ह्यश्वा᳚द्-गर्द॒भोऽश्वं॒ पूर्वं॑ नयन्ति पापवस्य॒-सस्य॒ व्यावृ॑त्त्यै॒ तस्मा॒च्छ्रेयाꣳ॑सं॒ पापी॑यान् प॒श्चादन्वे॑ति ब॒हुर्वै भव॑तो॒ भ्रातृ॑व्यो॒ भव॑तीव॒ खलु॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते व॒ज्र्यश्वः॑ प्र॒तूर्व॒न्नेह्य॑व॒-क्राम॒न्न-श॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व पा॒प्मानं॒ भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒ गाण॑पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑ रु॒द्रादे॒व - [ ]
पदपाठः (Word-by-word)
हि । अश्वा᳚त् । ग॒र्द॒भः । अश्व᳚म् । पूर्व᳚म् । न॒य॒न्ति॒ । पा॒प॒व॒स्य॒सस्येति॑ पाप - व॒स्य॒सस्य॑ । व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै । तस्मा᳚त् । श्रेयाꣳ॑सम् । पापी॑यान् । प॒श्चात् । अन्विति॑ । ए॒ति॒ । ब॒हुः । वै । भव॑तः । भ्रातृ॑व्यः । भव॑ति । इ॒व॒ । खलु॑ । वै । ए॒षः । यः । अ॒ग्निम् । चि॒नु॒ते । व॒ज्री । अश्वः॑ । प्र॒तूर्व॒न्निति॑ प्र - तूर्वन्न्॑ । एति॑ । इ॒हि॒ । अ॒व॒क्राम॒न्नित्य॑व - क्रामन्न्॑ । अश॑स्तीः । इति॑ । आ॒ह॒ । वज्रे॑ण । ए॒व । पा॒प्मान᳚म् । भ्रातृ॑व्यम् । अवेति॑ । क्रा॒म॒ति॒ । रु॒द्रस्य॑ । गाण॑पत्या॒दिति॒ गाण॑ - प॒त्या॒त् । इति॑ । आ॒ह॒ । रौ॒द्राः । वै । प॒शवः॑ । रु॒द्रात् । ए॒व ।