकामि' इति णः, पूर्वपदप्रकृतिस्वरत्वं च । जजान जनयति । तस्मादेवं बहोः सर्वस्य कर्तारं त्वष्टारं हे होतः! इह अस्मिन् कर्मणि यक्षि यज । लेटि 'बहुलं छन्दसि' इति शपो लुक् ॥
10 दशमी - अश्व इति ॥ अश्वोऽयं घृतेन समक्तः सर्वात्मना अभ्यक्तः त्मना आत्मनैव सुभावत एव स्वादुभूत इति यावत् । 'सुपां सुलुक्' इति 'मन्त्रेष्वाङ्यादेः' इत्याकारलोपः । पाथोऽन्नं स्वादु भूत्वा देवानुपैतु उपगच्छतु ऋतुशः ऋतावृतौ काले 'सङ्कैयकवचनाच्च' इति शस् । देवानित्यस्मिन् नकारस्य 'दीर्घादटि समानपादे' इति संहितायां रुत्वम् । वनस्पतिः वानस्पत्योऽग्निः । विकारे प्रकृतिशब्दः सुट्स्वरावुक्तौ । देवलोकं प्रजानन् अग्निना आहवनीयेन सह स्वदितानि स्वादूकृतानि हव्या हव्यानि वक्षत् वहतु । 'शेश्छन्दसि' इति लोपः । वहेर्लेटि 'सिब्बहुलं लेटि' इति सिप् ॥
11 एकादशी - प्रजापतेरिति ॥ प्रजापतेः यजमानस्य तपसाअनेन कर्मणा वावृधानः वर्धमामः । छान्दसस्य लिटः कानजादेशः । सद्योजातः जातमात्र एव यज्ञं अध्वरं दधिषे धारयसि अग्ने । छान्दसो लिट् । स्वाहाकृतेन स्वाहाकारेण संस्कृतेन अनेन हविषा सह याहि गच्छ देवान् । स्वाहाशब्दस्य ऊर्यादित्वेन गतित्वात् 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । हे पुरोगाः प्रथमगामिन् । 'जनसन' इति विट्, 'विड्वनोः' इत्यात्वम् । साध्या साधितेन हविषा । यद्वा - साधु याहि साधु हविरदन्तु देवाः । 'सुपां सुलुक्' इति विभक्तेः ध्यादेशः टिलोपः, उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये पञ्चमे काण्डे प्रथमे प्रपाठके एकादशोनुवाकः ॥
समाप्तः प्रपाठकः ॥
……………………………………………………………………………………………………………
प्रश्नः-2