ॅवेद॒ मन॑सा॒ त्वै तामाप्तु॑मर्.हति॒ याम॑द्ध्व॒र्युर॑-न॒ग्नावाहु॑तिं जु॒होति॒ मन॑स्वतीभ्यां जुहो॒त्याहु॑त्यो॒राप्त्यै॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै यज्ञ्मु॒खे य॑ज्ञ्मुखे॒ वै क्रि॒यमा॑णे य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳ सन्त्ये॒तर्.हि॒ खलु॒ वा ए॒तद्-य॑ज्ञ्मु॒खं ॅयर्.ह्ये॑न॒दाहु॑तिरश्नु॒ते परि॑ लिखति॒ रक्ष॑सा॒मप॑हत्यै ति॒सृभिः॒ परि॑ लिखति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वा-ऽग्निस्तस्मा॒द्-रक्षाꣳ॒॒स्यप॑ हन्ति - [ ]
पदपाठः (Word-by-word)
वेद॑ । मन॑सा । तु । वै । ताम् । आप्तु᳚म् । अ॒र्॒.ह॒ति॒ । याम् । अ॒द्ध्व॒र्युः । अ॒न॒ग्नौ । आहु॑ति॒मित्या - हु॒ति॒म् । जु॒होति॑ । मन॑स्वतीभ्याम् । जु॒हो॒ति॒ । आहु॑त्यो॒रित्या - हू॒त्योः॒ । आप्त्यै᳚ । द्वाभ्या᳚म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । य॒ज्ञ्॒मु॒खे य॑ज्ञ्मुख॒ इति॑ यज्ञ्मु॒खे - य॒ज्ञ्॒मु॒खे॒ । वै । क्रि॒यमा॑णे । य॒ज्ञ्म् । रक्षाꣳ॑सि । जि॒घाꣳ॒॒स॒न्ति॒ । ए॒तर्.हि॑ । खलु॑ । वै । ए॒तत् । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । यर्.हि॑ । ए॒न॒त् । आहु॑ति॒रित्या - हु॒तिः॒ । अ॒श्नु॒ते । परीति॑ । लि॒ख॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । परीति॑ । लि॒ख॒ति॒ । त्रि॒वृदिति॑ त्रि - वृत् । वै । अ॒ग्निः । यावान्॑ । ए॒व । अ॒ग्निः । तस्मा᳚त् । रक्षाꣳ॑सि । अपेति॑ । ह॒न्ति॒ ।