ह॑रत्य॒पां ॅवा ए॒तत् पृ॒ष्ठं ॅयत् पु॑ष्करप॒र्णꣳ रू॒पेणै॒वैन॒दा ह॑रति पुष्करप॒र्णेन॒ सं भ॑रति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्णꣳ सयो॑निमे॒वाग्निꣳ संभ॑रति कृष्णाजि॒नेन॒ संभ॑रति य॒ज्ञो वै कृ॑ष्णाजि॒नं ॅय॒ज्ञेनै॒व य॒ज्ञ्ꣳ संभ॑रति॒ यद् ग्रा॒म्याणां᳚ पशू॒नां चर्म॑णा स॒भंरे᳚द् ग्रा॒म्यान् प॒शूञ्छु॒चाऽर्प॑येत् कृष्णाजि॒नेन॒ संभ॑रत्यार॒ण्याने॒व प॒शून् - [ ]
पदपाठः (Word-by-word)
ह॒र॒ति॒ । अ॒पाम् । वै । ए॒तत् । पृ॒ष्ठम् । यत् । पु॒ष्क॒र॒प॒र्णमिति॑ पुष्कर - प॒र्णम् । रू॒पेण॑ । ए॒व । ए॒न॒त् । एति॑ । ह॒र॒ति॒ । पु॒ष्क॒र॒प॒र्णेनेति॑ पुष्कर - प॒र्णेन॑ । समिति॑ । भ॒र॒ति॒ । योनिः॑ । वै । अ॒ग्नेः । पु॒ष्क॒र॒प॒र्णमिति॑ पुष्कर - प॒र्णम् । सयो॑नि॒मिति॒ स-यो॒नि॒म् । ए॒व । अ॒ग्निम् । समिति॑ । भ॒र॒ति॒ । कृ॒ष्णा॒जि॒नेनेति॑ कृष्ण-अ॒जि॒नेन॑ । समिति॑ । भ॒र॒ति॒ । य॒ज्ञ्ः । वै । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । य॒ज्ञेन॑ । ए॒व । य॒ज्ञ्म् । समिति॑ । भ॒र॒ति॒ । यत् । ग्रा॒म्याणा᳚म् । प॒शू॒नाम् । चर्म॑णा । स॒भंरे॒दिति॑ सं - भरे᳚त् । ग्रा॒म्यान् । प॒शून् । शु॒चा । अ॒र्प॒ये॒त् । कृ॒ष्णा॒जि॒नेनेति॑ कृष्ण - अ॒जि॒नेन॑ । समिति॑ । भ॒र॒ति॒ । आ॒र॒ण्यान् । ए॒व । प॒शून् ।