सुहिर॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि ॥प्र॒थ॒मा वाꣳ॑ सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा᳚ । अपि॑प्रयं॒ चोद॑ना वां॒ मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता᳚ ॥आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञ्ꣳ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् । इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञ्ं नो॑ देवीर॒मृते॑षु धत्त ॥त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ ( ) ।
पदपाठः (Word-by-word)
सु॒हि॒र॒ण्ये इति॑ सु - हि॒र॒ण्ये । सु॒शि॒ल्पे इति॑ सु-शि॒ल्पे । ऋ॒तस्य॑ । योनौ᳚ । इ॒ह । सा॒द॒या॒मि॒ ॥ प्र॒थ॒मा । वा॒म् । स॒र॒थिनेति॑ स - र॒थिना᳚ । सु॒वर्णेति॑ सु - वर्णा᳚ । दे॒वौ । पश्य॑न्तौ । भुव॑नानि । विश्वा᳚ ॥ अपि॑प्रयम् । चोद॑ना । वा॒म् । मिमा॑ना । होता॑रा । ज्योतिः॑ । प्र॒दिशेति॑ प्र - दिशा᳚ । दि॒शन्ता᳚ ॥ आ॒दि॒त्यैः । नः॒ । भार॑ती । व॒ष्टु॒ । य॒ज्ञ्म् । सर॑स्वती । स॒ह । रु॒द्रैः । नः॒ । आ॒वी॒त् ॥ इडा᳚ । उप॑हू॒तेत्युप॑-हू॒ता॒ । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । स॒जोषा॒ इति॑ स - जोषाः᳚ । य॒ज्ञ्म् । नः॒ । दे॒वीः॒ । अ॒मृते॑षु । ध॒त्त॒ ॥ त्वष्टा᳚ । वी॒रम् । दे॒वका॑म॒मिति॑ दे॒व-का॒म॒म् । ज॒जा॒न॒ । त्वष्टुः॑ । अर्वा᳚ । जा॒य॒ते॒ । आ॒शुः । अश्वः॑ ॥