त्वष्टे॒दं ॅविश्वं॒ भुव॑नं जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ॥अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाꣳ ऋ॑तु॒शः पाथ॑ एतु । वन॒स्पति॑-र्देवलो॒कं प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ॥प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञ्म॑ग्ने । स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒द्ध्या ह॒विर॑दन्तु दे॒वाः ॥
पदपाठः (Word-by-word)
त्वष्टा᳚ । इ॒दम् । विश्व᳚म् । भुव॑नम् । ज॒जा॒न॒ । ब॒होः । क॒र्तार᳚म् । इ॒ह । य॒क्षि॒ । हो॒तः॒ ॥ अश्वः॑ । घृ॒तेन॑ । त्मन्या᳚ । सम॑क्त॒ इति॒ सं - अ॒क्तः॒ । उपेति॑ । दे॒वान् । ऋ॒तु॒श इत्यृ॑तु - शः । पाथः॑ । ए॒तु॒ ॥ वन॒स्पतिः॑ । दे॒व॒लो॒कमिति॑ देव - लो॒कम् । प्र॒जा॒नन्निति॑ प्र-जा॒नन्न् । अ॒ग्निना᳚ । ह॒व्या । स्व॒दि॒तानि॑ । व॒क्ष॒त् ॥ प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । तप॑सा । वा॒वृ॒धा॒नः । स॒द्यः । जा॒तः । द॒धि॒षे॒ । य॒ज्ञ्म् । अ॒ग्ने॒ ॥ स्वाहा॑कृते॒नेति॒ स्वाहा᳚ - कृ॒ते॒न॒ । ह॒विषा᳚ । पु॒रो॒गा॒ इति॑ पुरः - गाः॒ । या॒हि । सा॒द्ध्या । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥