स्या॒द्-रक्षाꣳ॑सि य॒ज्ञ्ꣳ ह॑न्यु॒र्॒.हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚-ऽद्ध्व॒र्युर्भव॑ति॒ न य॒ज्ञ्ꣳ रक्षाꣳ॑सि घ्नन्ति॒ जिघ॑र्म्य॒ग्निं मन॑सा घृ॒तेनेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञ्म॑भि॒गच्छ॑ति प्रति॒क्ष्यन्तं॒ भुव॑नानि॒ विश्वेत्या॑ह॒ सर्वꣳ॒॒ ह्ये॑ष प्र॒त्यङ् क्षेति॑ पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्त॒मित्या॒हाऽल्पो॒ ह्ये॑ष जा॒तो म॒हान् - [ ]
पदपाठः (Word-by-word)
स्या॒त् । रक्षाꣳ॑सि । य॒ज्ञ्म् । ह॒न्युः॒ । हिर॑ण्यम् । उ॒पास्येत्यु॑प - अस्य॑ । जु॒हो॒ति॒ । अ॒ग्नि॒वतीत्य॑ग्नि - वति॑ । ए॒व । जु॒हो॒ति॒ । न । अ॒न्धः । अ॒द्ध्व॒र्युः । भव॑ति । न । य॒ज्ञ्म् । रक्षाꣳ॑सि । घ्न॒न्ति॒ । जिघ॑र्मि । अ॒ग्निम् । मन॑सा । घृ॒तेन॑ । इति॑ । आ॒ह॒ । मन॑सा । हि । पुरु॑षः । य॒ज्ञ्म् । अ॒भि॒गच्छ॒तीत्य॑भि - गच्छ॑ति । प्र॒ति॒क्ष्यन्त॒मिति॑ प्रति - क्ष्यन्त᳚म् । भुव॑नानि । विश्वा᳚ । इति॑ । आ॒ह॒ । सर्व᳚म् । हि । ए॒षः । प्र॒त्यङ् । क्षेति॑ । पृ॒थुम् । ति॒र॒श्चा । वय॑सा । बृ॒हन्त᳚म् । इति॑ । आ॒ह॒ । अल्पः॑ । हि । ए॒षः । जा॒तः । म॒हान् ।