प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.1.2.6 TS 5.1.2.6
मख्य॒दित्या॒हा-नु॑ख्यात्या आ॒गत्य॑ वा॒ज्यद्ध्व॑न आ॒क्रम्य॑ वाजिन् पृथि॒वीमित्या॑हे॒च्छत्ये॒वैनं॒ पूर्व॑या वि॒न्दत्युत्त॑रया॒ द्वाभ्या॒मा क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्यां॒ तस्मा॒दनु॑रूपाः प॒शवः॒ प्रजा॑यन्ते॒ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॒मित्या॑है॒भ्यो वा ए॒तं ॅलो॒केभ्यः॑ प्र॒जाप॑तिः॒ समै॑रयद् रू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒ ॅव्याच॑ष्टे व॒ज्री वा ( ) ए॒ष यदश्वो॑ द॒द्-भिर॒न्यतो॑दद्भ्यो॒ भूयां॒ ॅलोम॑भिरुभ॒याद॑द्भ्यो॒ यं द्वि॒ष्यात् तम॑धस्प॒दं ध्या॑ये॒द्-वज्रे॑णै॒वैनꣳ॑ स्तृणुते ॥
पदपाठः (Word-by-word)
अ॒ख्य॒त् । इति॑ । आ॒ह॒ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । आ॒गत्येत्या᳚ - गत्य॑ । वा॒जी । अद्ध्व॑नः । आ॒क्रम्येत्या᳚ - क्रम्य॑ । वा॒जि॒न्न् । पृ॒थि॒वीम् । इति॑ । आ॒ह॒ । इ॒च्छति॑ । ए॒व । ए॒न॒म् । पूर्व॑या । वि॒न्दति॑ । उत्त॑र॒येत्युत् - त॒र॒या॒ । द्वाभ्या᳚म् । एति॑ । क्र॒म॒य॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अनु॑रूपाभ्या॒मित्यनु॑ - रू॒पा॒भ्या॒म् । तस्मा᳚त् । अनु॑रूपा॒ इत्यनु॑-रू॒पाः॒ । प॒शवः॑ । प्रेति॑ । जा॒य॒न्ते॒ । द्यौः । ते॒ । पृ॒ष्ठम् । पृ॒थि॒वी । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । इति॑ । आ॒ह॒ । ए॒भ्यः । वै । ए॒तम् । लो॒केभ्यः॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । समिति॑ । ऐ॒र॒य॒त् । रू॒पम् । ए॒व । अ॒स्य॒ । ए॒तत् । म॒हि॒मान᳚म् । व्याच॑ष्ट॒ इति॑ वि - आच॑ष्टे । व॒ज्री । वै ( ) । ए॒षः । यत् । अश्वः॑ । द॒द्भिरिति॑ दत् - भिः । अ॒न्यतो॑दद्भ्य॒ इत्य॒न्यतो॑दत्-भ्यः॒ । भूयान्॑ । लोम॑भि॒रिति॒ लोम॑-भिः॒ । उ॒भ॒याद॑द्भ्य॒ इत्यु॑भ॒याद॑त् - भ्यः॒ । यम् । द्वि॒ष्यात् । तम् । अ॒ध॒स्प॒दमित्य॑धः - प॒दम् । ध्या॒ये॒त् । वज्रे॑ण । ए॒व । ए॒न॒म् । स्तृ॒णु॒ते॒ ॥
पदसंख्या: 67