पञ्चशत् 1 #
उत्क्रा॒मो-द॑क्रमी॒दिति॒ द्वाभ्या॒मुत्क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्यां॒ तस्मा॒दनु॑रूपाः प॒शवः॒ प्रजा॑यन्ते॒ ऽप उप॑ सृजति॒ यत्र॒ वा आप॑ उप॒ गच्छ॑न्ति॒ तदोष॑धयः॒ प्रति॑ तिष्ठ॒न्त्योष॑धीः प्रति॒तिष्ठ॑न्तीः प॒शवोऽनु॒ प्रति॑ तिष्ठन्ति प॒शून्. य॒ज्ञो य॒ज्ञ्ं ॅयज॑मानो॒ यज॑मानं प्र॒जास्तस्मा॑द॒प उप॑ सृजति॒ प्रति॑ष्ठित्यै॒ यद॑द्ध्व॒र्यु-र॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो᳚ ऽद्ध्व॒र्युः - [ ]
पदपाठः (Word-by-word)
उदिति॑ । क्रा॒म॒ । उदिति॑ । अ॒क्र॒मी॒त् । इति॑ । द्वाभ्या᳚म् । उदिति॑ । क्र॒म॒य॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अनु॑रूपाभ्या॒मित्यनु॑-रू॒पा॒भ्या॒म् । तस्मा᳚त् । अनु॑रूपा॒ इत्यनु॑-रू॒पाः॒ । प॒शवः॑ । प्रेति॑ । जा॒य॒न्ते॒ । अ॒पः । उपेति॑ । सृ॒ज॒ति॒ । यत्र॑ । वै । आपः॑ । उ॒प॒गच्छ॒न्तीत्यु॑प - गच्छ॑न्ति । तत् । ओष॑धयः । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ओष॑धीः । प्र॒ति॒तिष्ठ॑न्ती॒रिति॑ प्रति - तिष्ठ॑न्तीः । प॒शवः॑ । अनु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । प॒शून् । य॒ज्ञ्ः । य॒ज्ञ्म् । यज॑मानः । यज॑मानम् । प्र॒जा इति॑ प्र-जाः । तस्मा᳚त् । अ॒पः । उपेति॑ । सृ॒ज॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । यत् । अ॒द्ध्व॒र्युः । अ॒न॒ग्नौ । आहु॑ति॒मित्या - हु॒ति॒म् । जु॒हु॒यात् । अ॒न्धः । अ॒द्ध्व॒र्युः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उत्क्रामोदक्रमीदिति ॥ द्वाभ्यां अश्वं प्राञ्चमुत्क्रामयति । द्वित्वात् प्रतिष्ठित्यै भवति । 'उत्क्राम महते सौभगाय, उदक्रमीद्द्रविणोदा वाजी' इति दर्शनात् आनुरूप्यमनयोः कर्मणि । आपो देवीरिति पदाशयमद्भिरुपसृजति । यत्र वा इत्यादि । गतम् । लक्षणे अनोः कर्मप्रवचनीयत्वम् ॥
2 यदध्वर्युरित्यादि ॥ यत्र दक्षिणेऽवान्तरशफे जिघर्म्यग्निमित्यभिजुहोति तत्र हिरण्यं निधाय होतव्यमित्यनेन विधीयते । मनसा हीति । अभि गच्छति संकल्पयति । सर्वं ह्येष इति । एष ह्यग्निं सर्वं भूतजातं प्रत्यङ्क्षेति अनुप्रविशति सर्वोपकारित्वात् सर्वगतत्वाच्च । क्षि निवासगत्योः तौदादिकः, व्यत्ययेन शपो लुक् । तस्मात्प्रतिक्ष्यन्तमुच्यते इति व्यत्ययेन उदङ्ग [. . . त्ययेन अङ्] क्रियते इति मन्यते । पृथुमित्यादि । गतम् ॥
3 उत्तरेऽवान्तरे शफे अभिजुहोति - आ त्वेति ॥ तस्मादिति । पूर्वो हि होमो मनसा, अयं तु वचसा । यस्मादेवं तस्मात्पुरुषः पूर्वं मनसाभिगतं पश्चाद्वाचा वदति । अपचितिं पूजां अस्मिन् दधाति, स्पृहणीयवर्ण इति दर्शनान् । मनसा तै तामिति । अनग्नौ हूयमाना आहुतिः मनसैवाप्यते । तस्मात् मनस्वतीभ्यां ऋग्भ्यां पूर्वोत्तराभ्यां होमः आहुत्योराप्त्यै भवति एवं हि आहुती अभिनिवृत्ते भवत इति । तदन्तलोपश्छान्दसः । प्रातिशाख्यं च 'तुनुपूर्व उदात्तयोर्वकारः' इति । द्वाभ्यामिति । जुहोतीत्येव ॥
4 'परि वाजपतिः' इति तिसृभिः पदं परिलिखति गायत्र्यनुष्टुप्त्रिष्टुभिः; तद्विधातुं स्तोतुं चारभते - यज्ञमुखे इत्यादि ॥ 'अनुदात्तं च' इति द्वितीयोनुदात्तः । अश्वशफस्य कथं यज्ञमुखत्वमित्याह - एतर्हीत्यादि । एतर्हि अस्मिन्काले खलु एतत्पदं यज्ञमुखं जातं यर्हि यस्मिन्काले एतत्पदमाहुतिरश्नुते प्राप्नुते । 'अनद्यतनेर्हिल्' 'एतेतौ रथोः' इति एतादेशः । 'द्वितीयाटौ स्वेनः' इति एनादेशः 'एनदिति नपुंसकैकवचनं वक्तव्यम्' इति । परिलिखतीति पदपरिलेखनविधि । तिसृभिरिति सख्याविधिः । त्रिवृता सहोत्पन्नत्वात्ताच्छब्द्यम्, त्रेधाहितेष्टकत्वाच्च । तस्मात्सर्वस्मादग्नेः रक्षांस्यपहन्ति । गायत्रियेत्यादि । छन्दोविधिः । तेजो वा इति । तद्धेतुत्वात्ताच्छब्द्यं सहोत्पत्त्या । एवमिन्द्रियं वै त्रिष्टुप् इति । अनुष्टुप् सर्वाणि छन्दांसीति । परिभूरिति । वाग्वा अनुष्टुप् । परिर्तो भवतीति परिभूः सर्वतो व्याप्नोति । 'अभितः परितः' इति द्वितीया । वलि लोपश्छान्दसः ॥
5 एवमभिप्रसिद्धेन क्रमेण छन्दांस्याम्नातानि । इदानीं तं बाधित्वा क्रमान्तरं विदधाति - मध्यतोऽनुष्टुभेति ॥ यदि तर्ह्याम्नातक्रमो बाध्यते प्रथमतृतीये उच्येतामित्याह - गायत्रिया प्रथमयेति । कः पुनः अस्मिन्क्रमे इत्याह – तेजो वा इत्यादि । गतम् ॥
इति पञ्चमे प्रथमे तृतीयोनुवाकः ॥