प॒शून् नि॒र्याच्या॒ऽऽ*त्मने॒ कर्म॑ कुरुते पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह पू॒षा वा अद्ध्व॑नाꣳ सन्ने॒ता सम॑ष्ट्यै॒ पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निरङ्गि॑रसो॒ वा ए॒तमग्रे॑ दे॒वता॑नाꣳ॒॒ सम॑भरन् पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑-मङ्गिर॒स्व-दच्छे॒हीत्या॑ह॒ साय॑तनमे॒वैनं॑ दे॒वता॑भिः॒ सं भ॑रत्य॒ग्निं पु॑री॒ष्य॑-मङ्गिर॒स्व- दच्छे॑म॒ इत्या॑ह॒ येन॑ - [ ]
पदपाठः (Word-by-word)
प॒शून् । नि॒र्याच्येति॑ निः - याच्य॑ । आ॒त्मने᳚ । कर्म॑ । कु॒रु॒ते॒ । पू॒ष्णा । स॒युजेति॑ स-युजा᳚ । स॒ह । इति॑ । आ॒ह॒ । पू॒षा । वै । अद्ध्व॑नाम् । स॒नें॒तेति॑ सं - ने॒ता । सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । पुरी॑षायतन॒ इति॒ पुरी॑ष - आ॒य॒त॒नः॒ । वै । ए॒षः । यत् । अ॒ग्निः । अङ्गि॑रसः । वै । ए॒तम् । अग्रे᳚ । दे॒वता॑नाम् । समिति॑ । अ॒भ॒र॒न्न् । पृ॒थि॒व्याः । स॒धस्था॒दिति॑ स॒ध - स्था॒त् । अ॒ग्निम् । पु॒री॒ष्य᳚म् । अ॒ङ्गि॒र॒स्वत् । अच्छ॑ । इ॒हि॒ । इति॑ । आ॒ह॒ । साय॑तन॒मिति॒ स - आ॒य॒त॒न॒म् । ए॒व । ए॒न॒म् । दे॒वता॑भिः । समिति॑ । भ॒र॒ति॒ । अ॒ग्निम् । पु॒री॒ष्य᳚म् । अ॒ङ्गि॒र॒स्वत् । अच्छ॑ । इ॒मः॒ । इति॑ । आ॒ह॒ । येन॑ ।